रामायणम्/अरण्यकाण्डम्/सर्गः ६४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ६३ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ६५ →
चतुःषष्ठितमः सर्गः श्रूयताम्


श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥


स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत्।
शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्॥ १॥

अपि गोदावरीं सीता पद्मान्यानयितुं गता।
एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि॥ २॥

नदीं गोदावरीं रम्यां जगाम लघुविक्रमः।
तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्॥ ३॥

नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे।
कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी॥ ४॥

नहि तं वेद्मि वै राम यत्र सा तनुमध्यमा।
लक्ष्मणस्य वचः श्रुत्वा दीनः संतापमोहितः॥ ५॥

रामः समभिचक्राम स्वयं गोदावरीं नदीम्।
स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्॥ ६॥

भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि।
न तां शशंसू रामाय तथा गोदावरी नदी॥ ७॥

ततः प्रचोदिता भूतैः शंस चास्मै प्रियामिति।
न च सा ह्यवदत् सीतां पृष्टा रामेण शोचता॥ ८॥

रावणस्य च तद्‍रूपं कर्मापि च दुरात्मनः।
ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ह॥ ९॥

निराशस्तु तया नद्या सीताया दर्शने कृतः।
उवाच रामः सौमित्रिं सीतादर्शनकर्शितः॥ १०॥

एषा गोदावरी सौम्य किंचिन्न प्रतिभाषते।
किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः॥ ११॥

मातरं चैव वैदेह्या विना तामहमप्रियम्।
या मे राज्यविहीनस्य वने वन्येन जीवतः॥ १२॥

सर्वं व्यपानयच्छोकं वैदेही क्व नु सा गता।
ज्ञातिवर्गविहीनस्य वैदेहीमप्यपश्यतः॥ १३॥

मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः।
मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम्॥ १४॥

सर्वाण्यनुचरिष्यामि यदि सीता हि लभ्यते।
एते महामृगा वीर मामीक्षन्ते पुनः पुनः॥ १५॥

वक्तुकामा इह हि मे इङ्गितान्युपलक्षये।
तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह॥ १६॥

क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया गिरा।
एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः॥ १७॥

दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम्।
मैथिली ह्रियमाणा सा दिशं यामभ्यपद्यत॥ १८॥

तेन मार्गेण गच्छन्तो निरीक्षन्ते नराधिपम्।
येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः॥ १९॥

पुनर्नदन्तो गच्छन्ति लक्ष्मणेनोपलक्षिताः।
तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम्॥ २०॥

उवाच लक्ष्मणो धीमान् ज्येष्ठं भ्रातरमार्तवत्।
क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः॥ २१॥

दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः।
साधु गच्छावहे देव दिशमेतां च नैर्ऋतीम्॥ २२॥

यदि तस्यागमः कश्चिदार्या वा साथ लक्ष्यते।
बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम्॥ २३॥

लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुंधराम्।
एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ॥ २४॥

वसुंधरायां पतितपुष्पमार्गमपश्यताम्।
पुष्पवृष्टिं निपतितां दृष्ट्वा रामो महीतले॥ २५॥

उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः।
अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण॥ २६॥

अपिनद्धानि वैदेह्या मया दत्तानि कानने।
मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी॥ २७॥

अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम्।
एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम्॥ २८॥

उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम्।
कच्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी॥ २९॥

रामा रम्ये वनोद्देशे मया विरहिता त्वया।
क्रुद्धोऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा॥ ३०॥

तां हेमवर्णां हेमाङ्गीं सीतां दर्शय पर्वत।
यावत् सानूनि सर्वाणि न ते विध्वंसयाम्यहम्॥ ३१॥

एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति।
दर्शयन्निव तां सीतां नादर्शयत राघवे॥ ३२॥

ततो दाशरथी राम उवाच च शिलोच्चयम्।
मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि॥ ३३॥

असेव्यः सर्वतश्चैव निस्तृणद्रुमपल्लवः।
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण॥ ३४॥

यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम्।
एवं प्ररुषितो रामो दिधक्षन्निव चक्षुषा॥ ३५॥

ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्।
त्रस्ताया रामकांक्षिण्याः प्रधावन्त्या इतस्ततः॥ ३६॥

राक्षसेनानुसृप्ताया वैदेह्याश्च पदानि तु।
स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च॥ ३७॥

भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम्।
सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्॥ ३८॥

पश्य लक्ष्मण वैदेह्या कीर्णाः कनकबिन्दवः।
भूषणानां हि सौमित्रे माल्यानि विविधानि च॥ ३९॥

तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः।
आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्॥ ४०॥

मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः।
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति॥ ४१॥

तस्या निमित्तं सीताया द्वयोर्विवदमानयोः।
बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह॥ ४२॥

मुक्तामणिचितं चेदं रमणीयं विभूषितम्।
धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः॥ ४३॥

राक्षसानामिदं वत्स सुराणामथवापि वा।
तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्॥ ४४॥

विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्।
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्॥ ४५॥

भग्नदण्डमिदं सौम्य भूमौ कस्य निपातितम्।
काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः॥ ४६॥

भीमरूपा महाकायाः कस्य वा निहता रणे।
दीप्तपावकसंकाशो द्युतिमान् समरध्वजः॥ ४७॥

अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः।
रथाक्षमात्रा विशिखास्तपनीयविभूषणाः॥ ४८॥

कस्येमे निहता बाणाः प्रकीर्णा घोरदर्शनाः।
शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण॥ ४९॥

प्रतोदाभीषुहस्तोऽयं कस्य वा सारथिर्हतः।
पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः॥ ५०॥

वैरं शतगुणं पश्य मम तैर्जीवितान्तकम्।
सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः॥ ५१॥

हृता मृता वा वैदेही भक्षिता वा तपस्विनी।
न धर्मस्त्रायते सीतां ह्रियमाणां महावने॥ ५२॥

भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण।
के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः॥ ५३॥

कर्तारमपि लोकानां शूरं करुणवेदिनम्।
अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण॥ ५४॥

मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्।
निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः॥ ५५॥

मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण।
अद्यैव सर्वभूतानां रक्षसामभवाय च॥ ५६॥

संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः।
संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते॥ ५७॥

नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः।
किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण॥ ५८॥

ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण।
असम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्॥ ५९॥

संनिरुद्धग्रहगणमावारितनिशाकरम्।
विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम्॥ ६०॥

विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम्।
ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्॥ ६१॥

त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा।
न ते कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः॥ ६२॥

अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्।
नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण॥ ६३॥

मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम्।
मर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्॥ ६४॥

समाकुलममर्यादं जगत् पश्याद्य लक्ष्मण।
आकर्णपूर्णैरिषुभिर्जीवलोकदुरावरैः॥ ६५॥

करिष्ये मैथिलीहेतोरपिशाचमराक्षसम्।
मम रोषप्रयुक्तानां विशिखानां बलं सुराः॥ ६६॥

द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद् दूरगामिनाम्।
नैव देवा न दैतेया न पिशाचा न राक्षसाः॥ ६७॥

भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते।
देवदानवयक्षाणां लोका ये रक्षसामपि॥ ६८॥

बहुधा निपतिष्यन्ति बाणौघैः शकलीकृताः।
निर्मर्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः॥ ६९॥

हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः।
तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम्॥ ७०॥

नाशयामि जगत् सर्वं त्रैलोक्यं सचराचरम्।
यावद् दर्शनमस्या वै तापयामि च सायकैः॥ ७१॥

इत्युक्त्वा क्रोधताम्राक्षः स्फुरमाणोष्ठसम्पुटः।
वल्कलाजिनमाबद्ध्य जटाभारमबन्धयत्॥ ७२॥

तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः।
त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव बभौ तनुः॥ ७३॥

लक्ष्मणादथ चादाय रामो निष्पीड्य कार्मुकम्।
शरमादाय संदीप्तं घोरमाशीविषोपमम्॥ ७४॥

संदधे धनुषि श्रीमान् रामः परपुरञ्जयः।
युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्॥ ७५॥

यथा जरा यथा मृत्युर्यथा कालो यथा विधिः।
नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण।
तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम्॥ ७६॥

पुरेव मे चारुदतीमनिन्दितां
दिशन्ति सीतां यदि नाद्य मैथिलीम्।
सदेवगन्धर्वमनुष्यपन्नगं
जगत् सशैलं परिवर्तयाम्यहम्॥ ७७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र