रामायणम्/अरण्यकाण्डम्/सर्गः ३९
< रामायणम् | अरण्यकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ३८ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ४० → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनचत्वारिंशः सर्गः ॥३-३९॥ एवम् अस्मि तदा मुक्तः कथंचित् तेन संयुगे । इदानीम् अपि यत् वृत्तम् तत् शृउणुष्व यत् उत्तरम् ॥३-३९-१॥ राक्षाभ्याम् अहम् द्वाभ्याम् अनिर्विण्णः तथा कृतः । सहितो मृग रूपाभ्याम् प्रविष्टो दंडका वने ॥३-३९-२॥ दीप्त जिह्वो महादंष्ट्रः तीक्ष्ण शृंगो महाबलः । व्यचरन् दंडाकारण्यम् मांस भक्षो महामृगः ॥३-३९-३॥ अग्निहोत्रेषु तीर्थेषु चैत्य वृक्षेषु रावण । अत्यन्त घोरो व्यचरन् तापसान् संप्रधर्षयन् ॥३-३९-४॥ निहत्य दंडकारण्ये तापसान् धर्मचरिणः । रुधिराणि पिबन्तः तेषाम् तन् मांसानि च भक्षयन् ॥३-३९-५॥ ऋषि माअंस अशनः क्रूरः त्रासयन् वनगोचरान् । तदा रुधिर मत्तो अहम् व्यचरन् दंडका वनम् ॥३-३९-६॥ तदा अहम् दंडकारण्ये विचरन् धर्म दूषकः । आसादयम् तदा रामम् तापसम् धर्मम् आश्रितम् ॥३-३९-७॥ वैदेहि च महाभागाम् लक्ष्मणम् च महरथम् । तापसम् नियत आहारम् सर्व बूत हिते रतम् ॥३-३९-८॥ सः अहम् वन गतम् रामम् परिभूय महाबलम् । तापसो अयम् इति ज्ञात्वा पूर्व वैरम् अनुस्मरन् ॥३-३९-९॥ अभ्यधावम् सुसंक्रुद्धः तीक्ष्ण शृंगो मृग आकृतिः । जिघांसुः अकृतप्रज्ञः तम् प्रहारम् अनुस्मरन् ॥३-३९-१०॥ तेन त्यक्ताः त्रयो बाणाः शिताः शत्रु निबर्हणाः । विकृष्य सुमहत् चापम् सुपर्ण अनिल तुल्य गाः ॥३-३९-११॥ ते बाणा वज्र संकाशाः सुघोरा रक्त भोजनाः । आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः ॥३-३९-१२॥ पराक्रमज्ञो रामस्य शठो दृष्ट भयः पुरा । समुत्क्रांतः ततः मुक्तः तौ उभौ राक्षसौ हतौ ॥३-३९-१३॥ शरेण मुक्तो रामस्य कथंचित् प्राप्यजीवितम् । इह प्रव्राजितो युक्तः तापसो अहम् समाहितः ॥३-३९-१४॥ वृक्षे वृक्षे हि पश्यामि चीर कृष्ण अजिन अंबरम् । गृहीत धनुषम् रामम् पाश हस्तम् इव अंतकम् ॥३-३९-१५॥ अपि राम सहस्राणि भीतः पश्यामि रावण । राम भूतम् इदम् सर्वम् अरण्यम् प्रतिभाति मे ॥३-३९-१६॥ रामम् एव हि पश्यामि रहिते राक्षसेश्वर । दृष्ट्वा स्वप्न गतम् रामम् उद् भ्रमामि विचेतनः ॥३-३९-१७॥ र कार अदीनि नामानि राम त्रस्तस्य रवण । रत्नानि च रथाः च एव वित्रासम् जनयन्ति मे ॥३-३९-१८॥ अहम् तस्य प्रभावज्ञो न युद्धम् तेन ते क्षमम् । बलिम् वा नमुचिं वा अपि हन्यद्धि रघुनंअंदन ॥३-३९-१९॥ रणे रामेण युद्ध्स्व क्षमाम् वा कुरु रावण । न ते राम कथा कार्या यदि माम् द्रष्टुम् इच्छसि ॥३-३९-२०॥ बहवः साधवो लोके युक्ता धर्मम् अनुष्टिताः । परेषाम् अपराधेन विनष्टाः स परिच्छदाः ॥३-३९-२१॥ सः अहम् पर अपराधेन विनाशेयम् निशाचर । कुरु यत् ते क्षमम् तत् त्वम् अहम् त्वाम् न अनुयामि वै ॥३-३९-२२॥ रामः च हि महातेजा महासत्त्वो महाबलः । अपि राक्षस लोकस्य भवेत् अन्तकरो अपि हि ॥३-३९-२३॥ यदि शूर्पणखा हेतोः जनस्थान गत खरः । अति वृत्तो हतः पूर्वम् रामेण अक्लिष्ट कर्मणा । अत्र ब्रूहि यथावत् त्वम् को रामस्य व्यतिक्रमः ॥३-३९-२४॥ इदम् वचो बन्धु हित अर्थिना मयायथा उच्यमानम् यदि न अभिपत्स्यसे । स बान्धवः त्यक्ष्यसि जीवितम् रणेहतो अद्य रामेण शरैः जिह्मगैः ॥३-३९-२५॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकोनचत्वारिंशः सर्गः ॥३-३९॥स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र