रामायणम्/अरण्यकाण्डम्/सर्गः २

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ३ →



'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वितीयः सर्गः ॥३-२॥'''


कृत आतिथ्योऽथ रामस्तु सूर्यस्य उदयनम् प्रति ।
आमंत्र्य स मुनीम् तत् सर्वान् वनम् एव अन्वगाहत ॥३-२-१॥

नाना मृग गण आकीर्णम् ऋक्ष शार्दूल सेवितम् ।
ध्वस्त वृक्ष लता गुल्मम् दुर्दर्श सलिलाशयम् ॥३-२-२॥

निष्कूजमाना शकुनि झिल्लिका गण नादितम् ।
लक्ष्मण अनुचरोओ रामो वन मध्यम् ददर्श ह ॥३-२-३॥

सीताया सह काकुत्स्थः तस्मिन् घोर मृग आयुते ।
ददर्श गिरि शृङ्ग आभम् पुरुषादम् महास्वनम् ॥३-२-४॥

गम्भीर अक्षम् महावक्त्रम् विकटम् विकटोदरम् ।
बीभत्सम् विषमम् दीर्घम् विकृतम् घोर दर्शनम् ॥३-२-५॥

वसानम् चर्म  वैयाघ्रम् वस आर्द्रम् रुधिरोक्षितम् ।
त्रासनम् सर्व भूतानाम् व्यादितास्यम् इव अन्तकम् ॥३-२-६॥

त्रीन् सिंहान् चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश ।
सविषाणम् वसादिग्धम् गजस्य च शिरो महत् ॥३-२-७॥

अवसज्य आअयसे शूले विनदन्तम् महास्वनम् ।
स रामम् लक्ष्मणम् चैव सीताम् दृष्ट्वा च मैथिलीम् ॥३-२-८॥

अभ्य धावत् सुसंक्रुद्धो प्रजाः काल इव अन्तकः ।
स कृत्वा भैरवम् नादम् चालयन् इव मेदिनीम् ॥३-२-९॥

अङ्केन आदाय वैदेहीम् अपक्रम्य तदा अब्रवीत् ।
युवाम् जटा चीर धरौ सभार्यौ क्षीण जीवितौ ॥३-२-१०॥

प्रविष्टौ दण्डकारण्यम् शर चाप असि पाणिनौ ।
कथम् तापसयोः युवाम् च वासः प्रमदया सह ॥३-२-११॥

अधर्म चारिणौ पापौ कौ युवाम् मुनि दूषकौ ।
अहम् वनम् इदम् दुर्गम् विराघो नाम राक्षसः ॥३-२-१२॥

चरामि सायुधो नित्यम् ऋषि मांसानि भक्षयन् ।
इयम् नारी वरारोहा मम भार्या भविष्यति ॥३-२-१३॥

युवयोः पापयोः च अहम् पास्यामि रुधिरम् मृधे ।
तस्य एवम् ब्रुवतो दुष्टम् विराधस्य दुरात्मनः ॥३-२-१४॥

श्रुत्वा सगर्वितम् वाक्यम् संभ्रान्ता जनकात्मजा ।
सीता प्रावेपिता उद्वेगात् प्रवाते कदली यथा ॥३-२-१५॥

ताम् दृष्ट्वा राघवः सीताम् विराध अङ्कगताम् शुभाम् ।
अब्रवीत् लक्ष्मणम् वाक्यम् मुखेन परिशुष्यता ॥३-२-१६॥

पश्य सौम्य नरेन्द्रस्य जनकस्य अत्म संभवाम् ।
मम भार्याम् शुभाचाराम् विराधाङ्के प्रवेशिताम् ॥३-२-१७॥

अत्यन्त सुख संवृद्धाम् राजपुत्रीम् यशस्विनीम् ।
यत् अभिप्रेतम् अस्मासु प्रियम् वर वृतम् च यत् ॥३-२-१८॥

कैकेय्यास्तु सुसंवृत्तम् क्षिप्रम् अद्य एव लक्ष्मण ।
या न तुष्यति राज्येन पुत्रार्थे दीर्घ दर्शिनी ॥३-२-१९॥

ययाऽहम् सर्वभूतानाम् प्रियः प्रस्थापितो वनम् ।
अद्य इदानीम् सकामा सा या माता मम मध्यमा ॥३-२-२०॥

पर स्पर्शात् तु वैदेह्या न दुःखतरम् अस्ति मे ।
पितुर् विनाशात् सौमित्रे स्व राज्य हरणात् तथा ॥३-२-२१॥

इति ब्रुवति काकुत्स्थे बाष्प शोक परिप्लुतः ।
अब्रवीत् लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥३-२-२२॥

अनाथ इव भूतानाम् नाथः त्वम् वासवोपमः ।
मया प्रेष्येण काकुत्स्थः किम् अर्थम् परितप्यसे ॥३-२-२३॥

शरेण निहतस्य अद्य मया क्रुद्धेन रक्षसः ।
विराधस्य गत असोः हि मही पास्यति शोणितम् ॥३-२-२४॥

राज्य कामे मम क्रोधो भरते यो बभूव ह ।
तम् विराधे विमोक्ष्यामि वज्री वज्रम् इव अचले ॥३-२-२५॥

मम भुज बल वेग वेगितःपततु शरोऽस्य महान् महोरसि ।
व्यपनयतु तनोः च जीवितम्पततु ततः च महीम् विघूर्णितः ॥३-२-२६॥


इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्वितीयः सर्गः ॥३-२॥