रामायणम्/अरण्यकाण्डम्/सर्गः ४८

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४७ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ४९ →


श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥

एवम् ब्रुवत्याम् सीतायाम् संरब्धः परुष अक्षरम् ।
ललाटे भ्रुकुटीम् कृत्वा रावणः प्रति उवाच ह ॥३-४८-१॥

भ्राता वैश्रवणस्य अहम् सापत्नो वरवर्णिनि ।
रावणो नाम भद्रम् ते दशग्रीवः प्रतापवान् ॥३-४८-२॥

यस्य देवाः स गंधर्वाः पिशाच पतग उरगाः ।
विद्रवन्ति भयात् भीता मृत्योः इव सदा प्रजाः ॥३-४८-३॥

येन वैश्रवणो भ्राता वैमात्रः कारणांतरे ।
द्वन्द्वम् आसादितः क्रोधात् रणे विक्रम्य निर्जितः ॥३-४८-४॥

मत् भय आर्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् ।
कैलासम् पर्वत श्रेष्ठम् अध्यास्ते नर वाहनः ॥३-४८-५॥

यस्य तत् पुष्पकम् नाम विमानम् कामगम् शुभम् ।
वीर्याद् आवर्जितम् भद्रे येन यामि विहायसम् ॥३-४८-६॥

मम संजात रोषस्य मुखम् दृष्ट्वा एव मैथिलि ।
विद्रवन्ति परित्रस्ताः सुराः शक्र पुरोगमाः ॥३-४८-७॥

यत्र तिष्ठामि अहम् तत्र मारुतो वाति शन्कितः ।
तीव्र अंशुः शिशिर अंशुः च भयात् संपद्यते रविः ॥३-४८-८॥

निष्कंप पत्राः तरवो नद्यः च स्तिमित उदकाः ।
भवन्ति यत्र तत्र अहम् तिष्ठामि च चरामि च ॥३-४८-९॥

मम पारे समुद्रस्य लंका नाम पुरी शुभा ।
संपूर्णा राक्षसैः घोरैः यथा इन्द्रस्य अमरावती ॥३-४८-१०॥

प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता ।
हेम कक्ष्या पुरी रम्या वैदूर्यमय तोरणा ॥३-४८-११॥

हस्ति अश्व रथ संभाधा तूर्य नाद विनादिता ।
सर्व काम फलैः वृक्षैः संकुल उद्यान भूषिता ॥३-४८-१२॥

तत्र त्वम् वस हे सीते राजपुत्रि मया सह ।
न स्मरिष्यसि नारीणाम् मानुषीणाम् मनस्विनि ॥३-४८-१३॥

भुंजाना मानुषान् भोगान् दिव्यान् च वरवर्णिनि ।
न स्मरिष्यसि रामस्य मानुषस्य गत आयुषः ॥३-४८-१४॥

स्थापयित्वा प्रियम् पुत्रम् राज्ञा दशरथेन यः ।
मन्द वीर्यः सुतो ज्येष्ठः ततः प्रस्थापितो वनम् ॥३-४८-१५॥

तेन किम् भ्रष्ट राज्येन रामेण गत चेतसा ।
करिष्यसि विशालाक्षि तापसेन तपस्विना ॥३-४८-१६॥

सर्व राक्षस भर्तारम् कामय - कामात् - स्वयम् आगतम् ।
न मन्मथ शर आविष्टम् प्रति आख्यातुम् त्वम् अर्हसि ॥३-४८-१७॥

प्रति आख्याय हि माम् भीरु परितापम् गमिष्यसि ।
चरणेन अभिहत्य इव पुरूरवसम् ऊर्वशी ॥३-४८-१८॥

अंगुल्या न समो रामो मम युद्धे स मानुषः ।
तव भाग्येन् संप्राप्तम् भजस्व वरवर्णिनि ॥३-४८-१९॥

एवम् उक्ता तु वैदेही क्रुद्धा संरक्त लोचना ।
अब्रवीत् परुषम् वाक्यम् रहिते राक्षस अधिपम् ॥३-४८-२०॥

कथम् वैश्रवणम् देवम् सर्व देव नमस्कृतम् ।
भ्रातरम् व्यपदिश्य त्वम् अशुभम् कर्तुम् इच्छसि ॥३-४८-२१॥

अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः ।
येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४८-२२॥

अपहृत्य शचीम् भार्याम् शक्यम् इन्द्रस्य जीवितुम् ।
न हि रामस्य भार्याम् माम् अपनीय अस्ति जीवितम् ॥३-४८-२३॥

जीवेत् चिरम् वज्र धरस्य हस्तात्शचीम् प्रधृष्य अप्रतिरूप रूपाम् ।
न मा दृशीम् राक्षस धर्षयित्वापीत अमृतस्य अपि तव अस्ति मोक्षः ॥३-४८-२४॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