रामायणम्/अरण्यकाण्डम्/सर्गः ३८

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३७ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ३९ →



श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टात्रिंशः सर्गः ॥३-३८॥

कदाचित् अपि अहम् वीर्यात् पर्यटन् पृथिवीम् इमाम् ।
बलम् नाग सहस्रस्य धारयन् पर्वतोपमः ॥३-३८-१॥
नील जीमूत संकाशः तप्त कांचन कुण्डलः ।
भयम् लोकस्य जनयन् किरीटी परिघ आयुधः ॥३-३८-२॥
व्यचरम् दण्डक अरण्यम् ऋषि मांसानि भक्षयन् ।

विश्वामित्रो अथ धर्मात्मा मत् वित्रस्तो महामुनिः ॥३-३८-३॥
स्वयम् गत्वा दशरथम् नरेन्द्रम् इदम् अब्रवीत् ।

अयम् रक्षतु माम् रामः पर्व काले समाहितः ॥३-३८-४॥
मारीचात् मे भयम् घोरम् समुत्पन्नम् नरेश्वर ।

इति एवम् उक्तो धर्मात्मा राजा दशरथः तदा ॥३-३८-५॥
प्रत्युवाच महाभागम् विश्वामित्रम् महामुनिम् ।

ऊन द्वादश वर्षो अयम् अकृत अस्त्रः च राघवः ॥३-३८-६॥
कामम् तु मम यत् सैन्यम् मया सह गमिष्यति ।

बलेन चतुरंगेण स्वयम् एत्य निशाचरम् ॥३-३८-७॥
वधिष्यामि मुनिश्रेष्ठ शत्रुम् तव यथा ईप्सितम् ।

] एवम् उक्तः स तु मुनी राजानम् इदम् अब्रवीत् ॥३-३८-८॥
रामात् न अन्यत् बलम् लोके पर्याप्तम् तस्य रक्षसः ।

देवतानाम् अपि भवान् समरेषु अभिपालकः ॥३-३८-९॥
आसीत् तव कृते कर्म त्रिलोक विदितम् नृप ।

कामम् अस्ति महत् सैन्यम् तिष्टतु इह परंतप ॥३-३८-१०॥
बालो अपि एष महातेजाः समर्थः तस्य निग्रहे ।
गमिष्ये रामम् आदाय स्वस्ति ते अस्तु परंतपः ॥३-३८-११॥

इति एवम् उक्त्वा स मुनिः तम् आदाय नृपात्मजम् ।
जगाम परम प्रीतो विश्वामित्रः स्वम् आश्रमम् ॥३-३८-१२॥

तम् तदा दण्डकारण्ये यज्ञम् उद्दिश्य दीक्षितम् ।
बभूव उपस्थितो रामः चित्रम् विस्फारयन् धनुः ॥३-३८-१३॥

अजात व्यंजनः श्रीमान् बालः श्यामः शुभेक्षणः ।
एक वस्त्र धरो धन्वी शिखी कनक मालया ॥३-३८-१४॥
शोभयन् दण्डकारण्यम् दीप्तेन स्वेन तेजसा ।
अदृश्यत तदा रामो बाल चन्द्र इव उदितः ॥३-३८-१५॥

ततो अहम् मेघ संकाशः तप्त कांचन कुण्डलः ।
बली दत्त वरो दर्पात् आजगाम आश्रम अंतरम् ॥३-३८-१६॥

तेन दृष्टः प्रविष्टो अहम् सहसा एव उद्यत आयुधः ।
माम् तु दृष्ट्वा धनुः सज्यम् असम्भ्रान्तः चकार ह ॥३-३८-१७॥

अवजानन् अहम् मोहात् बालो अयम् इति राघवम् ।
विश्वामित्रस्य ताम् वेदिम् अभ्यधावम् कृत त्वरः ॥३-३८-१८॥

तेन मुक्तः ततो बाणः शितः शत्रु निबर्हणः ।
तेन अहम् ताडितः क्षिप्तः समुद्रे शत योजने ॥३-३८-१९॥

न इच्छता तात माम् हन्तुम् तदा वीरेण रक्षितः ।
रामस्य शर वेगेन निरस्तो भ्रान्त चेतनः ॥३-३८-२०॥

पातितो अहम् तदा तेन गंभीरे सागर अंभसि ।
प्राप्य संज्ञाम् चिरात् तात लंकाम् प्रति गतः पुरीम् ॥३-३८-२१॥

एवम् अस्मि तदा मुक्तः सहायाः ते - शायास्तु - निपातिताः ।
अकृत अस्त्रेण रामेण बालेन अक्लिष्ट कर्मणा ॥३-३८-२२॥

तत् मया वार्यमाणः त्वम् यदि रामेण विग्रहम् ।
करिष्यसि आपदम् घोराम् क्षिप्रम् प्राप्य न शिष्यसि ॥३-३८-२३॥

क्रीडा रति विधिज्ञानाम् समाज उत्सव शालिनाम् ।
रक्षसाम् चैव संतापम् अनर्थम् च आहरिष्यसि ॥३-३८-२४॥

हर्म्य प्रासाद संबाधाम् नाना रत्न विभूउषिताम् ।
द्रक्ष्यसि त्वम् पुरीम् लंकाम् विनष्टाम् मैथिली कृते ॥३-३८-२५॥

अकुर्वन्तो अपि पापानि शुचयः पाप संश्रयात् ।
पर पापैः विनश्यन्ति मत्स्या नाग ह्रदे यथा ॥३-३८-२६॥

दिव्यचंदनदिग्धांगान्दिव्याअभरणभूषितान् -यद्वा-दिव्य चंदन दिग्ध अंगान् दिव्य आभरण भूषितान् ।
द्रक्ष्यसि अभिहतान् भूमौ तव दोषात् तु राक्षसान् ॥३-३८-२७॥

हृत दारान् स दारान् च दश विद्रवतो दिशः ।
हत शेषान् अशरणान् द्रक्ष्यसि त्वम् निशाचरान् ॥३-३८-२८॥

शर जाल परिक्षिप्ताम् अग्नि ज्वाला समावृताम् ।
प्रदग्ध भवनाम् लंकाम् द्रक्ष्यसि त्वम् असंशयम् ॥३-३८-२९॥

पर दार अभिमर्षात् तु न अनयत् पाप तरम् महत् ।
प्रमदानाम् सहस्राणि तव राजन् परिग्रहे ॥३-३८-३०॥

भव स्व दार निरतः स्व कुलम् रक्ष राक्षस ।
मानम् वृद्धिम् च राज्यम् च जीवितम् च इष्टम् आत्मनः ॥३-३८-३१॥

कलत्राणि च सौम्यानि मित्र वर्गम् तथैव च ।
यदि इच्छसि चिरम् भोक्तुम् मा कृथा राम विप्रियम् ॥३-३८-३२॥

निवार्यमाणः सुहृदा मया भृशम्प्रसह्य सीताम् यदि धर्षयिष्यसि ।
गमिष्यसि क्षीण बलः स बान्धवोयम क्षयम् राम शर आत्त जीवितः ॥३-३८-३३॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टात्रिंशः सर्गः ॥३-३८॥