रामायणम्/अरण्यकाण्डम्/सर्गः ६२

विकिस्रोतः तः
← सर्गः ६१ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ६३ →
द्विषष्ठितमः सर्गः श्रूयताम्


श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥


सीतामपश्यन् धर्मात्मा शोकोपहतचेतनः।
विललाप महाबाहू रामः कमललोचनः॥ १॥

पश्यन्निव च तां सीतामपश्यन्मन्मथार्दितः।
उवाच राघवो वाक्यं विलापाश्रयदुर्वचम्॥ २॥

त्वमशोकस्य शाखाभिः पुष्पप्रियतरा प्रिये।
आवृणोषि शरीरं ते मम शोकविवर्धनी॥ ३॥

कदलीकाण्डसदृशौ कदल्या संवृतावुभौ।
ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम्॥ ४॥

कर्णिकारवनं भद्रे हसन्ती देवि सेवसे।
अलं ते परिहासेन मम बाधावहेन वै॥ ५॥

विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते।
अवगच्छामि ते शीलं परिहासप्रियं प्रिये॥ ६॥

आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव।
सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा॥ ७॥

न हि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण।
एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण॥ ८॥

शंसन्तीव हि मे देवीं भक्षितां रजनीचरैः।
हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि॥ ९॥

हा सकामाद्य कैकेयी देवि मेऽद्य भविष्यति।
सीतया सह निर्यातो विना सीतामुपागतः॥ १०॥

कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं मम।
निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति॥ ११॥

कातरत्वं प्रकाशं हि सीतापनयनेन मे।
निवृत्तवनवासश्च जनकं मिथिलाधिपम्॥ १२॥

कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम्।
विदेहराजो नूनं मां दृष्ट्वा विरहितं तया॥ १३॥

सुताविनाशसंतप्तो मोहस्य वशमेष्यति।
अथवा न गमिष्यामि पुरीं भरतपालिताम्॥ १४॥

स्वर्गोऽपि हि तया हीनः शून्य एव मतो मम।
तन्मामुत्सृज्य हि वने गच्छायोध्यापुरीं शुभाम्॥ १५॥

न त्वहं तां विना सीतां जीवेयं हि कथंचन।
गाढमाश्लिष्य भरतो वाच्यो मद्वचनात् त्वया॥ १६॥

अनुज्ञातोऽसि रामेण पालयेति वसुंधराम्।
अम्बा च मम कैकेयी सुमित्रा च त्वया विभो॥ १७॥

कौसल्या च यथान्यायमभिवाद्या ममाज्ञया।
रक्षणीया प्रयत्नेन भवता सूक्तचारिणा॥ १८॥

सीतायाश्च विनाशोऽयं मम चामित्रसूदन।
विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत्॥ १९॥

इति विलपति राघवे तु दीने
वनमुपगम्य तया विना सुकेश्या।
भयविकलमुखस्तु लक्ष्मणोऽपि
व्यथितमना भृशमातुरो बभूव॥ २०॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र