रामायणम्/अरण्यकाण्डम्/सर्गः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १० रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः १२ →



'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकादशः सर्गः ॥३-११॥'''

अग्रतः प्रययौ रामः सीता मध्ये सुशोभना ।
पृष्ठतः तु धनुष्पाणिः लक्ष्मणः अनुजगाम ह ॥३-११-१॥

तौ पश्यमानौ विविधान् शैल प्रस्थान् वनानि च ।
नदीः च विविधा रम्या जग्मतुः सह सीतया ॥३-११-२॥

सारसान् चक्रवाकां च नदी पुलिन चारिणः ।
सरांसि च सपद्मानि युतानि जलजैः खगैः ॥३-११-३॥

यूथ बद्धाम् च पृषतान् मद उन्मत्तान् विषाणिनः ।
महिषाम् च वराहाम् च गजाम् च द्रुम वैरिणः ॥३-११-४॥

ते गत्वा दूरम् अध्वानम् लंबमाने दिवाकरे ।
ददृशुः सहिता रंयम् तटाकम् योजन आयुतम् ॥३-११-५॥

पद्म पुष्कर संबाधम् गज यूथैः अलंकृतम् ।
सारसैः हंस कादम्बैः संकुलम् जल जातिभिः ॥३-११-६॥

प्रसन्न सलिले रम्ये तस्मिन् सरसि शुश्रुवे ।
गीत वादित्र निर्घोषो न तु कश्चन दृश्यते ॥३-११-७॥

ततः कौतूहलात् रामो लक्ष्मणः च महारथः ।
मुनिम् धर्मभृतम् नाम प्रष्टुम् समुपचक्रमे ॥३-११-८॥

इदम् अत्यद्भुतम् श्रुत्वा सर्वेषाम् नो महामुने ।
कौतूहलम् महत् जातम् किम् इदम् साधु कथ्यताम् ॥३-११-९॥

तेन एवम् उक्तो धर्मात्मा राघवेण मुनिः तदा ।
प्रभावम् सरसः क्षिप्रम् आख्यातुम् उपचक्रमे ॥३-११-१०॥

इदम् पंच अप्सरो नाम तटाकम् सार्व कालिकम् ।
निर्मितम् तपसा राम मुनिना माण्डकर्णिना ॥३-११-११॥

स हि तेपे तपः तीव्रम् माण्डकर्णिः महामुनिः ।
दश वर्ष सहस्राणि वायु भक्षो जलाशये ॥३-११-१२॥

ततः प्रव्यथिताः सर्वे देवाः स अग्नि पुरोगमाः ।
अब्रुवन् वचनम् सर्वे परस्पर समागताः ॥३-११-१३॥

अस्मकम् कस्यचित् स्थानम् एष प्रार्थयते मुनिः ।
इति संविग्न मनसः सर्वे तत्र दिवौकसः ॥३-११-१४॥

ततः कर्तुम् तपो विघ्नम् सर्व देवैः नियोजिताः ।
प्रधान अप्सरसः पंच विद्युत् चलित वर्चसः ॥३-११-१५॥

अप्सरोभिः ततः ताभिः मुनिः दृष्ट परावरः ।
नीतो मदन वश्यत्वम् देवानाम् कार्य सिद्धये ॥३-११-१६॥

ताः चैव अप्सरसः पंच मुनेः पत्नीत्वम् आगताः ।
तटाके निर्मितम् तासाम् तस्मिन् अन्तर्हितम् गृहम् ॥३-११-१७॥

तत्र एव अप्सरसः पंच निवसन्त्यो यथा सुखम् ।
रमयन्ति तपोयोगात् मुनिम् यौवनम् आस्थितम् ॥३-११-१८॥

तासाम् संक्रीड मानानाम् एष वादित्र निःस्वनः ।
श्रूयते भूषण उन्मिश्रः गीत शब्दः मनोहरः ॥३-११-१९॥

आश्चर्यम् इति तस्य एतद् वचनम् भावितात्मनः ।
राघवः प्रतिजग्राह सह भ्रात्रा महा यशाः ॥३-११-२०॥

एवम् कथयमानः स ददर्श आश्रम मण्डलम् ।
कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ॥३-११-२१॥

प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ।
तदा तस्मिन् स काकुत्स्थः श्रीमति आश्रम मण्डले ॥३-११-२२॥

उषित्वा स सुखम् तत्र पूर्ज्यमानो महर्षिभिः ।
जगाम च आश्रमान् तेषाम् पर्यायेण तपस्विनाम् ॥३-११-२३॥

येषाम् उषितवान् पूर्वम् सकाशे स महास्त्रवित् ।
क्वचित् परिदशान् मासान् एक संवत्सरम् क्वचित् ॥३-११-२४॥

