रामायणम्/अरण्यकाण्डम्/सर्गः ७०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६९ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ७१ →


श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्ततितमः सर्गः ॥३-७०॥

तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ राम लक्ष्मणौ ।
बाहु पाश परिक्षिप्तौ कबन्धो वाक्यम् अब्रवीत् ॥३-७०-१॥

तिष्ठतः किम् नु माम् दृष्ट्वा क्षुधा आर्तम् क्षत्रिय
ऋषभौ ।
आहार अर्थम् तु सन्दिष्टौ दैवेन गत चेतसौ ॥३-७०-२॥

तत् श्रुत्वा लक्ष्मणो वाक्यम् प्राप्त कालम् हितम् तदा ।
उवाच आर्तिम् समापन्नो विक्रमे कृत निश्चयः ॥३-७०-३॥

त्वाम् च माम् च पुरा तूर्णम् आदत्ते राक्षस अधमः ।
तस्मात् असिभ्याम् अस्य आशु बाहू चिन्दावहे गुरू ॥३-७०-४॥

भिषणो अयम् महाकायो राक्षसो भुज विक्रमः ।
लोकम् हि अति जितम् कृत्वा हि अवाम् हन्तुम् इह इच्छति ॥३-७०-५॥

निश्चेष्टानाम् वधो राजन् कुत्स्तितो जगती पतेः ।
क्रतु मध्य उपनीतानाम् पशूनाम् इव राघव ॥३-७०-६॥

एतत् संजल्पितम् श्रुत्वा तयोः क्रुद्धः तु राक्षसः ।
विदार्य आस्यम् ततो रौद्रम् तौ भक्षयितुम् आरभत् ॥३-७०-७॥

ततः तौ देश कालज्ञौ खड्गाभ्याम् एव राघवौ ।
अच्छिन्दताम् सुसंहृष्टौ बाहू तस्य अंस देशतः ॥३-७०-८॥

दक्षिणो दक्षिणम् बाहुम् असक्तम् असिना ततः ।
चिच्छेद रामो वेगेन सव्यम् वीरः तु लक्ष्मणः ॥३-७०-९॥

स पपात महाबाहुः चिन्न बाहुः महा स्वनः ।
खम् च गाम् च दिशः चैव नादयन् जलदो यथा ॥३-७०-१०॥

स निकृत्तौ भुजौ दृष्ट्वा शोणित ओघ परिप्लुतः ।
दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः ॥३-७०-११॥

इति तस्य ब्रुवाणस्य लक्ष्मणः शुभ लक्षणः ।
शशंस तस्य काकुत्स्थम् कबंधस्य महाबलः ॥३-७०-१२॥

अयम् इक्ष्वाकु दायादो रामो नाम जनैः श्रुतः ।
तस्य एव अवरजम् विद्धि भ्रातरम् माम् च लक्ष्मणम् ॥३-७०-१३॥

मात्रा प्रतिहतो राज्ये रामः प्रवाजितो वनम् ।
मया सह चरति एष भार्यया च महत् वनम् ॥३-७०-१४॥

अस्य देव प्रभावस्य वसतो विजने वने ।
रक्षसा अपहृता भार्या याम् इच्छन्तौ इह आगतौ ॥३-७०-१५॥

त्वम् तु को वा किम् अर्थम् वा कबन्ध सदृशो वने ।
आस्येन उरसि दीप्तेन भग्न जन्घो विचेष्टसे ॥३-७०-१६॥

एवम् उक्तः कबंधः तु लक्ष्मणेन उत्तरम् वचः ।
उवाच परम प्रीतः तत् इन्द्र वचनम् स्मरन् ॥३-७०-१७॥

स्वागतम् वाम् नरव्याघ्रौ दिष्ट्या पश्यामि वाम् अहम् ।
दिष्ट्या च इमौ निकृत्तौ मे युवाभ्याम् बाहु बन्धनौ ॥३-७०-१८॥

विरूपम् यत् च मे रूपम् प्राप्तम् हि अविनयात् यथा ।
तत् मे शृणु नरव्याघ्र तत्त्वतः शंसतः तव ॥३-७०-१९॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे सप्ततितमः सर्गः ॥३-७०॥