रामायणम्/अरण्यकाण्डम्/सर्गः ९
< रामायणम् | अरण्यकाण्डम्
Jump to navigation
Jump to search
← सर्गः ८ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः १० → |
|
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे नवमः सर्गः ॥३-९॥''' सुतीक्ष्णेन अभ्यनुज्ञातम् प्रस्थितम् रघु नन्दनम् । हृद्यया स्निग्धया वाचा भर्तारम् इदम् अब्रवीत् ॥३-९-१॥ अधर्मम् तु सुसूक्ष्मेण विधिना प्राप्यते महान् । निवृत्तेन च शक्यो अयम् व्यसनात् कामजाद् इह ॥३-९-२॥ त्रीणि एव व्यसनानि अत्र कामजानि भवन्ति उत । मिथ्या वाक्यम् तु परमम् तस्मात् गुरुतरा उभौ ॥३-९-३॥ पर दार अभिगमनम् विना वैरम् च रौद्रता । मिथ्या वाक्यम् न ते भूतम् न भविष्यति राघव ॥३-९-४॥ कुतो अभिलषणम् स्त्रीणाम् परेषाम् धर्म नाशनम् । तव नास्ति मनुष्येन्द्र न च आभूत् ते कदाचन ॥३-९-५॥ मनस्यपि तथा राम न च एतत् विद्यते क्वचित् । स्व दार निरतः च एव नित्यम् एव नृपात्मज ॥३-९-६॥ धर्मिष्टः सत्य सन्धः च पितुः निर्देश कारकः । त्वयि धर्मः च सत्यम् च त्वयि सर्वम् प्रतिष्टितम् ॥३-९-७॥ तच्च सर्वम् महाबाहो शक्यम् वोढुम् जितेइन्द्रियैः । तव वश्य इन्द्रियत्वम् च जानामि शुभदर्शन ॥३-९-८॥ तृतीयम् यद् इदम् रौद्रम् पर प्राण अभिहिंसनम् । निर्वैरम् क्रियते मोहात् तत् च ते समुपस्थितम् ॥३-९-९॥ प्रतिज्ञातः त्वया वीर दण्डकारण्य वासिनाम् । ऋषीणाम् रक्षणार्थाय वधः संयति रक्षसाम् ॥३-९-१०॥ एतन् निमित्तम् च वनम् दण्डका इति विश्रुतम् । प्रस्थितः त्वम् सह भ्रात्रा धृत बाण शराअसनः ॥३-९-११॥ ततः त्वाम् प्रस्थितम् दृष्ट्वा मम चिन्त आकुलम् मनः । त्वत् वृत्तम् चिन्तयन्त्या वै भवेत् निःश्रेयसम् हितम् ॥३-९-१२॥ न हि मे रोचते वीरः गमनम् दण्डकान् प्रति । कारणम् तत्र वक्ष्यामि वदन्त्याः श्रूयताम् मम ॥३-९-१३॥ त्वम् हि बाण धनुष्पाणिः भ्रात्रा सह वनम् गतः । दृष्ट्वा वन चरान् सर्वान् कच्चित् कुर्याः शर व्ययम् ॥३-९-१४॥ क्षत्रियाणाम् इह धनुर् हुताशस्य इन्धनानि च । समीपतः स्थितम् तेजो बलम् उच्छ्रयते भृशम् ॥३-९-१५॥ पुरा किल महाबाहो तपस्वी सत्य वाक् शुचिः । कस्मिन् चित् अभवत् पुण्ये वने रत मृग द्विजे ॥३-९-१६॥ तस्य एव तपसो विघ्नम् कर्तुम् इन्द्रः शचीपतिः । खड्ग पाणिः अथ आगच्छत् आश्रमम् भट रूप धृक् ॥३-९-१७॥ तस्मिन् तत् आश्रम पदे निहितः खड्ग उत्तमः । स न्यास विधिना दत्तः पुण्ये तपसि तिष्ठतः ॥३-९-१८॥ स तत् शस्त्रम् अनुप्राप्य न्यास रक्षण तत्परः । वने तु विचरति एव रक्षन् प्रत्ययम् आत्मनः ॥३-९-१९॥ यत्र गच्छति उपादातुम् मूलानि च फलानि च । न विना याति तम् खड्गम् न्यास रक्षण तत्परः ॥३-९-२०॥ नित्यम् शस्त्रम् परिवहन् क्रमेण स तपोधनः । चकार रौद्रीम् स्वाम् बुद्धिम् त्यक्त्वा तपसि निश्चयम् ॥३-९-२१॥ ततः स रौद्र अभिरतः प्रमत्तो अधर्म कर्षितः । तस्य शस्त्रस्य संवासात् जगाम नरकम् मुनिः ॥३-९-२२॥ एवम् एतत् पुरा वृत्तम् शस्त्र संयोग कारणम् । अग्नि संयोगवत् हेतुः शस्त्र संयोग उच्यते ॥३-९-२३॥ स्नेहात् च बहुमानात् च स्मारये त्वाम् न शिक्षये । न कथंचन सा कार्या गृहीत धनुषा त्वया ॥३-९-२४॥ बुद्धिः वैरम् विना हन्तुम् राक्षसान् दण्डक आश्रितान् । अपराधम् विना हन्तुम् लोको वीर न कामये ॥३-९-२५॥ क्षत्रियाणाम् तु वीराणाम् वनेषु नियतात्मनाम् । धनुषा कार्यम् एतावत् आर्तानाम् अभिरक्षणम् ॥३-९-२६॥ क्व च शस्त्रम् क्व च वनम् क्व च क्षात्रम् तपः क्व च । व्याविद्धम् इदम् अस्माभिः देश धर्मः तु पूज्यताम् ॥३-९-२७॥ तदार्य कलुषा बुद्धिः जायते शस्त्र सेवनात् । पुनर् गत्वात् तत् अयोध्यायाम् क्षत्र धर्मम् चरिष्यसि ॥३-९-२८॥ अक्षया तु भवेत् प्रीतिः श्वश्रू श्वशुरयोः मम । यदि राज्यम् हि संन्यस्य भवेत् त्वम् निरतो मुनिः ॥३-९-२९॥ धर्मात् अर्थः प्रभवति धर्मात् प्रभवते सुखम् । धर्मेण लभते सर्वम् धर्म सारम् इदम् जगत् ॥३-९-३०॥ आत्मानम् नियमैः तैः तैः कर्षयित्वा प्रयत्नतः । प्राप्यते निपुणैः धर्मो न सुखात् लभते सुखम् ॥३-९-३१॥ नित्यम् शुचि मतिः सौम्य चर धर्मम् तपो वने । सर्वम् हि विदितम् तुभ्यम् त्रैलोक्यम् अपि तत्त्वतः ॥३-९-३२॥ स्त्री चापलात् एतत् उदाहृतम् मेधर्मम् च वक्तुम् तव कः समर्थः । विचार्य बुद्ध्या तु सह अनुजेनयत् रोचते तत् कुरु म अचिरेण ॥३-९-३३॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे नवमः सर्गः ॥३-९॥