रामायणम्/अरण्यकाण्डम्/सर्गः २५
< रामायणम् | अरण्यकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः २४ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः २६ → |
अवष्टब्ध धनुम् रामम् क्रुद्धम् च रिपु घातिनम् । ददर्श आश्रमम् आगम्य खरः सह पुरःसरैः ॥३-२५-१॥ तम् दृष्ट्वा सगुणम् चापम् उद्यम्य खर निःस्वनम् । रामस्य अभिमुखम् सूतम् चोद्यताम् इति अचोदयत् ॥३-२५-२॥ स खरस्य आज्ञया सूतः तुरगान् समचोदयत् । यत्र रामो महाबाहुः एको धुन्वन् धनुः स्थितः ॥३-२५-३॥ तम् तु निष्पतितम् दृष्ट्वा सर्वे ते रजनी चराः । मुंचमाना महानादम् सचिवाः पर्यवारयन् ॥३-२५-४॥ स तेषाम् यातुधानानाम् मध्ये रथः गतः खरः । बभूव मध्ये ताराणाम् लोहितांग इव उदितः ॥३-२५-५॥ ततः शर सहस्रेन रामम् अप्रतिम ओजसम् । अर्दयित्वाअ महानादम् ननाद समरे खरः ॥३-२५-६॥ ततः तम् भीम धन्वानम् क्रुद्धाः सर्वे निशाचराः । रामम् नाना विधैः शस्त्रैः अभ्यवर्षन्त दुर्जयम् ॥३-२५-७॥ मुद्गरैः आयसैः शूलैः प्रासैः खड्गैः परश्वधैः । राक्षसाः समरे रामम् निजघ्नू रोष तत्पराः ॥३-२५-८॥ ते वलाहक संकाशा महाकाया महाबलाः । अभ्यधावन्त काकुत्स्थम् रथैः वाजिभिः एव च ॥३-२५-९॥ गजैः पर्वत कूट अभैः रामम् युद्धे जिंघासवः । ते रामे शर वर्षाणि व्यसृजन् रक्षसाम् गणाः ॥३-२५-१०॥ शैलेन्द्रम् इव धाराभिर् वर्षमाणा महाधनाः । सर्वैः परिवृतो रामो राक्षसैः कॄरदर्शिनैः ॥३-२५-११॥ तिथिषु इव महादेवो वृतः पारिषदाम् गणैः । तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ॥३-२५-१२॥ प्रतिजग्राह विशिखैः नदि ओघान् इव सागरः । स तैः प्रहरणैः घोरैः भिन्न गात्रो न विव्यथे ॥३-२५-१३॥ रामः प्रदीप्तैर् बहुभिर् वज्रैर् इव महा अचलः । स विद्धः क्षतज दिग्धः सर्व गात्रेषु राघवः ॥३-२५-१४॥ बभूव रामः सन्ध्य अभ्रैः दिवाकर इव आवृतः । विषेदुर् देव गन्धर्वाः सिद्धाः च परम ऋषयः ॥३-२५-१५॥ एकम् सहस्रैः बहुभिः तदा दृष्ट्वा समावृतम् । ततो रामः तु सुसंक्रुद्धो मण्डली कृत कार्मुकः ॥३-२५-१६॥ ससर्ज निशितान् बाणान् शतशः अथ सहस्रशः । दुरवारान् दुर्विषहान् कालपाश उपमान् रणे ॥३-२५-१७॥ मुमोच लीलया रामः कंकपत्रान् कांचन भूषणान् । ते शराः शत्रु सैन्येषु मुक्ता रामेण लीलया ॥३-२५-१८॥ आददू रक्षसाम् प्राणान् पाशाः कालकृता इव । भित्त्वा राक्षस देहान् ताम् ते शरा रुधिर आप्लुताः ॥३-२५-१९॥ अंतरिक्ष गता रेजुः दीप्त अग्नि सम तेजसः । असंख्येयाः तु रामस्य सायकाः चाप मण्डलात् ॥३-२५-२०॥ विनिष्पेतुः अतीव उग्रा रक्षः प्राण अपहारिणः । तैः धनूंषि ध्वज अग्राणि चर्माणि च शिरांसि च ॥३-२५-२१॥ बहून् स हस्त आभरणान् ऊरून् करि कर उपमान् । चिछेद रामः समरे शतशः अथ सहस्रशः ॥३-२५-२२॥ हयान् कांचन सन्नाहान् रथ युक्तान् स सारथीन् । गजाम् च स गज आरोहान् स हयान् सारधिनः तदा ॥३-२५-२३॥ चिछिदुः बिभिदुः च एव राम बाणा गुण च्युताः । पदातीन् समरे हत्वा हि अनयत् यम सदनम् ॥