रामायणम्/अरण्यकाण्डम्/सर्गः ६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ७ →



'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठः सर्गः ॥३-६॥'''

शरभङ्गे दिवम् प्राप्ते मुनि संघाः समागताः ।
अभ्यगच्छन्त काकुत्स्थम् रामम् ज्वलित तेजसम्  ॥३-६-१॥

वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः ।
अश्म कुट्टाः च बहवः पत्र आहाराः च तापसाः ॥३-६-२॥

दन्त उलूखलिनः च एव तथा एव उन्मज्जकाः परे ।
गात्र शय्या अशय्याः च तथा एव अनवकाशिकाः ॥३-६-३॥

मुनयः सलिल आहारा वायु भक्षाः तथा अपरे ।
आकाश निलयाः च एव तथा स्थण्डिल शायिनः  ॥३-६-४॥

तथा ऊर्थ्व वासिनः दान्ताः तथा आर्द्र पट वाससः ।
स जपाः च तपो नित्याः तथा पंच तपोऽन्विताः ॥३-६-५॥

सर्वे ब्राह्म्या श्रिया ज्युक्ता दृढ योग समाहिताः ।
शरभंग आश्रमे रामम् अभिजग्मुः च तापसाः  ॥३-६-६॥

अभिगम्य च धर्मज्ञा रामम् धर्म भृताम् वरम् ।
ऊचुः परम धर्मज्ञम् ऋषि संघाः समागताः ॥३-६-७॥

त्वम् इक्ष्वाकु कुलस्य अस्य पृथिव्याः च महारथः ।
प्रधानः च अपि नाथः च देवानाम् मघवान् इव ॥३-६-८॥

विश्रुतः त्रिषु लोकेषु यशसा विक्रमेण च ।
पितृ व्रतत्वम् सत्यम् च त्वयि धर्मः च पुष्कलः ॥३-६-९॥

त्वाम् आसाद्य महात्मानम् धर्मज्ञम् धर्म वत्सलम् ।
अर्थित्वात् नाथ वक्ष्यामः तत् च नः क्षन्तुम् अर्हसि ॥३-६-१०॥

अधार्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः ।
यो हरेत् बलि षड् भागम् न च रक्षति पुत्रवत् ॥३-६-११॥

युंजानः स्वान् इव प्राणान् प्राणैः इष्टान् सुतान् इव ।
नित्य युक्तः सदा रक्षन् सर्वान् विषय वासिनः ॥३-६-१२॥

प्राप्नोति शाश्वतीम् राम कीर्तिम् स बहु वार्षिकीम् ।
ब्रह्मणः स्थानम् आसाद्य तत्र च अपि महीयते ॥३-६-१३॥

यत् करोति परम् धर्मम् मुनिः मूल फल अशनः ।
तत्र राज्ञः चतुर् भागः प्रजा धर्मेण रक्षतः ॥३-६-१४॥

सो अयम् ब्राह्मण भूयिष्ठो वानप्रस्थ गणो महान् ।
त्वम् नाथो अनाथवत् राम राक्षसैः हन्यते भृशम् ॥३-६-१५॥

एहि पश्य शरीराणि मुनीनाम् भावित आत्मनाम् ।
हतानाम् राक्षसैः घोरैः बहूनाम् बहुधा वने ॥३-६-१६॥

पंपा नदी निवासानाम् अनुमन्दाकिनीम् अपि ।
चित्रकूट आलयानाम् च क्रियते कदनम् महत् ॥३-६-१७॥

एवम् वयम् न मृष्यामो विप्रकारम् तपस्विनाम् ।
क्रियमाणम् वने घोरम् रक्षोभिः भीम कर्मभिः ॥३-६-१८॥

ततः त्वाम् शरणार्थम् च शरण्यम् समुपस्थिताः ।
परिपालय नः राम वध्यमानान् निशाचरैः ॥३-६-१९॥

परा त्वत्तः गतिः वीर पृधिव्यम् न उपपद्यते ।
परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मजः ॥३-६-२०॥

एतत् श्रुत्वा तु काकुत्स्थः तापसानाम् तपस्विनाम् ।
इदम् प्रोवाच धर्मात्मा सर्वान् एव तपस्विनः ॥३-६-२१॥

न एवम् अर्हथ माम् वक्तुम् आज्ञाप्यः अहम् तपस्विनाम् ।
केवलेन स्व कार्येण प्रवेष्टव्यम् वनम् मया  ॥३-६-२२॥

विप्रकारम् अपाक्रष्टुम् राक्षसैः भवताम् इमम् ।
पितुः तु निर्देशकरः  प्रविष्टो अहम् इदम् वनम् ॥३-६-२३॥

भवताम् अर्थ सिद्ध्यर्थम् आगतोऽहम् यदृच्छया ।
तस्य मे अयम् वने वासो भविष्यति महाफलः  ॥३-६-२४॥

तपस्विनाम् रणे शत्रून् हन्तुम् इच्छामि राक्षसान् ।
पश्यन्तु वीर्यम् ऋषयः सः ब्रातुर् मे तपोधनाः ॥३-६-२५॥

दत्त्वा अभयम् च अपि तपो धनानाम्धर्मे धृइत आत्मा सह लक्ष्मणेन ।
तपो धनैः च अपि सह आर्य दत्तःसुतीक्ष्णम् एव अभिजगाम वीरः ॥३-६-२६॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षष्ठः सर्गः ॥३-६॥