रामायणम्/अरण्यकाण्डम्/सर्गः ४६
< रामायणम् | अरण्यकाण्डम्
Jump to navigation
Jump to search
← सर्गः ४५ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ४७ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥३-४६॥ तया परुषम् उक्तः तु कुपितो राघव अनुजः । स विकांक्षन् भृशम् रामम् प्रतस्थे न चिरात् इव ॥३-४६-१॥ तदा आसाद्य दशग्रीवः क्षिप्रम् अंतरम् आस्थितः । अभिचक्राम वैदेहीम् परिव्राजक रूप धृक् ॥३-४६-२॥ श्लक्ष्ण काषाय संवीतः शिखी चत्री उपानही । वामे च अंसे अवसज्य अथ शुभे यष्टि कमण्डलू ॥३-४६-३॥ परिव्राजक रूपेण वैदेहीम् अन्ववर्तत । ताम् आससाद अतिबलो भ्रातृभ्याम् रहिताम् वने ॥३-४६-४॥ रहिताम् सूर्य चन्द्राभ्याम् संध्याम् इव महत् तमः । ताम् अपश्यत् ततो बालाम् राज पुत्रीम् यशस्विनीम् ॥३-४६-५॥ रोहिणीम् शशिना हीनाम् ग्रहवत् भृश दारुणः । तम् उग्रम् पाप कर्माणम् जनस्थान गता द्रुमाः ॥३-४६-६॥ संदृश्य न प्रकंपन्ते न प्रवाति च मारुतः । शीघ्र स्रोताः च तम् दृष्ट्वा वीक्षंतम् रक्त लोचनम् ॥३-४६-७॥ स्तिमितम् गंतुम् आरेभे भयात् गोदावरी नदी । रामस्य तु अंतरम् प्रेप्सुः दशग्रीवः तत् अंतरे ॥३-४६-८॥ उपतस्थे च वैदेहीम् भिक्षु रूपेण रावणः । अभव्यो भव्य रूपेण भर्तारम् अनुशोचतीम् ॥३-४६-९॥ अभ्यवर्तत वैदेहीम् चित्राम् इव शनैश्चरः । सहसा भव्य रूपेण तृणैः कूप इव आवृतः ॥३-४६-१०॥ अतिष्ठत् प्रेक्ष्य वैदेहीम् राम पत्नीम् यशस्विनीम् । तिष्टन् संप्रेक्ष्य च तदा पत्नीम् रामस्य रावण ॥३-४६-११॥ शुभाम् रुचिर दन्त ओष्ठीम् पूर्ण चन्द्र निभ आननाम् । आसीनाम् पर्णशालायाम् बाष्प शोक अभिपीडिताम् ॥३-४६-१२॥ स ताम् पद्म पलाश अक्षीम् पीत कौशेय वासिनीम् । अभ्यगच्छत वैदेहीम् हृष्ट चेता निशा चरः ॥३-४६-१३॥ दृष्ट्वा काम शर आविद्धो ब्रह्म घोषम् उदीरयन् । अब्रवीत् प्रश्रितम् वाक्यम् रहिते राक्षस अधिपः ॥३-४६-१४॥ ताम् उत्तमाम् त्रिलोकानाम् पद्म हीनाम् इव श्रियम् । विभ्राजमानाम् वपुषा रावणः प्रशशम्स ह ॥३-४६-१५॥ का त्वम् कांचन वर्ण आभे पीत कौशेय वासिनि । कमलानाम् शुभाम् मालाम् पद्मिनी इव च बिभ्रती ॥३-४६-१६॥ ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीः अप्सरा वा शुभ आनने । भूतिर् वा त्वम् वराअरोहे रतिर् वा स्वैर चारिणी ॥३-४६-१७॥ समाः शिखरिणः स्निग्धाः पाण्डुरा दशनाः तव । विशाले विमले नेत्रे रक्तान्ते कृष्ण तारके ॥३-४६-१८॥ विशालम् जघनम् पीनम् ऊरू करि कर उपमौ । एतौ उपचितौ वृत्तौ संहतौ संप्रगल्भितौ ॥