रामायणम्/अरण्यकाण्डम्/सर्गः २३
दिखावट
< रामायणम् | अरण्यकाण्डम्
← सर्गः २२ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः २४ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥
तत्प्रयातं बलं घोरमशिवं शोणितोदकम्। अभ्यवर्षन्महाघोरस्तुमुलो गर्दभारुणः॥ १॥ निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः। समे पुष्पचिते देशे राजमार्गे यदृच्छया॥ २॥ श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्। अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम्॥ ३॥ ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम्। समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः॥ ४॥ जनस्थानसमीपे च समाक्रम्य खरस्वनाः। विस्वरान् विविधान् नादान् मांसादा मृगपक्षिणः॥ ५॥ व्याजह्रुरभिदीप्तायां दिशि वै भैरवस्वनम्। अशिवं यातुधानानां शिवा घोरा महास्वनाः॥ ६॥ प्रभिन्नगजसंकाशास्तोयशोणितधारिणः। आकाशं तदनाकाशं चक्रुर्भीमाम्बुवाहकाः॥ ७॥ बभूव तिमिरं घोरमुद्धतं रोमहर्षणम्। दिशो वा प्रदिशो वापि सुव्यक्तं न चकाशिरे॥ ८॥ क्षतजार्द्रसवर्णाभा संध्या कालं विना बभौ। खरं चाभिमुखं नेदुस्तदा घोरा मृगाः खगाः॥ ९॥ कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः। नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः॥ १०॥ नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः। कबन्धः परिघाभासो दृश्यते भास्करान्तिके॥ ११॥ जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः। प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद् दिवाकरः॥ १२॥ उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः। संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः॥ १३॥ तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः। उद्धूतश्च विना वातं रेणुर्जलधरारुणः॥ १४॥ चीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र सारिकाः। उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः॥ १५॥ प्रचचाल मही चापि सशैलवनकानना। खरस्य च रथस्थस्य नर्दमानस्य धीमतः॥ १६॥ प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत। सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः॥ १७॥ ललाटे च रुजो जाता न च मोहान्न्यवर्तत। तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान्॥ १८॥ अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस्तदा। महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान्॥ १९॥ न चिन्तयाम्यहं वीर्याद् बलवान् दुर्बलानिव। तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात्॥ २०॥ मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम्। राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम्॥ २१॥ अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे। यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः॥ २२॥ सकामा भगिनीमेऽस्तु पीत्वा तु रुधिरं तयोः। न क्वचित् प्राप्तपूर्वो मे संयुगेषु पराजयः॥ २३॥ युष्माकमेतत् प्रत्यक्षं नानृतं कथयाम्यहम्। देवराजमपि क्रुद्धो मत्तैरावतगामिनम्॥ २४॥ वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानवौ। सा तस्य गर्जितं श्रुत्वा राक्षसानां महाचमूः॥ २५॥ प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता। समेयुश्च महात्मानो युद्धदर्शनकांक्षिणः॥ २६॥ ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः। समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः॥ २७॥ स्वस्ति गोब्राह्मणेभ्यस्तु लोकानां ये च सम्मताः। जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्॥ २८॥ चक्रहस्तो यथा विष्णुः सर्वानसुरसत्तमान्। एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः॥ २९॥ जातकौतूहलास्तत्र विमानस्थाश्च देवताः। ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्॥ ३०॥ रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः। श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः॥ ३१॥ दुर्जयः करवीराक्षः परुषः कालकार्मुकः। हेममाली महामाली सर्पास्यो रुधिराशनः॥ ३२॥ द्वादशैते महावीर्याः प्रतस्थुरभितः खरम्। महाकपालः स्थूलाक्षः प्रमाथस्त्रिशिरास्तथा। चत्वार एते सेनाग्रे दूषणं पृष्ठतोऽन्वयुः॥ ३३॥ सा भीमवेगा समराभिकांक्षिणी सुदारुणा राक्षसवीरसेना। तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ॥ ३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥
स्रोतः
[सम्पाद्यताम्]पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र