रामायणम्/अरण्यकाण्डम्/सर्गः ३७
< रामायणम् | अरण्यकाण्डम्
Jump to navigation
Jump to search
← सर्गः ३६ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ३८ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तत्रिंशः सर्गः ॥३-३७॥ तत् श्रुत्वा राक्षसेन्द्रस्य वाक्यम् वाक्य विशारदः । प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥३-३७-१॥ सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥३-३७-२॥ न नूनम् बुध्यसे रामम् महावीर्यम् गुण उन्नतम् । अयुक्त चारः चपलो महेन्द्र वरुण उपमम् ॥३-३७-३॥ अपि स्वस्ति भवेत् तात सर्वेषाम् भुवि रक्षसाम् । अपि रामो न संक्रुद्धः कुर्यात् लोकम् अराक्षसम् ॥३-३७-४॥ अपि ते जीवित अंताय न उत्पन्ना जनकात्मजा । अपि सीता निमित्तम् च न भवेत् व्यसनम् महत् ॥३-३७-५॥ अपि त्वाम् ईश्वरम् प्राप्य काम वृत्तम् निरंकुशम् । न विनश्येत् पुरी लंका त्वया सह स राक्षसा ॥३-३७-६॥ त्वत् विधः काम वृत्तो हि दुःशीलः पाप मंत्रितः । आत्मानम् स्व जनम् राष्ट्रम् स राजा हन्ति दुर्मतिः ॥३-३७-७॥ न च पित्रा परित्यक्तो न अमर्यादः कथंचन । न लुब्धो न च दुःशीलो न च क्षत्रिय पांसनः ॥३-३७-८॥ न च धर्म गुणैर् हीनैः कौसल्या आनंद वर्धनः । न च तीक्ष्णो हि भूतानाम् सर्व भूत हिते रतः ॥३-३७-९॥ वंचितम् पितरम् दृष्ट्वा कैकेय्या सत्य वादिनम् । करिष्यामि इति धर्मात्मा ततः प्रव्रजितो वनम् ॥३-३७-१०॥ कैकेय्याः प्रिय कामार्थम् पितुर् दशरथस्य च । हित्वा राज्यम् च भोगान् च प्रविष्टो दण्डका वनम् ॥३-३७-११॥ न रामः कर्कशः तात न अविद्वान् न अजित इन्द्रियः । अनृतम् न श्रुतम् चैव नैव त्वम् वक्तुम् अर्हसि ॥३-३७-१२॥ रामो विग्रहवान् धर्मः साधुः सत्य पराक्रमः । राजा सर्वस्य लोकस्य देवानाम् इव वासवः ॥३-३७-१३॥ कथम् नु तस्य वैदेहीम् रक्षिताम् स्वेन तेजसा । इच्छसे प्रसभम् हर्तुम् प्रभाम् इव विवस्वतः ॥३-३७-१४॥ शर अर्चिषम् अनाधृष्यम् चाप खड्ग इन्धनम् रणे । राम अग्निम् सहसा दीप्तम् न प्रवेष्टुम् त्वम् अर्हसि ॥३-३७-१५॥ धनुर् व्यादित दीप्त आस्यम् शर अर्चिषम् अमर्षणम् । चाप बाण धरम् तीक्ष्णम् शत्रु सेना अपहारिणम् ॥३-३७-१६॥ राज्यम् सुखम् च संत्यज्य जीवितम् च इष्टम् आत्मनः । न अति आसादयितुम् तात राम अंतकम् इह अर्हसि ॥३-३७-१७॥ अप्रमेयम् हि तत् तेजो यस्य सा जनकात्मजा । न त्वम् समर्थः ताम् हर्तुम् राम चाप आश्रयाम् वने ॥३-३७-१८॥ तस्य वै नर सिंहस्य सिंह उरस्कस्य भामिनी । प्राणेभ्यो अपि प्रियतरा भार्या नित्यम् अनुव्रता ॥३-३७-१९॥ न सा धर्षयितुम् शक्या मैथिली ओजस्विनः प्रिया । दीप्तस्य इव हुत आशस्य शिखा सीता सुमध्यमा ॥३-३७-२०॥ किम् उद्यमम् व्यर्थम् इमम् कृत्वा ते राक्षसाधिप । दृष्टः चेत् त्वम् रणे तेन तत् अंतम् तव जीवितम् ॥३-३७-२१॥ जीवितम् च सुखम् चैव राज्यम् चैव सुदुर्लभम् । यत् इच्छसि चिरम् भोक्तुम् मा कृथा राम विप्रियम् ॥३-३७-२२॥ स सर्वैः सचिवैः सार्धम् विभीषण पुरस्कृतैः । मंत्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः । दोषाणाम् च गुणानाम् च संप्रधार्य बल अबलम् ॥३-३७-२३॥ आत्मनः च बलम् ज्ञात्वा राघवस्य च तत्त्वतः । हितम् हि तव निश्चित्य क्षमम् त्वम् कर्तुम् अर्हसि ॥३-३७-२४॥ अहम् तु मन्ये तव न क्षमम् रणेसमागमम् कोसल राज सूनुना । इदम् हि भूयः शृणु वाक्यम् उत्तमम्क्षमम् च युक्तम् च निशाचर अधिप ॥३-३७-२५॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे सप्तत्रिंशः सर्गः ॥३-३७॥