रामायणम्/अरण्यकाण्डम्/सर्गः ५८
< रामायणम् | अरण्यकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ५७ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ५९ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥ स दृष्ट्वा लक्ष्मणम् दीनम् शून्यम् दशरथ आत्मजः । पर्यपृच्छत धर्माअत्मा वैदेहीम् आगतम् विना ॥३-५८-१॥ प्रस्थितम् दण्डक अरण्यम् या माम् अनुजगाम ह । क्व सा लक्ष्मण वैदेही याम् हित्वा त्वम् इह आगतः ॥३-५८-२॥ राज्य भ्रष्टस्य दीनस्य दण्डकान् परिधावतः । क्व सा दुःख सहाया मे वैदेही तनु मध्यमा ॥३-५८-३॥ याम् विना न उत्सहे वीर मुहूर्तम् अपि जीवितुम् । क्व सा प्राण सहाया मे सीता सुर सुत उपमा ॥३-५८-४॥ पतित्वम् अमराणाम् वा पृथिव्याः च अपि लक्ष्मण । विना ताम् तपनीय आभाम् न इच्छेयम् जनक आत्मजाम् ॥३-५८-५॥ कच्चित् जीवति वैदेही प्राणैः प्रियतरा मम । कच्चित् प्रव्राजनम् वीर न मे मिथ्या भविष्यति ॥३-५८-६॥ सीता निमित्तम् सौमित्रे मृते मयि गते त्वयि । कच्चित् स कामा सुखिता कैकेयी सा भविष्यति ॥३-५८-७॥ स पुत्र राज्याम् सिद्ध अर्थाम् मृत पुत्रा तपस्विनी । उपस्थास्यति कौसल्या कच्चित् सौम्येन - सौम्य न - कैकयीम् ॥३-५८-८॥ यदि जीवति वैदेही गमिष्याम्य् आश्रमम् पुनः । सुवृत्ता यदि वृत्ता सा प्राणान् त्यक्ष्यामि लक्ष्मण ॥३-५८-९॥ यदि माम् आश्रम गतम् वैदेही न अभिभाषते । पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥३-५८-१०॥ ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा । त्वयि प्रमत्ते रक्षोभिः भक्षिता वा तपस्विनी ॥३-५८-११॥ सुकुमारी च बाला च नित्यम् च अदुःख दर्शिनी । मत् वियोगेन वैदेही व्यक्तम् शोचति दुर्मनाः ॥३-५८-१२॥ सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना । वदता लक्ष्मण इति उच्Cऐः तव अपि जनितम् भयम् ॥३-५८-१३॥ श्रुतः च मन्ये वैदेह्या स स्वरः सदृशो मम । त्रस्तया प्रेषितः त्वम् च द्रष्टुम् माम् शीघ्रम् आगतः ॥३-५८-१४॥ सर्वथा तु कृतम् कष्टम् सीताम् उत्सृजता वने । प्रतिकर्तुम् नृशंसानाम् रक्षसाम् दत्तम् अन्तरम् ॥३-५८-१५॥ दुःखिताः खर घातेन राक्षसाः पिशित अशनाः । तैः सीता निहता घोरैः भविष्यति न संशयः ॥३-५८-१६॥ अहो अस्मि व्यसने मग्नः सर्वथा रिपु नाशन । किम् तु इदानीम् करिष्यामि शंके प्राप्तव्यम् ईदृशम् ॥३-५८-१७॥ इति सीताम् वरारोहाम् चिंतयन् एव राघवः । आजगाम जन स्थानम् त्वरया सह लक्ष्मणः ॥३-५८-१८॥ विगर्हमाणो अनुजम् आर्त रूपम्क्षुधा श्रमेण एव पिपासया च । विनिःश्वसन् शुष्क मुखो विषण्णःप्रतिश्रयम् प्राप्य समीक्ष्य शून्यम् ॥३-५८-१९॥ स्वम् आश्रमम् स प्रविगाह्य वीरोविहार देशान् अनुसृत्य कांश्चित् । एतत् तत् इति एव निवास भूमौप्रहृष्ट रोमा व्यथितो बभूव ॥३-५८-२०॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र