क्वचित् च चतुरो मासान् पंच षट् च परान् क्वचित् ।
अपरत्र अधिकान् मासान् अध्यर्धम् अधिकम् क्वचित् ॥३-११-२५॥

त्रीन् मासान् अष्ट मासान् च राघवो न्यवसत् सुखम् ।
तत्र संवसतः तस्य मुनीनाम् आश्रमेषु वै ॥३-११-२६॥

रमतः च आनुकूल्येन ययुः संवत्सरा दश ।
परिसृत्य च धर्मज्ञः राघवः सह सीतया ॥३-११-२७॥

सुतीक्ष्णस्य आश्रमम् श्रीमान् पुनर् एव आजगाम ह ।
स तम् आश्रमम् आगम्य मुनिभिः परिपूजितः ॥३-११-२८॥

तत्र अपि न्यवसत् रामः कंचित् कालम् अरिन्दमः ।
अथ आश्रमस्थो विनयात् कदाचित् तम् महामुनिम् ॥३-११-२९॥

उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् ।
अस्मिन् अरण्ये भगवन् अगस्त्यो मुनिसत्तमः ॥३-११-३०॥

वसति इति मया नित्यम् कथाः कथयताम् श्रुतम् ।
न तु जानामि तम् देशम् वनस्य अस्य महत्तया ॥३-११-३१॥

कुत्र आश्रम पदम् पुण्यम् महर्षेः तस्य धीमतः ।
प्रसाद अर्थम् भगवतः सानुजः सह सीतया ॥३-११-३२॥

अगस्त्यम् अभिगच्छेयम् अभिवादयितुम् मुनिम् ।
मनोरथो महान् एष हृदि परिवर्तते ॥३-११-३३॥

यदि अहम् तम् मुनिवरम् शुश्रूषेयम् अपि स्वयम् ।
इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ॥३-११-३४॥

सुतीक्ष्णः प्रत्युवाच इदम् प्रीतो दशरथात्मजम् ।
अहम् अपि एतद् एव त्वाम् वक्तु कामः स लक्ष्मणम् ॥३-११-३५॥

अगस्त्यम् अभिगच्छ इति सीतया सह राघव ।
दिष्ट्या तु इदानीम् अर्थे अस्मिन् स्वयम् एव ब्रवीषि माम् ॥३-११-३६॥

अयम् आख्यामि ते राम यत्र अगस्त्यो महामुनिः ।
योजनानि आश्रमात् तात याहि चत्वारि वै ततः ।
दक्षिणेन महान् श्रीमान् अगस्त्य भ्रातुर् आश्रमः ॥३-११-३७॥

स्थली प्राय वनोद्देशे पिप्पली वन शोभिते ।
बहु पुष्प फले रम्ये नाना विहग नादिते ॥३-११-३८॥

पद्मिन्यो विविधाः तत्र प्रसन्न सलिल आशयाः ।
हंस कारण्डव आकीर्णाः चक्रवाक उपशोभिताः ॥३-११-३९॥

तत्र एकाम् रजनीम् व्युष्य प्रभाते राम गम्यताम् ।
दक्षिणाम् दिशम् आस्थाय वन षण्डस्य पार्श्वतः ॥३-११-४०॥

तत्र अगस्त्य आश्रम पदम् गत्वा योजनम् अन्तरम् ।
रमणीये वनोद्देशे बहु पादप शोभिते ॥३-११-४१॥

रंस्यते तत्र वैदेही लक्ष्मणः च त्वया सह ।
स हि रम्यो वनोउद्देशो बहु पादप संयुतः ॥३-११-४२॥

यदि बुद्धिः कृता द्रष्टुम् अगस्त्यम् तम् महामुनिम् ।
अद्य एव गमने बुद्धिम् रोचयस्व महामते ॥३-११-४३॥

इति रामो मुनेः श्रुत्वा सह भ्रात्रा अभिवाद्य च ।
प्रतस्थे अगस्त्यम् उद्दिश्य सानुगः सह सीतया ॥३-११-४४॥

पश्यन् वनानि चित्राणि पर्वतां च अभ्र संनिभान् ।
सरांसि सरितः चैव पथि मार्ग वश अनुगतान् ॥३-११-४५॥

सुतीक्ष्णेन उपदिष्टेन गत्वा तेन पथा सुखम् ।
इदम् परम संहृष्टो वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-११-४६॥

एतद् एव आश्रम पदम् नूनम् तस्य महात्मनः ।
अगस्त्यस्य मुनेर् भ्रातुर् दृश्यते पुण्य कर्मणः ॥३-११-४७॥

