रामायणम्/अरण्यकाण्डम्/सर्गः १८

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १७ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः १९ →


'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥'''

ताम् तु शूर्पणखाम् रामः काम पाश अवपाशिताम् ।
स्वच्छया श्लक्ष्णया वाचा स्मित पूर्वम् अथ अब्रवीत् ॥३-१८-१॥

कृत दारो अस्मि भवति भार्या इयम् दयिता मम ।
त्वत् विधानाम् तु नारीणाम् सुदुःखा ससपत्नता ॥३-१८-२॥

अनुजः तु एष मे भ्राता शीलवान् प्रिय दर्शनः ।
श्रीमान् अकृत दारः च लक्ष्मणो नाम वीर्यवान् ॥३-१८-३॥

अपूर्वी भार्यया च अर्थी तरुणः प्रिय दर्शनः ।
अनुरूपः च ते भर्ता रूपस्य अस्य भविष्यति ॥३-१८-४॥

एनम् भज विशालाक्षि भर्तारम् भ्रातरम् मम ।
असपत्ना वरारोहे मेरुम् अर्क प्रभा यथा ॥३-१८-५॥

इति रामेण सा प्रोक्ता राक्षसी काम मोहिता ।
विसृज्य रामम् सहसा ततो लक्ष्मणम् अब्रवीत् ॥३-१८-६॥

अस्य रूपस्य ते युक्ता भार्या अहम् वरवर्णिनी ।
मया सह सुखम् सर्वान् दण्डकान् विचरिष्यसि ॥३-१८-७॥

एवम् उक्तः तु सौमित्री राक्षस्या वाक्य कोविदः ।
ततः शूर्पणखीम् स्मित्वा लक्ष्मणो युक्तम् अब्रवीत् ॥३-१८-८॥

कथम् दासस्य मे दासी भार्या भवितुम् इच्छसि ।
सो अहम् आर्येण परवान् भ्रात्रा कमल वर्णिनी ॥३-१८-९॥

समृद्ध अर्थस्य सिद्धार्था मुदित अमल वर्णिनी ।
आर्यस्य त्वम् विशालाक्षि भार्या भव यवीयसी ॥३-१८-१०॥

एनाम् विरूपाम् असतीम् करालाम् निर्णत उदरीम् ।
भार्याम् वृद्धाम् परित्यज्य त्वाम् एव एष भजिष्यति ॥३-१८-११॥

को हि रूपम् इदम् श्रेष्ठम् संत्यज्य वरवर्णिनि ।
मानुषेषु वरारोहे कुर्यात् भावम् विचक्षणः ॥३-१८-१२॥

इति सा लक्ष्मणेन उक्ता कराला निर्णतोदरी ।
मन्यते तत् वचः सत्यम् परिहास अविचक्षणा ॥३-१८-१३॥

सा रामम् पर्णशालायाम् उपविष्टम् परंतपम् ।
सीतया सह दुर्धर्षम् अब्रवीत् काम मोहिता ॥३-१८-१४॥

इमाम् विरूपाम् असतीम् करालाम् निर्णतोदरीम् ।
वृद्धाम् भार्याम् अवष्टभ्य न माम् त्वम् बहु मन्यसे ॥३-१८-१५॥

अद्य इमाम् भक्षयिष्यामि पश्यतः तव मानुषीम् ।
त्वया सह चरिष्यामि निःसपत्ना यथा सुखम् ॥३-१८-१६॥

इति उक्त्वा मृगशावाक्षीम् अलात सदृश ईक्षणा ।
अभ्यधावत् सुसंक्रुद्धा महा उल्का रोहिणीम् इव ॥३-१८-१७॥

ताम् मृत्यु पाश प्रतिमाम् आपतंतीम् महाबलः ।
विगृह्य रामः कुपितः ततो लक्ष्मणम् अब्रवीत् ॥३-१८-१८॥

क्रूरैः अनार्यैः सौमित्रे परिहासः कथंचन ।
न कार्यः पश्य वैदेहीम् कथंचित् सौम्य जीवतीम् ॥३-१८-१९॥

इमाम् विरूपाम् असतीम् अतिमत्ताम् महोदरीम् ।
राक्षसीम् पुरुषव्याघ्र विरूपयितुम् अर्हसि ॥३-१८-२०॥

इति उक्तो लक्ष्मणः तस्याः क्रुद्धो रामस्य पश्यतः ।
उद्धृत्य खड्गम् चिच्छेद कर्ण नासम् महाबलः ॥३-१८-२१॥

निकृत्त कर्ण नासा तु विस्वरम् सा विनद्य च ।
यथा आगतम् प्रदुद्राव घोरा शूर्पणखा वनम् ॥३-१८-२२॥

सा विरूपा महाघोरा राक्षसी शोणित उक्षिता ।
ननाद विविधान् नादान् यथा प्रावृषि तोयदः ॥३-१८-२३॥

सा विक्षरंती रुधिरम् बहुधा घोर दर्शना ।
प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥३-१८-२४॥

ततः तु सा राक्षस संघ सम्वृतम् खरम् जन स्थान गतम् विरूपिता ।
उपेत्य तम् भ्रातरम् उग्र तेजसम् पपात भूमौ गगनाद् यथा अशनिः ॥३-१८-२५॥

ततः सभार्यम् भय मोह मूर्चिता सलक्ष्मणम् राघवम् आगतम् वनम् ।
विरूपणम् च आत्मनि शोणित उक्षिता शशम्स सर्वम् भगिनी खरस्य सा ॥३-१८-२६॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टादशः सर्गः ॥३-१८॥