रामायणम्/अरण्यकाण्डम्/सर्गः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ९ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ११ →




'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे दशमः सर्गः ॥३-१०॥'''

वाक्यम् एतत् तु वैदेह्या व्याहृतम् भर्तृ भक्त्या ।
श्रुत्वा धर्मे स्थितो रामः प्रत्युवाच जानकीम् ॥३-१०-१॥

हितम् उक्तम् त्वया देवि स्निग्धया सदृशम् वचः ।
कुलम् व्यपदिशन्त्या च धर्मज्ञे जनक आत्मजे ॥३-१०-२॥

किम् नु वक्ष्यामि अहम् देवि त्वया एव उक्तम् इदम् वचः ।
क्षत्रियैः धार्यते चापो न आर्त शब्दो भवेद् इति ॥३-१०-३॥

ते च आर्ता दण्डकारण्ये मुनयः संशित व्रताः ।
माम् सीते स्वयम् आगम्य  शरण्याः  शरणम् गताः ॥३-१०-४॥

वसन्तः काल कालेषु वने मूल फल अशनाः ।
न लभन्ते सुखम् भीरु राक्षसैः क्रूर कर्मभिः ॥३-१०-५॥

भक्ष्यन्ते राक्षसैः भीमैः नर मांसोपजीविभिः ।
ते भक्ष्यमाणा मुनयो दण्डकारण्य वासिनः ॥३-१०-६॥

अस्मान् अभ्यवपद्य इति माम् ऊचुर् द्विज सत्तमाः ।
मया तु वचनम्  श्रुत्वा तेषाम् एवम् मुखात् च्युतम् ॥३-१०-७॥

कृत्वा वचन शुश्रुषाम् वाक्यम् एतत् उदाहृतम् ।
प्रसीदन्तु भवन्तो मे ह्रीः एषा तु मम अतुला ॥३-१०-८॥

यद् ईदृशैः अहम् विप्रैः उपस्थेयैः उपस्थितः ।
किम् करोमि इति च मया व्याहृतम् द्विज संनिधौ ॥३-१०-९॥

सर्वैः एव समागम्य वाक् इयम् समुदाहृता ।
राक्षसैः दण्डकारण्ये बहुभिः काम रूपिभिः ॥३-१०-१०॥

अर्दिताः स्म भृशम् राम भवान् नः तत्र रक्षतु ।
होम काले तु संप्राप्ते पर्व कालेषु च अनघ ॥३-१०-११॥

धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशित अशनाः ।
राक्षसैः धर्षितानाम् च तापसानाम् तपस्विनाम् ॥३-१०-१२॥

गतिम् मृगयमाणानाम् भवान् नः परमा गतिः ।
कामम् तपः प्रभावेण  शक्ता हन्तुम् निशाचरान् ॥३-१०-१३॥

चिरार्जितम् न च इच्छामः तपः खण्डयितुम् वयम् ।
बहु विघ्नम् तपो नित्यम् दुःश्चरम् चैव राघव ॥३-१०-१४॥

तेन शापम् न मुंचामो भक्ष्यमाणाः च राक्षसैः ।
तद् अर्द्यमानान् रक्षोभिः दण्डकारण्य वासिभिः ॥३-१०-१५॥

रक्ष नः त्वम् सह भ्रात्रा त्वम् नाथा हि वयम् वने ।
मया च एतत् वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ॥३-१०-१६॥

ऋषीणाम् दण्डकारण्ये संश्रुतम् जनकाअत्मजे ।
संश्रुत्य न च शक्ष्यामि जीवमानः प्रतिश्रवम् ॥३-१०-१७॥

मुनीनाम् अन्यथा कर्तुम् सत्यम् इष्टम् हि मे सदा ।
अपि अहम् जीवितम् जह्याम् त्वाम् वा सीते स लक्ष्मणाम् ॥३-१०-१८॥

न तु प्रतिज्ञाम् संश्रुत्य ब्राह्मणेभ्यो विशेषतः ।
तत् अवश्यम् मया कार्यम् ऋषीणाम् परिपालनम् ॥३-१०-१९॥

अनुक्तेन अपि वैदेहि प्रतिज्ञाय कथम् पुनः ।
मम स्नेहात् च सौहार्दात् इदम् उक्तम् त्वया वचः ॥३-१०-२०॥

परितुष्टो अस्मि अहम् सीते न हि अनिष्टो अनुशास्यते ।
सदृशम् च अनुरूपम् च कुलस्य तव शोभने ।
सधर्म चारिणी मे त्वम् प्राणेभ्यो अपि गरीयसी ॥३-१०-२१॥

इति एवम् उक्त्वा वचनम् महात्मासीताम् प्रियाम् मैथिल राज पुत्रीम् ।
रामो धनुष्मान् सह लक्ष्मणेनजगाम रम्याणि तपो वनानि ॥३-१०-२२॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे दशमः सर्गः ॥३-१०॥