३-२५-२४॥ ततो नालीक नाराचैः तीक्ष्ण अग्रैः विकर्णिभिः । भीमम् आर्त स्वरम् चक्रुः छिद्यमाना निशाचराः ॥३-२५-२५॥ तत् सैन्यम् निशितैः बाणैः अर्दितम् मर्म भेदिभिः । न रामेण सुखम् लेभे शुष्कम् वनम् इव अग्निना ॥३-२५-२६॥ केचिद् भीम बलाः शूराः प्रासान् शूलान् परश्वधान् । चिक्षिपुः परम क्रुद्धा रामाय रजनीचराः ॥३-२५-२७॥ तेषाम् बाणैः महाबाहुः शस्त्राणि आवार्य वीर्यवान् । जहार समरे प्राणान् चिच्छेद च शिरो धरान् ॥३-२५-२८॥ ते छिन्न शिरसः पेतुः छिन्न चर्म शरासनाः । सुपर्ण वात विक्षिप्ता जगत्याम् पादपा यथा ॥३-२५-२९॥ अवशिष्टाः च ये तत्र विषण्णाः ते निशाचराः । खरम् एव अभ्यधावन्त शरणार्थम् शर आहताः ॥३-२५-३०॥ तान् सर्वान् धनुर् आदाय समाश्वास्य च दूषणः । अभ्यधावत सुसंक्रुद्धः क्रुद्धः [रुद्रम्] क्रुद्ध इव अन्तकः ॥३-२५-३१॥ निवृत्ताः तु पुनः सर्वे दूषण आश्रय निर्भयाः । रामम् एव अभ्यधावन्त साल ताल शिल आयुधाः ॥३-२५-३२॥ शूल मुद्गर हस्ताः च पाश हस्ता महाबलाः । सृजन्तः शर वर्षाणि शस्त्र वर्षाणि संयुगे॥३-२५-३३॥ द्रुम वर्षाणि मुंचन्तः शिला वर्षाणि राक्षसाः । तद् बभूव अद्भुतम् युद्धम् तुमुलम् रोम हर्षणम् ॥३-२५-३४॥ रामस्य अस्य महाघोरम् पुनः तेषाम् च रक्षसाम् । ते समन्तात् अभिक्रुद्धा राघवम् पुनर् आर्दयन् ॥३-२५-३५॥ ततः सर्वा दिशो दृष्ट्वा प्रदिशाः च समावृताः । राक्षसैः सर्वतः प्राप्तैः शर वर्षाभिः आवृतः ॥३-२५-३६॥ स कृत्वा भैरवम् नादम् अस्त्रम् परम भास्वरम् । समयोजयत् गान्धर्वम् राक्षसेषु महाबलः ॥३-२५-३७॥ ततः शर सहस्राणि निर्ययुः चाप मण्डलात् । सर्वा दश दिशो बानैः आपूर्यन्त समागतैः ॥३-२५-३८॥ न आददानाम् शरान् घोरान् विमुंचंतम् शर उत्तमान् । विकर्षमाणम् पश्यन्ति राक्षसाः ते शर आर्दिताः ॥३-२५-३९॥ शर अन्धकारम् आकाशम् आवृणोत् स दिवाकरम् । बभूव अवस्थितो रामः प्रक्षिपन् इव तान् शरान् ॥३-२५-४०॥ युगपत् पतमानैः च युगपच्च हतैः भ्रिशम् । युगपत् पतितैः चैव विकीर्णा वसुधा अभवत् ॥३-२५-४१॥ निहताः पतिताः क्षीणा च्छिन्न भिन्न विदारिताः । तत्र तत्र स्म दृश्यन्ते राक्षसाः ते सहस्रशः ॥३-२५-४२॥ स उष्णीषैः उत्तम अन्गैः च स अंगदैः बाहुभिः तथा । ऊरुभिः बाहुभिः च्छिन्नैः नाना रूपैः विभूषणैः ॥३-२५-४३॥ हयैः च द्विप मुख्यैः च रथैः भिन्नैः अनेकशः । चामर व्यजनैः छत्रैः ध्वजैः नाना विधैः अपि ॥३-२५-४४॥ रामेण बाण अभिहतैः विच्छिन्नैः शूल पट्टिशैः । खड्गैः खण्डीकृतैः प्रासैः विकीर्णैः च पश्वधैः ॥३-२५-४५॥ चूणिताभिः शिलाभिः च शरैः चित्रैः अनेकशः । विच्छिन्नैः समरे भूमिः विस्तीर्णा आभूत् भयंकरा ॥३-२५-४६॥ तान् दृष्ट्वा निहतान् सर्वे रक्षसाः परम आतुराः । न तत्र चलितुम् शक्ता रामम् पर पुरंजयम् ॥३-२५-४७॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चविंशः सर्गः ॥३-२५॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र