रामायणम्/अरण्यकाण्डम्/सर्गः २७

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २६ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः २८ →


खरम् तु राम अभिमुखम् प्रयांतम् वाहिनी पतिः ।
राक्षसः त्रिशिरा नाम संनिपत्य इदम् अब्रवीत् ॥३-२७-१॥

माम् नियोजय विक्रांतम् त्वम् निवर्तस्व साहसात् ।
पश्य रामम् महाबाहुम् संयुगे विनिपातितम् ॥३-२७-२॥

प्रतिजानामि ते सत्यम् आयुधम् च अहम् आलभे ।
यथा रामम् वधिष्यामि वधार्हम् सर्व रक्षसाम् ॥३-२७-३॥

अहम् वा अस्य रणे मृत्युः एष वा समरे मम ।
विनिवर्त्य रण उत्साहम् मुहूर्तम् प्राश्निको भव ॥३-२७-४॥

प्रहृष्टो वा हते रामे जनस्थानम् प्रयास्यसि ।
मयि वा निहते रामम् संयुगाय प्रयास्यसि ॥३-२७-५॥

खरः त्रिशिरसा तेन मृत्यु लोभात् प्रसादितः ।
गच्छ युध्य इति अनुज्ञातो राघव अभिमुखो ययौ ॥३-२७-६॥

त्रिशिराः तु रथेन एव वाजि युक्तेन भास्वता ।
अभ्यद्रवत् रणे रामम् त्रि शृंग इव पर्वतः ॥३-२७-७॥

शर धारा समूहान् स महामेघ इव उत्सृजन् ।
व्यसृजत् सदृशम् नादम् जल आर्द्रस्य इव दुन्दुभेः ॥३-२७-८॥

आगच्छंतम् त्रिशिरसम् राक्षसम् प्रेक्ष्य राघवः ।
धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान् ॥३-२७-९॥

स संप्रहारः तुमुलो राम त्रिशिरसोः तदा ।
संबभूव अतीव बलिनोः सिंह कुं~जरयोः इव ॥३-२७-१०॥

ततः त्रिशिरसा बाणैः ललाटे ताडितः त्रिभिः ।
अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत् ॥३-२७-११॥

अहो विक्रम शूरस्य राक्षसस्य ईदृशम् बलम् ।
पुष्पैः इव शरैः यस्य ललाटे अस्मि परिक्षतः ॥३-२७-१२॥

मम अपि प्रतिगृह्णीष्व शरान् चाप गुण च्युतान् ।
एवम् उक्त्वा सुसंरब्धः शरान् आशीविष उपमान् ॥३-२७-१३॥
त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर् दश ।

चतुर्भिः तुरगान् अस्य शरैः संनत पर्वाभिः ॥३-२७-१४॥
न्यपातयत तेजस्वी चतुरः तस्य वाजिनः ।

अष्टभिः सायकैः सूतम् रथ उपस्थे न्यपातयत् ॥३-२७-१५॥
रामः चिच्छेद बाणेन ध्वजम् च अस्य समुच्छ्रितम् ।

ततो हत रथात् तस्मात् उत्पतंतम् निशाचरम् ॥३-२७-१६॥
चिच्छेद रामः तम् बाणैः हृदये सो अभवत् जडः ।

सायकैः च अप्रमेय आत्मा सामर्षः तस्य रक्षसः ॥३-२७-१७॥
शिरांसि अपातयत् त्रीणि वेगवद्भिः त्रिभिः शतैः ।

स धूम शोणित उद्गारी राम बाण अभिपीडितः ॥३-२७-१८॥
न्यपतत् पतितैः पूर्वम् समरस्थो निशाचरः ।

हत शेषाः ततो भग्ना राक्षसाः खर संश्रयाः ॥३-२७-१९॥
द्रवन्ति स्म न तिष्ठन्ति व्याघ्र त्रस्ता मृगा इव ।

तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः त्वरन् ।
रामम् एव अभिदुद्राव राहुः चन्द्रमसम् यथा ॥३-२७-२०॥


इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे सप्तविंशः सर्गः ॥३-२७॥