रामायणम्/अरण्यकाण्डम्/सर्गः २३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २२ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः २४ →


तत् प्रयातम् बलम् घोरम् अशिवम् शोणित उदकम् ।
अभ्यवर्षत् महा मेघः तुमुलो गर्दभ अरुणः ॥३-२३-१॥

निपेतुः तुरगाः तस्य रथ युक्ता महाजवाः ।
समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥३-२३-२॥

श्यामम् रुधिर पर्यन्तम् बभूव परिवेषणम् ।
अलात चक्र प्रतिमम् प्रतिगृह्य दिवाकरम् ॥३-२३-३॥

ततो ध्वजम् उपागम्य हेम दण्डम् समुच्छ्रितम् ।
समाक्रम्य महाकायः तस्थौ गृध्रः सुदारुणः ॥३-२३-४॥

जनस्थान समीपे च समाक्रम्य खर स्वनाः ।
विस्वरान् विविधान् च चक्रुः मांस आदा मृग पक्षिणः ॥३-२३-५॥

व्याजह्रुः च पदीप्तायाम् दिशि वै भैरव स्वनम् ।
अशिवा यातुधानानाम् शिवा घोरा महास्वनाः ॥३-२३-६॥

प्रभिन्नगजसंकाशतोयशोणितधारिणः ।
यद्वा -प्रभिन्न गज संकाश तोय शोणित धारिणः ।
आकाशम् तत् अनाकाशम् चक्रुः भीम अंबु वाहकाः॥३-२३-७॥

बभूव तिमिरम् घोरम् उद्धतम् रोम हर्षणम् ।
दिशो वा प्रदिशो वा अपि सुव्यक्तम् न चकाशिरे ॥३-२३-८॥

क्षतज आर्द्र सवर्णाभा संध्या कालम् विना बभौ ।
खरम् च अभिमुखम् नेदुः तदा घोरा मृगाः खगाः ॥३-२३-९॥

कंक गोमायु गृध्राः च चुक्रुशुः भय संशिनः ।
नित्या अशिव करा युद्धे शिवा घोर निदर्शनाः ॥३-२३-१०॥

नेदुः बलस्य अभिमुखम् ज्वाल उद्गारिभिः आननैः ।
कबन्धः परिघ आभासो दृश्यते भास्कर अंतिके ॥३-२३-११॥

जग्राह सूर्यम् स्वर्भानुः अपर्वणि महाग्रहः ।
प्रवाति मारुतः शीघ्रम् निष्प्रभो अभूत् दिवाकरः ॥३-२३-१२॥

उत्पेतुः च विना रात्रिम् ताराः खद्योतन प्रभाः ।
संलीन मीन विहगा नलिन्यः शुष्क पंकजाः ॥३-२३-१३॥

तस्मिन् क्षणे बभूवुः च विना पुष्प फलैः द्रुमाः ।
उद्धूतः च विना वातम् रेणुः जलधर अरुणः ॥३-२३-१४॥

चीची कूचि इति वाश्यन्तो बभूवुः तत्र सारिकाः ।
उल्काः च अपि स निर्घोषा निपेतुः घोर दर्शनाः ॥३-२३-१५॥

प्रचचाल मही च अपि स शैल वन कानना ।
खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥३-२३-१६॥

प्राकम्पत भुजः सव्यः स्वरः च अस्य अवसज्जत ।
स अस्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥३-२३-१७॥

ललाटे च रुजो जाता न च मोहात् न्यवर्तत ।
तान् समीक्ष्य महोत्पातान् उत्थितान् रोम हर्षणान् ॥३-२३-१८॥

अब्रवीत् राक्षसान् सर्वान् प्रहसन् स खरः तदा ।
महा उत्पातान् इमान् सर्वान् उत्थितान् घोर दर्शनान् ॥३-२३-१९॥

न चिंतयामि अहम् वीर्यात् बलवान् दुर्बलान् इव ।
तारा अपि शरैः तीक्ष्णैः पातयेयम् नभः तलात् ॥३-२३-२०॥

मृत्युम् मरण धर्मेण संक्रुद्धो योजयामि अहम् ।
राघवम् तम् बल उत्सिक्तम् भ्रातरम् च अस्य लक्ष्मणम् ॥३-२३-२१॥

अहत्वा सायकैः तीक्ष्णैः न उपावर्तितुम् उत्सहे ।
यन् निमित्तम् तु रामस्य लक्ष्मणस्य विपर्ययः ॥३-२३-२२॥

सकामा भगिनी मे अस्तु पीत्वा तु रुधिरम् तयोः ।
न क्वचित् प्राप्त पूर्वो मे संयुगेषु पराजयः ॥३-२३-२३॥

युष्माकम् एतत् प्रत्यक्षम् न अनृतम् कथयामि अहम् ।
देव राजम् अपि क्रुद्धो मत्त ऐरावत गामिनम् ॥३-२३-२४॥

वज्र हस्तम् रणे हन्याम् किम् पुनः तौ च मानुषौ ।
सा तस्य गर्जितम् श्रुत्वा राक्षसाअनाम् महा चमूः ॥३-२३-२५॥

प्रहर्षम् अतुलम् लेभे मृत्यु पाश अवपाशिता ।
समेयुः च महात्मानो युद्ध दर्शन कांक्षिणः ॥३-२३-२६॥

ऋषयो देव गन्धर्वाः सिद्धाः च सह चारणैः ।
समेत्य च ऊचुः सहिताः ते अन्यायम् पुण्यकर्मणः ॥३-२३-२७॥

स्वस्ति गो ब्राह्मणेभ्यो अस्तु लोकानाम् ये च सम्मताः ।
जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२३-२८॥

चक्रहस्तो यथा विष्णुः सर्वान् असुर सत्तमान् ।
एतत् च अन्यत् च बहुशो ब्रुवाणाः परम ऋषयः ॥३-२३-२९॥

जात कौतूहलात् तत्र विमानस्थाः च देवताः ।
ददृशुर् वाहिनीम् तेषाम् राक्षसानाम् गत आयुषाम् ॥३-२३-३०॥

रथेन तु खरो वेगात् सैन्यस्य अग्रात् विनिःसृतः ।
श्येनगामी पृथुग्रीवो यज्ञशत्रुः विहंगमः ॥३-२३-३१॥

दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।
हेममाली महामाली सर्पाअस्यो रुधिराशनः ॥३-२३-३२॥

द्वादश एते महावीर्याः प्रतस्थुः अभितः खरम् ।
महाकपालः स्थूलाक्षः प्रमाथी त्रिशिराः तथा ।
चत्वार एते सेना अग्रे दूषणम् पृष्ठतो अन्वयुः ॥३-२३-३३॥

सा भीम वेगा समर अभिकांक्षिणीसुदारुणा राक्षस वीर सेना ।
तौ राज पुत्रौ सहसा अभ्युपेतामाला ग्रहाणाम् इव चन्द्र सूर्यौ ॥३-२३-३४॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