रामायणम्/अरण्यकाण्डम्/सर्गः ४५
< रामायणम् | अरण्यकाण्डम्
Jump to navigation
Jump to search
← सर्गः ४४ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ४६ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-४५॥ आर्तस्वरम् तु तम् भर्तुः विज्ञाय सदृशम् वने । उवाच लक्ष्मणम् सीता गच्छ जानीहि राघवम् ॥३-४५-१॥ न हि मे जीवितम् स्थाने हृदयम् वा अवतिष्ठते । क्रोशतः परम आर्तस्य श्रुतः शब्दो मया भृशम् ॥३-४५-२॥ आक्रन्दमानम् तु वने भ्रातरम् त्रातुम् अर्हसि । तम् क्षिप्रम् अभिधाव त्वम् भ्रातरम् शरण एषिणम् ॥३-४५-३॥ रक्षसाम् वशम् आपन्नम् सिंहानाम् इव गोवृषम् । न जगाम तथा उक्तः तु भ्रातुः आज्ञाय शासनम् ॥३-४५-४॥ तम् उवाच ततः तत्र क्षुभिता जनक आत्मजा । सौमित्रे मित्र रूपेण भ्रातुः त्वम् असि शत्रुवत् ॥३-४५-५॥ यः त्वम् अस्याम् अवस्थायाम् भ्रातरम् न अभिपद्यसे । इच्छसि त्वम् विनश्यन्तम् रामम् लक्ष्मण मत् कृते ॥३-४५-६॥ लोभात् तु मत् कृतम् नूनम् न अनुगच्छसि राघवम् । व्यसनम् ते प्रियम् मन्ये स्नेहो भ्रातरि न अस्ति ते ॥३-४५-७॥ तेन तिष्ठसि विस्रब्धः तम् अपश्यन् महाद्युतिम् । किम् हि संशयम् आपन्ने तस्मिन् इह मया भवेत् ॥३-४५-८॥ कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानः त्वम् आगतः । एवम् ब्रुवाणम् वैदेहीम् बाष्प शोक समन्वितम् ॥३-४५-९॥ अब्रवीत् लक्ष्मणः त्रस्ताम् सीताम् मृग वधूम् इव । पन्नग असुर गन्धर्व देव दानव राक्षसैः ॥३-४५-१०॥ अशक्यः तव वैदेही भर्ता जेतुम् न संशयः । देवि देव मनुष्येषु गन्धर्वेषु पतत्रिषु ॥३-४५-११॥ राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च । दानवेषु च घोरेषु न स विद्येत शोभने ॥३-४५-१२॥ यो रामम् प्रतियुध्येत समरे वासव उपमम् । अवध्यः समरे रामो न एवम् त्वम् वक्तुम् अर्हसि ॥३-४५-१३॥ न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवम् विना । अनिवार्यम् बलम् तस्य बलैः बलवताम् अपि ॥३-४५-१४॥ त्रिभिः लोकैः समुदितैः स ईश्वरैः स अमरैः अपि । हृदयम् निर्वृतम् ते अस्तु संतापः त्यज्यताम् तव ॥३-४५-१५॥ आगमिष्यति ते भर्ता शीघ्रम् हत्वा मृगोत्तमम् । न सस् तस्य स्वरो व्यक्तम् न कश्चित् अपि दैवतः ॥३-४५-१६॥ गन्धर्व नगर प्रख्या माया तस्य च रक्षसः । न्यास भूता असि वैदेहि न्यस्ता मयि महात्मना ॥३-४५-१७॥ रामेण त्वम् वरारोहे न त्वाम् त्यक्तुम् इह उत्सहे । कृत वैराः च कल्याणि वयम् एतैः निशाचरैः ॥३-४५-१८॥ खरस्य निधने देवि जनस्थान वधम् प्रति । राक्षसा विविधा वाचो व्यवहरन्ति महावने ॥३-४५-१९॥ हिंसा विहारा वैदेहि न चिन्तयितुम् अर्हसि । लक्ष्मणेन एवम् उक्ता तु क्रुद्धा संरक्त लोचना ॥