रामायणम्/अरण्यकाण्डम्/सर्गः ६०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५९ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ६१ →


श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥

भृशम् आव्रजमानस्य तस्य अधो वाम लोचनम् ।
प्रास्फुरत् च अस्खलत् रामो वेपथुः च अस्य जायते ॥३-६०-१॥

उपालक्ष्य निमित्तानि सो अशुभानि मुहुर् मुहुः ।
अपि क्षेमम् तु सीताया इति वै व्याजहार ह ॥३-६०-२॥

त्वरमाणो जगाम अथ सीता दर्शन लालसः ।
शून्यम् आवसथम् दृष्ट्वा बभूव उद्विग्न मानसः ॥३-६०-३॥

उद् भ्रमन् इव वेगेन विक्षिपन् रघु नन्दनः ।
तत्र तत्र उटज स्थानम् अभिवीक्ष्य समंततः ॥३-६०-४॥
ददर्श पर्ण शालाम् च सीतया रहिताम् तदा ।
श्रिया विरहिताम् ध्वस्ताम् हेमन्ते पद्मिनीम् इव ॥३-६०-५॥

रुदन्तम् इव वृक्षैः च ग्लान पुष्प मृग द्विजम् ।
श्रिया विहीनम् विध्वस्तम् संत्यक्त वन दैवतैः ॥३-६०-६॥
विप्रकीर्ण अजिन कुशम् विप्रविद्ध बृसी कटम् ।
दृष्ट्वा शून्य उटज स्थानम् विललाप पुनः पुनः ॥३-६०-७॥

हृता मृता वा नष्टा वा भक्षिता वा भविष्यति ।
निलीना अपि अथवा भीरुः अथवा वनम् आश्रिता ॥३-६०-८॥

गता विचेतुम् पुष्पाणि फलानि अपि च वा पुनः ।
अथवा पद्मिनीम् याता जल अर्थम् वा नदीम् गता ॥३-६०-९॥

यत्नात् मृगयमाणः तु न आससाद वने प्रियाम् ।
शोक रक्त ईक्षणः श्रीमान् उन्मत्त इव लक्ष्यते ॥३-६०-१०॥

वृक्षात् वृक्षम् प्रधावन् स गिरीम् च अपि नदी नदम् ।
बभ्राम विलपन् रामः शोक पंक अर्णव प्लुतः ॥३-६०-११॥

अस्ति कच्चित् त्वया दृष्टा सा कदम्ब प्रिया प्रिया ।
कदम्ब यदि जानीषे शंस सीताम् शुभ आननाम् ॥३-६०-१२॥

स्निग्ध पल्लव संकाशाम् पीत कौशेय वासिनीम् ।
शंसस्व यदि सा दृष्टा बिल्व बिल्व उपम स्तनी ॥३-६०-१३॥

अथवा अर्जुन शंस त्वम् प्रियाम् ताम् अर्जुन प्रियाम् ।
जनकस्य सुता तन्वी यदि जीवति वा न वा ॥३-६०-१४॥

ककुभः ककुभ ऊरुम् ताम् व्यक्तम् जानाति मैथिलीम् ।
लता पल्लव पुष्प आढ्यो भाति हि एष वनस्पतिः ॥३-६०-१५॥

भ्रमरैर् उपगीतः च यथा द्रुम वरो हि असि ।
एष व्यक्तम् विजानाति तिलकः तिलक प्रियाम् ॥३-६०-१६॥

अशोक शोक अपनुद शोक उपहत चेतनम् ।
त्वन् नामानम् कुरु क्षिप्रम् प्रिया संदर्शनेन माम् ॥३-६०-१७॥

यदि ताल त्वया दृष्टा पक्व ताल फल स्तनी ।
कथयस्व वरारोहाम् कारुण्यम् यदि ते मयि ॥३-६०-१८॥

यदि दृष्टा त्वया सीता जम्बो जांबूनद सम प्रभा
।
प्रियाम् यदि विजानासि निःशंक कथयस्व मे ॥३-६०-१९॥