यथा हि इमे वनस्य अस्य ज्ञाताः पथि सहस्रशः ।
संनताः फल भरेण पुष्प भारेण च द्रुमाः ॥३-११-४८॥

पिप्पलीनाम् च पक्वानाम् वनाद् अस्माद् उपागतः ।
गन्धो अयम् पवन उत्क्षिप्तः सहसा कटुकोदयः ॥३-११-४९॥

तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठ संचयाः ।
लूनाः च परिदृश्यन्ते दर्भा वैदूर्य वर्चसः ॥३-११-५०॥

एतत् च वन मध्यस्थम् कृष्ण अभ्र शिखर उपमम् ।
पावकस्य आश्रमस्थस्य धूमाग्रम् संप्रदृश्यते ॥३-११-५१॥

विविक्तेषु च तीर्थेषु कृत स्नाना द्विजातयः ।
पुष्प उपहारम् कुर्वन्ति कुसुमैः स्वयम् आर्जितैः ॥३-११-५२॥

ततः सुतीक्ष्णस्य वचनम् यथा सौम्य मया श्रुतम् ।
अगस्त्यस्य आश्रमो भ्रातुर् नूनम् एष भविष्यति ॥३-११-५३॥

निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया ।
यस्य भ्रात्रा कृता इयम् दिक् शरण्या पुण्य कर्मणा ॥३-११-५४॥

इह एकदा किल क्रूरो वातापिः अपि च इल्वलः ।
भ्रातरौ सहितौ आस्ताम् ब्राह्मणघ्नौ महा असुरौ ॥३-११-५५॥

धारयन् ब्राह्मणम् रूपम् इल्वलः संस्कृतम् वदन् ।
आमंत्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः ॥३-११-५६॥

भ्रातरम् संस्कृतम् कृत्वा ततः तम् मेष रूपिणम् ।
तान् द्विजान् भोजयामास श्राद्ध दृष्टेन कर्मणा ॥३-११-५७॥

ततो भुक्तवताम् तेषाम् विप्राणाम् इल्वलो अब्रवीत् ।
वातापे निष्क्रमस्व इति स्वरेण महता वदन् ॥३-११-५८॥

ततो भ्रातुर् वचः श्रुत्वा वातापिः मेषवत् नदन् ।
भित्त्वा भित्वा शरीराणि ब्राह्मणानाम् विनिष्पतत् ॥३-११-५९॥

ब्राह्मणानाम् सहस्राणि तैः एवम् काम रूपिभिः ।
विनाशितानि संहत्य नित्यशः पिशित अशनैः ॥३-११-६०॥

अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ।
अनुभूय किल श्राद्धे भक्षितः स महा असुरः ॥३-११-६१॥

ततः संपन्नम् इति उक्त्वा दत्त्वा हस्ते अवनेजनम् ।
भ्रातरम् निष्क्रमस्व इति च इल्वलः समभाषत ॥३-११-६२॥

स तदा भाषमाणम् तु भ्रातरम् विप्र घातिनम् ।
अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनि सत्तमः ॥३-११-६३॥

कुतो निष्क्रमितुम् शक्तिर् मया जीर्णस्य रक्षसः ।
भ्रातुः ते मेष रूपस्य गतस्य यम सादनम् ॥३-११-६४॥

अथ तस्य वचः श्रुत्वा भ्रातुर् निधन संश्रितम् ।
प्रधर्षयितुम् आरेभे मुनिम् क्रोधात् निशा चरः ॥३-११-६५॥

सो अभ्यद्रवत् द्विजेंद्रम् तम् मुनिना दीप्त तेजसा ।
चक्षुषा अनल कल्पेन निर्दग्धो निधनम् गतः ॥३-११-६६॥

तस्य अयम् आश्रमो भ्रातुः तटाक वन शोभितः ।
विप्र अनुकम्पया येन कर्म इदम् दुष्करम् कृतम् ॥३-११-६७॥

एवम् कथयमानस्य तस्य सौमित्रिणा सह ।
रामस्य अस्तम् गतः सूर्यः संध्या कालो अभ्यवर्तत ॥३-११-६८॥

उपास्य पश्चिमाम् संध्याम् सह भ्रात्रा यथा विधि ।
प्रविवेश आश्रम पदम् तम् ऋषिम् च अभ्यवादयत् ॥३-११-६९॥

सम्यक् प्रतिगृहीतः तु मुनिना तेन राघवः ।
न्यवसत् ताम् निशाम् एकाम् प्राश्य मूल फलानि च ॥३-११-७०॥

