रामायणम्/अरण्यकाण्डम्/सर्गः ४०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३९ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ४१ →



श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चत्वारिंशः सर्गः ॥३-४०॥

मारीचस्य तु तत् वाक्यम् क्षमम् युक्तम् च रावणः ।
उक्तो न प्रतिजग्राह मर्तु काम इव औषधम् ॥३-४०-१॥

तम् पथ्य हित वक्तारम् मारीचम् राक्षसाधिपः ।
अब्रवीत् परुषम् वाक्यम् अयुक्तम् काल चोदितः ॥३-४०-२॥

यत् किल एतत् अयुक्तार्थम् मारीच मयि कथ्यते ।
वाक्यम् निष्फलम् अत्यर्थम् बीजम् उप्तम् इव ऊषरे ॥३-४०-३॥

त्वत् वाक्यैः न तु माम् शक्यम् - भेतुम् - भेत्तुम् रामस्य संयुगे ।
पाप शीलस्य मूर्खस्य मानुषस्य विशेषतः ॥३-४०-४॥

यः त्यक्त्वा सुहृदो राज्यम् मातरम् पितरम् तथा ।
स्त्री वाक्यम् प्राकृतम् श्रुत्वा वनम् एक पदे गतः ॥३-४०-५॥

अवश्यम् तु मया तस्य संयुगे खर घातिनः ।
प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ ॥३-४०-६॥

एवम् मे निश्चिता बुद्धिः हृदि मारीच विद्यते ।
न व्यावर्तयितुम् शक्या स इन्द्रैः अपि सुर असुरैः ॥३-४०-७॥

दोषम् गुणम् वा संपृष्टः त्वम् एवम् वक्तुम् अर्हसि ।
अपायम् वा अपि उपायम् वा कार्यस्य अस्य विनिश्चये ॥३-४०-८॥

संपृष्टेन तु वक्तव्यम् सचिवेन विपश्चिता ।
उद्यत अंजलिना राज्ञे य इच्छेत् भूतिम् आत्मनः ॥३-४०-९॥

वाक्यम् अप्रतिकूलम् तु मृदु पूर्वम् शुभम् हितम् ।
उपचारेण युक्तम् च वक्तव्यो वसुधा अधिपः ॥३-४०-१०॥

स अवमर्दम् तु यत् वाक्यम् अथवा मारीच हितम् उच्यते ।
न अभिनंदति तत् राजा मानार्थी मान वर्जितम् ॥३-४०-११॥

पंच रूपाणि राजानो धारयन्ति अमित ओजसः ।
अग्नेः इन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥३-४०-१२॥

औष्ण्यम् तथा विक्रमम् च सौम्यम् दण्डम् प्रसन्नताम् ।
धारयन्ति महाताम्नो राजानः क्षणदाचर ॥३-४०-१३॥
तस्मात् सर्वासु अवस्थासु मान्याः पूज्याः च पार्थिवाः ।

त्वम् तु धर्मम् अविज्ञाय केवलम् मोहम् आश्रितः ॥३-४०-१४॥
अभ्यागतम् माम् दौरात्म्यात् परुषम् वदसि ईदृशम् ।

गुण दोषौ न पृच्छामि क्षमम् च आत्मनि राक्षस ॥३-४०-१५॥
मया उक्तम् अपि च एतावत् त्वाम् प्रति अमितविक्रम ।

अस्मिन् तु स भवान् कृत्ये साहाय्यम् कर्तुम् अर्हसि ॥३-४०-१६॥
श्रुणु तत् कर्म साहाय्ये यत् कार्यम् वचनात् मम ।

सौवर्णः त्वम् मृगो भूत्वा चित्रो रजत बिन्दुभिः ॥३-४०-१७॥
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।
प्रलोभयित्वा वैदेहीम् यथा इष्टम् गन्तुम् अर्हसि ॥३-४०-१८॥

त्वाम् हि माया मयम् दृष्ट्वा कांचनम् जात विस्मया ।
आनय एनम् इति क्षिप्रम् रामम् वक्ष्यति मैथिली ॥३-४०-१९॥

अपक्रान्ते च काकुत्स्थे दूरम् च यात्वा अपि उदाहर ।
हा सीते लक्ष्मणे इति एवम् राम वाक्य अनुरूपकम् ॥३-४०-२०॥

तत् श्रुत्वा राम पदवीम् सीताया च प्रचोदितः ।
अनुगच्छति संभ्रांतम् सौमित्रिः अपि सौहृदात् ॥३-४०-२१॥

अपक्रान्ते च काकुत्स्थे लक्ष्मण च यथा सुखम् ।
आहरिष्यामि वैदेहीम् सहस्राक्षः शचीम् इव ॥३-४०-२२॥

एवम् कृत्वा तु इदम् कार्यम् यथा इष्टम् गच्छ राक्षस ।
राज्यस्य अर्धम् प्रदास्यामि मारीच तव सुव्रत ॥३-४०-२३॥

गच्छ सौम्य शिवम् मार्गम् कार्यस्य अस्य विवृद्धये ।
अहम् तु अनुगमिष्यामि स रथो दण्डका वनम् ॥३-४०-२४॥

प्राप्य सीताम् अयुद्धेन वंचयित्वा तु राघवम् ।
लंकाम् प्रति गमिष्यामि कृत कार्यः सह त्वया ॥३-४०-२५॥

नो चेत् करोषि मारीच हन्मि त्वाम् अहम् अद्य वै ।
एतत् कार्यम् अवश्यम् मे बलाद् अपि करिष्यसि ।
राज्ञो हि प्रतिकूलस्थो न जातु सुखम् एधते ॥३-४०-२६॥

आसाद्या तम् जीवित सम्शयः तेमृत्युर् ध्रुवो हि अद्य मया विरुध्यतः ।
एतत् यथावत् परिगृह्य बुद्ध्यायत् अत्र पथ्यम् कुरु तत् तथा त्वम् ॥३-४०-२७॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चत्वारिंशः सर्गः ॥३-४०॥