रामायणम्/अरण्यकाण्डम्/सर्गः ६१
< रामायणम् | अरण्यकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ६० | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ६२ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकषष्ठितमः सर्गः ॥३-६१॥ दृष्ट्वा आश्रम पदम् शून्यम् रामो दशरथ आत्मजः। रहिताम् पर्णशालाम् च प्रविद्धानि आसनानि च ॥३-६१-१॥ अदृष्ट्वा तत्र वैदेहीम् संनिरीक्ष्य च सर्वशः । उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥३-६१-२॥ क्व नु लक्ष्मण वैदेही कम् वा देशम् इतो गता । केन आहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥३-६१-३॥ वृक्षेण आवार्य यदि माम् सीते हसितुम् इच्छसि । अलम् ते हसितेन अद्य माम् भजस्व सुदुःखितम् ॥३-६१-४॥ यैः सह क्रीडसे सीते विश्वस्तैः मृग पोतकैः । एते हीनाः त्वया सौम्ये ध्यायन्ति अस्र आविल ईक्षणाः ॥३-६१-५॥ सीताया रहितो अहम् वै न हि जीवामि लक्ष्मण । वृतम् शोकेन महता सीता हरणजेन माम् ॥३-६१-६॥ पर लोके महाराजो नूनम् द्रक्ष्यति मे पिता । कथम् प्रतिज्ञाम् संश्रुत्य मया त्वम् अभियोजितः ॥३-६१-७॥ अपूरयित्वा तम् कालम् मत् सकाशम् इह आगतः । काम वृत्तम् अनार्यम् माम् मृषा वादिनम् एव च ॥३-६१-८॥ धिक् त्वाम् इति परे लोके व्यक्तम् वक्ष्यति मे पिता । विवशम् शोक संतप्तम् दीनम् भग्न मनोरथम् ॥३-६१-९॥ माम् इह उत्सृज्य करुणम् कीर्तिः नरम् इव अन्ऋजुम् । क्व गच्चसि वरारोहे मा मोत्सृज्य - मा मा उत्सृज्य - सुमध्यमे ॥३-६१-१०॥ त्वया विरहितः च अहम् त्यक्ष्ये जीवितम् आत्मनः । इति इव विलपन् रामः सीता दर्शन लालसः ॥३-६१-११॥ न ददर्श सुदुःख आर्तो राघवो जनक आत्मजाम् । अनासादयमानम् तम् सीताम् शोकपरायणम् ॥३-६१-१२॥ पंकम् आसाद्य विपुलम् सीदन्तम् इव कुंजरम् । लक्ष्मणो रामम् अत्यर्थम् उवाच हित काम्यया ॥३-६१-१३॥ मा विषादम् महाबुद्धे कुरु यत्नम् मया सह । इदम् गिरि वरम् वीर बहु कन्दर शोभितम् ॥३-६१-१४॥ प्रिय कानन संचारा वन उन्मत्ता च मैथिली । सा वनम् वा प्रविष्टा स्यात् नलिनीम् वा सुपुष्पिताम् ॥३-६१-१५॥ सरितम् वा अपि संप्राप्ता मीन वंजुल सेविताम् । वित्रासयितु कामा वा लीना स्यात् कानने क्वचित् ॥३-६१-१६॥ जिज्ञासमाना वैदेही त्वाम् माम् च पुरुषर्षभ । तस्या हि अन्वेषणे श्रीमन् क्षिप्रम् एव यतावहे ॥३-६१-१७॥ वनम् सर्वम् विचिनुवो यत्र सा जनक आत्मजा । मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥३-६१-१८॥ एवम् उक्तः तु सौहार्दात् लक्ष्मणेन समाहितः । सह सौमित्रिणा रामो विचेतुम् उपचक्रमे ॥३-६१-१९॥ तौ वनानि गिरीन् चैव सरितः च सरांसि च । निखिलेन विचिन्वन्तौ सीताम् दशरथ आत्मजौ ॥३-६१-२०॥ तस्य शैलस्य सानूनि शिलाः च शिखराणि च । निखिलेन विचिन्वन्तौ न एव ताम् अभिजग्मतुः ॥३-६१-२१॥ विचित्य सर्वतः शैलम् रामो लक्ष्मणम् अब्रवीत् । न इह पश्यामि सौमित्रे वैदेहीम् पर्वते शुभाम् ॥३-६१-२२॥ ततो दुःख अभिसंतप्तो लक्ष्मणो वाक्यम् अब्रवीत् । विचरन् दण्डक अरण्यम् भ्रातरम् दीप्त तेजसम् ॥३-६१-२३॥ प्राप्स्यसि त्वम् महाप्राज्ञ मैथिलीम् जनक आत्मजाम् । यथा विष्णुः महाबाहुः बलिम् बद्ध्वा महीम् इमाम् ॥३-६१-२४॥ एवम् उक्तः तु वीरेण लक्ष्मणेन स राघवः । उवाच दीनया वाचा दुःख अभिहत चेतनः ॥३-६१-२५॥ वनम् सुविचितम् सर्वम् पद्मिन्यः फुल्ल पंकजाः । गिरिः च अयम् महाप्राज्ञ बहु कन्दर निर्झरः । न हि पश्यामि वैदेहीम् प्राणेभ्यो अपि गरीयसीम् ॥३-६१-२६॥ एवम् स विलपन् रामः सीता हरण कर्शितः । दीनः शोक समाविष्टो मुहूर्तम् विह्वलो अभवत् ॥३-६१-२७॥ स विह्वलित सर्व अंगो गत बुद्धिः विचेतनः । निषसाद आतुरो दीनो निःश्वस्य अशीतम् आयतम् ॥३-६१-२८॥ बहुशः स तु निःश्वस्य रामो राजीव लोचनः । हा प्रिये ति विचुक्रोश बहुशो बाष्प गद्गदः ॥३-६१-२९॥ तम् सान्त्वयामास ततो लक्ष्मणः प्रिय बान्धवम् । बहु प्रकारम् शोक आर्तः प्रश्रितः प्रश्रित अंजलिः ॥३-६१-३०॥ अनादृत्य तु तत् वाक्यम् लक्ष्मण ओष्ठ पुट च्युतम् । अपश्यन् ताम् प्रियाम् सीताम् प्राक्रोशत् स पुनः पुनः ॥३-६१-३१॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकषष्ठितमः सर्गः ॥३-६१॥स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र