३-४५-२०॥ अब्रवीत् परुषम् वाक्यम् लक्ष्मणम् सत्य वादिनम् । अनार्य करुणारंभ नृशंस कुल पांसन ॥३-४५-२१॥ अहम् तव प्रियम् मन्ये रामस्य व्यसनम् महत् । रामस्य व्यसन्म् दृष्ट्वा तेन एतानि प्रभाषसे ॥३-४५-२२॥ न एव चित्रम् सपत्नेषु पापम् लक्ष्मण यत् भवेत् । त्वत् विधेषु नृशंसेषु नित्यम् प्रच्छन्न चारिषु ॥३-४५-२३॥ सुदुष्टः त्वम् वने रामम् एकम् एको अनुगच्छसि । मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥३-४५-२४॥ तत् न सिद्ध्यति सौमित्रे तव अपि भरतस्य वा । कथम् इंदीवर श्यामम् रामम् पद्म निभेक्षणम् ॥३-४५-२५॥ उपसंश्रित्य भर्तारम् कामयेयम् पृथक् जनम् । समक्षम् तव सौमित्रे प्राणान् त्यक्ष्यामि असंशयम् ॥३-४५-२६॥ रामम् विना क्षणम् अपि न एव जीवामि भू तले । इति उक्तः परुषम् वाक्यम् सीतया रोमहर्षणम् ॥३-४५-२७॥ अब्रवीत् लक्ष्मणः सीताम् प्रांजलिः विजितेन्द्रियः । उत्तरम् न उत्सहे वक्तुम् दैवतम् भवती मम ॥३-४५-२८॥ वाक्यम् अप्रतिरूपम् तु न चित्रम् स्त्रीषु मैथिलि । स्वभावः तु एष नारीणाम् एषु लोकेषु दृश्यते ॥३-४५-२९॥ विमुक्त धर्माः चपलाः तीक्ष्णा भेदकराः स्त्रियः । न सहे हि ईदृशम् वाक्यम् वैदेही जनक आत्मजे ॥३-४५-३०॥ श्रोत्रयोः उभयोः मध्ये तप्त नाराच सन्निभम् । उपशृण्वंतु मे सर्वे साक्षिनो हि वनेचराः ॥३-४५-३१॥ न्याय वादी यथा वाक्यम् उक्तो अहम् परुषम् त्वया । धिक् त्वाम् अद्य प्रणश्यन्तीम् यन् माम् एवम् विशंकसे ॥३-४५-३२॥ स्त्रीत्वात् दुष्ट स्वभावेन गुरु वाक्ये व्यवस्थितम् । गमिष्ये यत्र काकुत्स्थः स्वस्ति ते अस्तु वरानने ॥३-४५-३३॥ रक्षन्तु त्वाम् विशालाक्षि समग्रा वन देवताः । निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे । अपि त्वाम् सह रामेण पश्येयम् पुनरागतः ॥३-४५-३४॥ लक्ष्मणेन एवम् उक्ता तु रुदती जनकाअत्मजा । प्रत्युवाच ततो वाक्यम् तीव्रम् बाष्प परिप्लुता ॥३-४५-३५॥ गोदावरीम् प्रवेक्ष्यामि हीना रामेण लक्ष्मण । आबन्धिष्ये अथवा त्यक्ष्ये विषमे देहम् आत्मनः ॥३-४५-३६॥ पिबामि वा विषम् तीक्ष्णम् प्रवेक्ष्यामि हुताशनम् । न तु अहम् राघवात् अन्यम् कदाअपि पुरुषम् स्पृशे ॥३-४५-३७॥ इति लक्ष्मणम् आश्रुत्य सीता दुह्ख समन्विता । पाणिभ्याम् रुदती दुह्खाद् उदरम् प्रजघान ह ॥३-४५-३८॥ ताम् आर्त रूपाम् विमना रुदन्तीम्सौमित्रिः आलोक्य विशाल नेत्राम् । आश्वासयामास न चैव भर्तुःतम् भ्रातरम् किंचित् उवाच सीता ॥३-४५-३९॥ ततः तु सीताम् अभिवाद्य लक्ष्मणःकृत अन्जलिः किम्चिद् अभिप्रणम्य । अवेक्षमाणो बहुशः स मैथिलीम्जगाम रामस्य समीपम् आत्मवान् ॥३-४५-४०॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-४५॥