रामायणम्/अरण्यकाण्डम्/सर्गः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ११ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः १३ →



'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वादशः सर्गः ॥३-१२॥'''

स प्रविश्य आश्रम पदम् लक्ष्मणो राघव अनुजः ।
अगस्त्य शिष्यम् आसाद्य वाक्यम् एतद् उवाच ह ॥३-१२-१॥

राजा दशरथो नाम ज्येष्ठः तस्य सुतो बली ।
रामः प्राप्तो मुनिम् द्रष्टुम् भार्यया सह सीतया ॥३-१२-२॥

लक्ष्मणो नाम तस्य अहम् भ्राता तु अवरजो हितः ।
अनुकूलः च भक्तः च यदि ते श्रोत्रम् आगतः ॥३-१२-३॥

ते वयम् वनम् अत्युग्रम् प्रविष्टाः पितृ शासनात् ।
द्रष्टुम् इच्छामहे सर्वे भगवन्तम् निवेद्यताम् ॥३-१२-४॥

तस्य तद् वचनम् श्रुत्वा लक्ष्मणस्य तपोधनः ।
तथा इति उक्त्वा अग्नि शरणम् प्रविवेश निवेदितुम् ॥३-१२-५॥

स प्रविश्य मुनिश्रेष्ठम् तपसा दुष्प्रधर्षणम् ।
कृत अंजलिः उवाच इदम् राम आगमनम् अञ्जसा ॥३-१२-६॥

यथा उक्तम् लक्ष्मणेन एव शिष्यः तस्य अगस्तस्य संमतः ।
पुत्रौ दशरथस्य इमौ रामो लक्ष्मण एव च ॥३-१२-७॥

प्रविष्टौ आश्रमपदम् सीतया सह भार्यया ।
द्रष्टुम् भवन्तम् आयातौ शुश्रूषार्थम् अरिन्दमौ ॥३-१२-८॥

यद् अत्र अनंतरम् तत् त्वम् आज्ञापयितुम् अर्हसि ।
ततः शिष्यात् उपश्रुत्य प्राप्तम् रामम् स लक्ष्मणम् ॥३-१२-९॥

वैदेहीम् च महाभागाम् इदम् वचनम् अब्रवीत् ।
दिष्ट्या रामः चिरस्य अद्य द्रष्टुम् माम् समुपागतः ॥३-१२-१०॥

मनसा कांक्षितम् हि अस्य मया अपि आगमनम् प्रति ।
गम्यताम् सत्कृतो रामः स भार्यः सह लक्ष्मणः ॥३-१२-११॥

प्रवेश्यताम् समीपम् मे किम् असौ न प्रवेशितः ।
एवम् उक्तः तु मुनिना धर्मज्ञेन महात्मना ॥३-१२-१२॥

अभिवाद्य अब्रवीत् शिष्यः तथा इति नियत अंजलिः ।
तदा निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणम् अब्रवीत् ॥३-१२-१३॥

क्व असौ रामो मुनिम् द्रष्टुम् एतु प्रविशतु स्वयम् ।
ततो गत्वा आश्रम पदम् शिष्येण सह लक्ष्मणः ॥३-१२-१४॥

दर्शयामास काकुत्स्थम् सीताम् च जनकात्मजाम् ।
तम् शिष्यः प्रश्रितम् वाक्यम् अगस्त्य वचनम् ब्रुवन् ॥३-१२-१५॥

प्रावेशयत् यथा न्यायम् सत्कार अर्ह सुसत्कृतम् ।
प्रविवेश ततो रामः सीतया सह लक्ष्मणः ॥३-१२-१६॥

प्रशान्त हरिण आकीर्णम् आश्रमम् हि अवलोकयन् ।
स तत्र ब्रह्मणः स्थानम् अग्नेः स्थानम् तथैव च ॥३-१२-१७॥

विष्णोः स्थानम् महेन्द्रस्य स्थानम् चैव विवस्वतः ।
सोम स्थानम् भग स्थानम् स्थानम् कौबेरम् एव च ॥३-१२-१८॥