तस्याम् रात्र्याम् व्यतीतायाम् उदिते रवि मण्डले ।
भ्रातरम् तम् अगस्त्यस्य आमंत्रयत राघवः ॥३-११-७१॥

अभिवादये त्वाम् भगवन् सुखम् स्म उष्यतो निशाम् ।
आमंत्रये त्वाम् गच्छामि गुरुम् ते द्रष्टुम् अग्रजम् ॥३-११-७२॥

गम्यताम् इति तेन उक्तो जगाम रघु नन्दनः ।
यथा उद्दिष्टेन मार्गेण वनम् तत् च अवलोकयन् ॥३-११-७३॥

नीवारान् पनसान् सालान् वन्जुलान् तिनिशान् तथा ।
चिरि बिल्वान् मधूकान् च बिल्वान् अथ च तिन्दुकान् ॥३-११-७४॥

पुष्पितान् पुष्पित अग्राभिर् लताभिर् उपशोभितान् ।
ददर्श रामः शतशः तत्र कान्तार पादपान् ॥३-११-७५॥

हस्ति हस्तैः विमृदितान् वानरैः उपशोभितान् ।
मत्तैः शकुनि संघैः च शतशः प्रति नादितान् ॥३-११-७६॥

ततो अब्रवीत् समीपस्थम् रामो राजीव लोचनः ।
पृष्ठतो अनुगतम् वीरम् लक्ष्मणम् लक्ष्मिवर्धनम् ॥३-११-७७॥

स्निग्ध पत्रा यथा वृक्षा यथा क्षान्ता मृग द्विजाः ।
आश्रमो न अतिदूरस्थो महर्षेर् भावित आत्मनः ॥३-११-७८॥

अगस्त्य इति विख्यातो लोके स्वेन एव कर्मणा ।
आश्रमो दृश्यते तस्य परिश्रान्त श्रम अपहः ॥३-११-७९॥

प्राज्य धूम आकुल वनः चीर माला परिष्कृतः ।
प्रशान्त मृग यूथः च नाना शकुनि नादितः ॥३-११-८०॥

निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया ।
दक्षिणा दिक् कृता येन शरण्या पुण्य कर्मणा ॥३-११-८१॥

तस्य इदम् आश्रम पदम् प्रभावाद् यस्य राक्षसैः ।
दिक् इयम् दक्षिणा त्रासाद् दृश्यते न उपभुज्यते ॥३-११-८२॥

यदा प्रभृति च आक्रान्ता दिग् इयम् पुण्य कर्मणा ।
तदा प्रभृति निर् वैराः प्रशान्ता रजनी चराः ॥३-११-८३॥

नाम्ना च इयम् भगवतो दक्षिणा दिक् प्रदक्षिणा ।
प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूर कर्मभिः ॥३-११-८४॥

मार्गम् निरोद्धुम् सततम् भास्करस्य अचल उत्तमः ।
संदेशम् पालयन् तस्य विंध्य शैलो न वर्धते ॥३-११-८५॥

अयम् दीर्घ आयुषः तस्य लोके विश्रुत कर्मणः ।
अगस्त्यस्य आश्रमः श्रीमान् विनीत मृग सेवितः ॥३-११-८६॥

एष लोक अर्चितः साधुः हिते नित्यम् रतः सताम् ।
अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति ॥३-११-८७॥

आराधयिष्यामि अत्र अहम् अगस्त्यम् तम् महामुनिम् ।
शेषम् च वन वासस्य सौम्य वत्स्यामि अहम् प्रभो ॥३-११-८८॥

अत्र देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ।
अगस्त्यम् नियत आहाराः सततम् पर्युपासते ॥३-११-८९॥

न अत्र जीवेत् मृषावादी क्रूरो वा यदि वा शठः ।
नृशंसः पाप वृत्तो वा मुनिः एष तथा विधः ॥३-११-९०॥

अत्र देवाः च यक्षाः च नागाः च पतगैः सह ।
वसन्ति नियत आहारा धर्मम् आराधयिष्णवः ॥३-११-९१॥

अत्र सिद्धा महात्मानो विमानैः सूर्य सन्निभैः ।
त्यक्त्वा देहान् नवैर् देहैः स्वर् याताः परम ऋषयः ॥३-११-९२॥

यक्षत्वम् अमरत्वम् च राज्यानि विविधानि च ।
अत्र देवाः प्रयच्छन्ति भूतैः आराधिताः शुभैः ॥३-११-९३॥

आगताः स्म आश्रम पदम् सौमित्रे प्रविश अग्रतः ।
निवेदय इह माम् प्राप्तम् ऋषये सह सीतया ॥३-११-९४॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकादशः सर्गः ॥३-११॥