रामायणम्/अरण्यकाण्डम्/सर्गः ३६
< रामायणम् | अरण्यकाण्डम्
Jump to navigation
Jump to search
← सर्गः ३५ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ३७ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्त्रिंशः सर्गः ॥३-३६॥ मारीच श्रूयताम् तात वचनम् मम भाषतः । आर्तो अस्मि मम च आर्तस्य भवान् हि परमा गतिः ॥३-३६-१॥ जानीषे त्वम् जनस्थाने भ्राता यत्र खरो मम । दूषणः च महाबाहुः स्वसा शूर्पणखा च मे ॥३-३६-२॥ त्रिशिराः च महातेजा राक्षसः पिशित अशनः । अन्ये च बहवः शूरा लब्ध लक्षा निशाचराः ॥३-३६-३॥ वसन्ति मत् नियोगेन अधिवासम् च राक्षसः । बाधमाना महारण्ये मुनीन् ये धर्म चारिणः ॥३-३६-४॥ चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् । शूराणाम् लब्ध लक्षाणाम् खर चित्त अनुवर्तिनाम् ॥३-३६-५॥ ते तु इदानीम् जनस्थाने वसमाना महाबलाः । संगताः परम आयत्ता रामेण सह संयुगे ॥३-३६-६॥ नाना शस्त्र प्रहरणाः खर प्रमुख राक्षसः । तेन संजात रोषेण रामेण रण मूर्धनि ॥३-३६-७॥ अनुक्त्वा परुषम् किंचित् शरैर् व्यापारितम् धनुः । चतुर्दश सहस्राणि रक्षसाम् उग्र तेजसाम् ॥३-३६-८॥ निहतानि शरैः दीप्तैः मानुषेण पदातिना । खरः च निहतः संख्ये दूषणः च निपातितः ॥३-३६-९॥ हत्वा त्रिशिरसम् च अपि निर्भया दण्डकाः कृताः । पित्रा निरस्तः क्रुद्धेन स भार्यः क्षीण जीवितः ॥३-३६-१०॥ स हन्ता तस्य सैन्यस्य रामः क्षत्रिय पांसनः । अशीलः कर्कशः तीक्ष्णो मूर्खो लुब्धो अजित इन्द्रियः ॥३-३६-११॥ त्यक्त धर्मः तु अधर्म आत्मा भूतानाम् अहिते रतः । येन वैरम् विना अरण्ये सत्त्वम् आश्रित्य केवलम् ॥३-३६-१२॥ कर्ण नास अपहारेण भगिनी मे विरूपिता । तस्य भार्याम् जनस्थानात् सीताम् सुर सुत उपमाम् ॥३-३६-१३॥ आनयिष्यामि विक्रम्य सहायः तत्र मे भव । त्वया हि अहम् सहायेन पार्श्वस्थेन महाबल ॥३-३६-१४॥ भ्रातृभिः च सुरान् युद्धे समग्रान् न अभिचिंतये । तत् सहायो भव त्वम् मे समर्थो हि असि राक्षस ॥३-३६-१५॥ वीर्ये युद्धे च दर्पे च न हि अस्ति सदृशः तव । उपायतो महान् शूरो महा माय विशारदः ॥३-३६-१६॥ एतत् अर्थम् अहम् प्राप्तः त्वत् समीपम् निशाचर । शृणु तत् कर्म साहाय्ये यत् कार्यम् वचनात् मम ॥३-३६-१७॥ सौवर्णः त्वम् मृगो भूत्वा चित्रो रजत बिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥३-३६-१८॥ त्वाम् तु निःसंशयम् सीता दृष्ट्वा तु मृग रूपिणम् । गृह्यताम् इति भर्तारम् लक्ष्मणम् च अभिधास्यति ॥३-३६-१९॥ ततः तयोः अपाये तु शून्ये सीताम् यथा सुखम् । निराबाधो हरिष्यामि राहुः चन्द्र प्रभाम् इव ॥३-३६-२०॥ ततः पश्चात् सुखम् रामे भार्या आहरण कर्शिते । विस्रब्धम् प्रहरिष्यामि कृत अर्थेन अन्तर् आत्मना ॥३-३६-२१॥ तस्य राम कथाम् श्रुत्वा मारीचस्य महात्मनः । शुष्कम् समभवत् वक्त्रम् परित्रस्तो बभूव च ॥३-३६-२२॥ ओष्टौ परिलिहन् शुष्कौ नेत्रैः अनिमिषैः इव । मृत भूत इव आर्तः तु रावणम् समुत् ईक्षतः ॥३-३६-२३॥ स रावणम् त्रस्त विषण्ण चेतामहावने राम पराक्रमज्ञः । कृत अंजलिः तत्त्वम् उवाच वाक्यम्हितम् च तस्मै हितम् आत्मनः च ॥३-३६-२४॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षट्त्रिंशः सर्गः ॥३-३६॥