धातुर् विधातुः स्थानम् च वायोः स्थानम् तथैव च ।
स्थानम् च पाश हस्तस्य वारुणस्य महात्मनः ॥३-१२-१९॥

स्थानम् तथैव गायत्र्या वसूनाम् स्थानम् एव च ।
स्थानम् च नागराजस्य गरुड स्थानम् एव च ॥३-१२-२०॥

कार्तिकेयस्य च स्थानम् धर्म स्थानम् च पश्यति ।
ततः शिष्यैः परिवृतो मुनिर् अपि अभिनिष्पतत् ॥३-१२-२१॥

तम् ददर्श अग्रतो रामो मुनीनाम् दीप्त तेजसम् ।
अब्रवीत् वचनम् वीरो लक्ष्मणम् लक्ष्मिवर्धनम् ॥३-१२-२२॥

बहिर् लक्ष्मण निष्क्रामति अगस्त्यो भगवान् ऋषिः ।
औदार्येण अवगच्छामि निधानम् तपसाम् इमम् ॥३-१२-२३॥

एवम् उक्त्वा महाबाहुः अगस्त्यम् सूर्य वर्चसम् ।
जग्राह आपतत् तस्य पादौ च रघुनन्दन ॥३-१२-२४॥

अभिवाद्य तु धर्मात्मा तस्थौ रामः कृतांजलिः ।
सीतया सह वैदेह्या तदा रामः स लक्ष्मणः ॥३-१२-२५॥

प्रतिगृह्य च काकुत्स्थम् अर्चयित्वा आसन उदकैः ।
कुशल प्रश्नम् उक्त्वा च आस्यताम् इति सोऽब्रवीत् ॥३-१२-२६॥

अग्निम् हुत्वा प्रदाय अर्घ्यम् अतिथिन् प्रतिपूज्य च ।
वानप्रस्थेन धर्मेण स तेषाम् भोजनम् ददौ ॥३-१२-२७॥

प्रथमम् च उपविश्य अथ धर्मज्ञो मुनिपुंगवः ।
उवाच रामम् आसीनम् प्रांजलिम् धर्मकोविदम् ॥३-१२-२८॥

अग्निम् हुत्वा प्रदाय अर्घ्यम् अतिथिम् प्रतिपूजयेत् ।
अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् ।
दुःसाक्षी इव परे लोके स्वानि मांसानि भक्षयेत् ॥३-१२-२९॥

राजा सर्वस्य लोकस्य धर्मचारी महारथः ।
पूजनीयः च मान्यः च भवान् प्राप्तः प्रिय अतिथिः ॥३-१२-३०॥

एवम् उक्त्वा फलैः मूलैः पुष्पैः च अन्यैः च राघवम् ।
पूजयित्वा यथा कामम् ततो अगस्त्यः तम् अब्रवीत् ॥३-१२-३१॥

इदम् दिव्यम् महत् चापम् हेम वज्र विभूषितम् ।
वैष्णवम् पुरुषव्याघ्र निर्मितम् विश्वकर्मणा ॥३-१२-३२॥

अमोघः सूर्य संकाशो ब्रह्मदत्तः शर उत्तमः ।
दत्तो मम महेन्द्रेण तूणी च अक्षय सायकौ ॥३-१२-३३॥

संपूर्णौ निशितैः बाणैः ज्वलद्भिः इव पावकैः ।
महा रजत कोशो अयम् असिः हेमविभूषितः ॥३-१२-३४॥

अनेन धनुषा राम हत्वा संख्ये महासुरान् ।
आजहार श्रियम् दीप्ताम् पुरा विष्णुर् दिव ओकसाम् ॥३-१२-३५॥

तत् धनुः तौ च तूणि च शरम् खड्गम् च मानद ।
जयाय प्रतिगृह्णीष्व वज्रम् वज्रधरो यथा ॥३-१२-३६॥

एवम् उक्त्वा महा तेजाः समस्तम् तत् वर आयुधम् ।
दत्त्वा रामाय भगवान् अगस्त्यः पुनर् अब्रवीत् ॥३-१२-३७॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्वादशः सर्गः ॥३-१२॥