रामायणम्/अरण्यकाण्डम्/सर्गः १९
< रामायणम् | अरण्यकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः १८ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः २० → |
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥''' ताम् तथा पतिताम् दृष्ट्वा विरूपाम् शोणित उक्षिताम् । भगिनीम् क्रोध संतप्तः खरः पप्रच्छ राक्षसः ॥३-१९-१॥ उत्तिष्ठ तावत् आख्याहि प्रमोहम् जहि संभ्रमम् । व्यक्तम् आख्याहि केन त्वम् एवम् रूपा विरूपिता ॥३-१९-२॥ कः कृष्ण सर्पम् असीनम् आशी विषम नागसम् । तुदति अभिसमापन्नम् अंगुलि अग्रेण लीलया ॥३-१९-३॥ काल पाशम् समासज्य कण्ठे मोहात् न जानते । यः त्वाम् अद्य समासाद्य पीतवान् विषम् उत्तमम् ॥३-१९-४॥ बल विक्रम संपन्ना कामगा काम रूपिणी । इमाम् अवस्थाम् नीता त्वम् केन अंतक समा गता ॥३-१९-५॥ देव गन्धर्व भूतानाम् ऋषीणाम् च महात्मनाम् । को अयम् एवम् महावीर्यः त्वाम् विरूपाम् चकार ह ॥३-१९-६॥ न हि पश्यामि अहम् लोके यः कुर्यात् मम विप्रियम् । अमरेषु सहस्राक्षम् महएन्द्रम् पाकशासनम् ॥३-१९-७॥ अद्य अहम् मार्गणैः प्राणान् आदास्ये जीवितांतगैः । सलिले क्षीरम् आसक्तम् निष्पिबन् इव सारसः ॥३-१९-८॥ निहतस्य मया संख्ये शर संकृत्त मर्मणः । सफेनम् रुधिरम् कस्य मेदिनी पातुम् इच्छसि ॥३-१९-९॥ कस्य पत्ररथाः कायात् मांसम् उत्कृत्य संगताः । प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥३-१९-१०॥ तम् न देवा न गंधर्वा न पिशाचा न राक्षसाः । मया अपकृष्टम् कृपणम् शक्ताः त्रातुम् इह आहवे ॥३-१९-११॥ उपलभ्य शनैः संज्ञाम् तम् मे शंसितुम् अर्हसि । येन त्वम् दुर्विनीतेन वने विक्रम्य निर्जिता ॥३-१९-१२॥ इति भ्रातुर् वचः श्रुत्वा क्रुद्धस्य च विशेषतः । ततः शूर्पणखा वाक्यम् सबाष्पम् इदम् अब्रवीत् ॥३-१९-१३॥ तरुणौ रूप संपन्नौ सुकूमारौ महाबलौ । पुण्डरीक विशालाक्षौ चीर कृष्ण अजिन अंबरौ ॥३-१९-१४॥ फल मूल अशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्य आस्ताम् भ्रातरौ राम लक्ष्मनौ ॥३-१९-१५॥ गन्धर्व राज प्रतिमौ पार्थिव व्यन्जन अन्वितौ । देवौ वा दानवौ - मानुषौ - वा तौ न तर्कयितुम् उत्सहे ॥३-१९-१६॥ तरुणी रूपसंपन्ना सर्वाअभरण भूषिता । दृष्टा तत्र मया नारी तयोर् मध्ये सुमध्यमा ॥३-१९-१७॥ ताभ्याम् उभाभ्याम् संभूय प्रमदाम् अधिकृत्य ताम् । इमाम् अवस्थाम् नीता अहम् यथा अनाथा सती तथा ॥३-१९-१८॥ तस्याः च अनृजु वृत्तायाः तयोः च हतयोर् अहम् । सफेनम् पातुम् इच्छामि रुधिरम् रण मूर्धनि ॥३-१९-१९॥ एष मे प्रथमः कामः कृतः तत्र त्वया भवेत् । तस्याः तयोः च रुधिरम् पिबेयम् अहम् आहवे ॥३-१९-२०॥ इति तस्याम् ब्रुवाणायाम् चतुर् दश महाबलान् । व्यादिदेश खरः क्रुद्धो राक्षसान् अंतकोपमान् ॥३-१९-२१॥ मानुषौ शस्त्र सम्पन्नौ चीर कृष्ण अजिन अंबरौ । प्रविष्टौ दण्डकारण्यम् घोरम् प्रमदया सह ॥३-१९-२२॥ तौ हत्वा ताम् च दुर्वृत्ताम् उपावर्तितुम् अर्हथ । इयम् च रुधिरम् तेषाम् भगिनी मम पास्यति ॥३-१९-२३॥ मनोरथो अयम् इष्टो अस्या भगिन्या मम राक्षसाः । शीघ्रम् संपद्यताम् गत्वा तौ प्रमथ्य स्व तेजसा ॥३-१९-२४॥ युष्माबिः निर्हतो दृष्ट्वा तौ उभौ भ्रातौ रणे । इयम् प्रहृष्टा मुदिता रुधिरम् युधि पास्यति ॥३-१९-२५॥ इति प्रतिसमादिष्टा राक्षसाः ते चतुर् दश । तत्र जग्मुः तया सार्धम् घना वातेरिताः यथा ॥३-१९-२६॥ ततस्तु ते तम् समुदर्ग तेजसम्<BR>तथापि तीक्ष्ण प्रदरा निशाचरा । न शेकुर् एनम् सहसा प्रमर्दितुम्<BR>वनद्विपा दीप्त्वम् इव अग्निम् उथितम् ॥३-१९-२७॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकोनविंशः सर्गः ॥३-१९॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र