अहो त्वम् कर्णिकार अद्य पुष्पितः शोभसे भृशम् ।
कर्णिकार प्रियाम् साध्वीम् शंस दृष्टा यदि प्रिया ॥३-६०-२०॥

चूत नीप महा सालान् पनसान् कुरवान् धवान् ।
दाडिमान् अपि तान् गत्वा दृष्ट्वा रामो महायशाः ॥३-६०-२१॥
बकुलान् अथ पुन्नागान् च चंदनान्केतकान् तथा ।
पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ॥३-६०-२२॥

अथवा मृग शाब अक्षीम् मृग जानासि मैथिलीम् ।
मृग विप्रेक्षणी कांता मृगीभिः सहिता भवेत् ॥३-६०-२३॥

गज सा गज नासोरुः यदि दृष्टा त्वया भवेत् ।
ताम् मन्ये विदिताम् तुभ्यम् आख्याहि वर वारण ॥३-६०-२४॥

शार्दूल यदि सा दृष्टा प्रिया चंद्र निभ आनना ।
मैथिली मम विस्रब्धम् कथयस्व न ते भयम् ॥३-६०-२५॥

किम् धावसि प्रिये नूनम् दृष्टा असि कमल ईक्षणे ।
वृक्षेण आच्चाद्य च आत्मानम् किम् माम् न प्रतिभाषसे ॥३-६०-२६॥

तिष्ठ तिष्ठ वरारोहे न ते अस्ति करुणा मयि ।
न अत्यर्थम् हास्य शीला असि किम् अर्थम् माम् उपेक्षसे ॥३-६०-२७॥

पीत कौशेयकेन असि सूचिता वर वर्णिनि ।
धावन्ति अपि मया दृष्टा तिष्ठ यदि अस्ति सौहृदम् ॥३-६०-२८॥

न एव सा नूनम् अथवा हिंसिता चारु हासिनी ।
कृच्छ्रम् प्राप्तम् न माम् नूनम् यथा उपेक्षितुम् अर्हति ॥३-६०-२९॥

व्यक्तम् सा भक्षिता बाला राक्षसैः पिशित अशनैः ।
विभज्य अंगानि सर्वाणि मया विरहिता प्रिया ॥३-६०-३०॥

नूनम् तत् शुभ दंत ओष्ठम् सुनासम् शुभ कुण्डलम् ।
पूर्ण चंद्र निभम् ग्रस्तम् मुखम् निष्प्रभताम् गतम् ॥३-६०-३१॥

सा हि चंपक वर्ण आभा ग्रीवा ग्रैवेयक उचिता ।
कोमला विलपन्त्याः तु कान्ताया भक्षिता शुभा ॥३-६०-३२॥

नूनम् विक्षिप्यमाणौ तौ बाहू पल्लव कोमलौ ।
भक्षितौ वेपमान अग्रौ स हस्त आभरण अंगदौ ॥३-६०-३३॥

मया विरहिता बाला रक्षसाम् भक्षणाय वै ।
सार्थेन इव परित्यक्ता भक्षिता बहु बांधवा ॥३-६०-३४॥

हा लक्ष्मण महाबाहो पश्यसे त्वम् प्रियाम् क्वचित् ।
हा प्रिये क्व गता भद्रे हा सीते इति पुनः पुनः ॥३-६०-३५॥

इति एवम् विलपन् रामः परिधावन् वनात् वनम् ।
क्वचित् उद् भ्रमते वेगात् क्वचित् विभ्रमते बलात् ॥३-६०-३६॥
क्वचित् मत्त इव आभाति कांता अन्वेषण तत्परः ।

स वनानि नदीः शैलान् गिरि प्रस्रवणानि च ।
काननानि च वेगेन भ्रमति अपरिसंस्थितः ॥३-६०-३७॥

तदा स गत्वा विपुलम् महत् वनम्
परीत्य सर्वम् तु अथ मैथिलीम् प्रति ।
अनिष्ठित आशः स चकार मार्गणे
पुनः प्रियायाः परमम् परिश्रमम् ॥३-६०-३८॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