३-४६-१९॥ पीन उन्नत मुखौ कान्तौ स्निग्ध ताल फल उपमौ । मणि प्रवेक आभरणौ रुचिरौ ते पयो धरौ ॥३-४६-२०॥ चारु स्मिते चारु दति चारु नेत्रे विलासिनि । मनो हरसि मे रामे नदी कूलम् इव अंभसा ॥३-४६-२१॥ करान्तमित मध्या असि सुकेशी संहत स्तनी । न एव देवी न गन्धर्वी न यक्षी न च किंनरी ॥३-४६-२२॥ न एवम् रूपा मया नारी दृष्ट पूर्वा मही तले । रूपम् अग्र्यम् च लोकेषु सौकुमार्यम् वयः च ते ॥३-४६-२३॥ इह वासः च कांतारे चित्तम् उन्मथयन्ति मे । सा प्रतिक्राम भद्रम् ते न त्वम् वस्तुम् इह अर्हसि ॥३-४६-२४॥ राक्षसानाम् अयम् वासो घोराणाम् काम रूपिणाम् । प्रासाद अग्राणि रम्याणि नगर उपवनानि च ॥३-४६-२५॥ संपन्नानि सुगन्धीनि युक्तानि आचरितुम् त्वया । वरम् माल्यम् वरम् गंधम् वरम् वस्त्रम् च शोभने ॥३-४६-२६॥ भर्तारम् च वरम् मन्ये त्वत् युक्तम् असितेक्षणे । का त्वम् भवसि रुद्राणाम् मरुताम् वा शुचिस्मिते ॥३-४६-२७॥ वसूनाम् वा वराअरोहे देवता प्रतिभासि मे । न इह गच्छंति गंधर्वा न देवा न च किन्नराः ॥३-४६-२८॥ राक्षसानाम् अयम् वासः कथम् तु त्वम् इह आगता । इह शाखामृगाः सिंहा द्वीपि व्याघ्र मृगाः तथा ॥३-४६-२९॥ ऋक्षाः तरक्षवः कंकाः कथम् तेभ्यो न बिभ्यसे । मद अन्वितानाम् घोराणाम् कुंजराणाम् तरस्विनाम् ॥३-४६-३०॥ कथम् एका महारण्ये न बिभेषि वराअनने । का असि कस्य कुतः च त्वम् किम् निमित्तम् च दण्डकान् ॥३-४६-३१॥ एका चरसि कल्याणि घोरान् राक्षस सेवितान् । इति प्रशस्ता वैदेही रावणेन दुरात्मना - महात्मना- ॥३-४६-३२॥ द्विजाति वेषेण हि तम् दृष्ट्वा रावणम् आगतम् । सर्वैः अतिथि सत्कारैः पूजयामास मैथिली ॥३-४६-३३॥ उपानीय आसनम् पूर्वम् पाद्येन अभिनिमंत्र्य च । अब्रवीत् सिद्धम् इति एव तदा तम् सौम्य दर्शनम् ॥३-४६-३४॥ द्विजाति वेषेण समीक्ष्य मैथिलीतम् आगतम् पात्र कुसुंभ धारिणम् । अशक्यम् उद्द्वेष्टुम् उपाय दर्शनान्न्यमंत्रयत् ब्राह्मणवत् यथा आगतम् ॥३-४६-३५॥ इयम् बृसी ब्राह्मण कामम् आस्यताम्इदम् च पाद्यम् प्रतिगृह्यताम् इति । निमंत्र्यमाणः प्रतिपूर्ण भाषिणीम्नरेन्द्र पत्नीम् प्रसमीक्ष्य मैथिलीम् । प्रसह्य तस्या हरणे धृढम् मनःसमर्पयामास आत्म वधाय रावणः ॥३-४६-३६॥ ततः सुवेषम् मृगया गतम् पतिम्प्रतीक्षमाणा सह लक्ष्मणम् तदा । निरीक्षमाणा हरितम् ददर्श तत्महद् वनम् न एव तु राम लक्ष्मणौ ॥३-४६-३७॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥३-४६॥