रामायणम्/अरण्यकाण्डम्/सर्गः २८
< रामायणम् | अरण्यकाण्डम्
Jump to navigation
Jump to search
← सर्गः २७ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः २९ → |
|
निहतम् दूषणम् दृष्ट्वा रणे त्रिशिरसा सह । खरस्य अपि अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥३-२८-१॥ स दृष्ट्वा राक्षसम् सैन्यम् अविषह्यम् महाबलम् । हतम् एकेन रामेण दूषणः त्रिशिरा अपि ॥३-२८-२॥ तद् बलम् हत भूयिष्ठम् विमनाः प्रेक्ष्य राक्षसः । आससाद खरो रामम् नमुचिर् वासवम् यथा ॥३-२८-३॥ विकृष्य बलवत् चापम् नाराचान् रक्त भोजनान् । खरः चिक्षेप रामाय क्रुद्धान् आशी विषान् इव ॥३-२८-४॥ ज्याम् विधुन्वन् सुबहुशः शिक्षया अस्त्राणि दर्शयन् । चचार समरे मार्गान् शरै रथ गतः खरः ॥३-२८-५॥ स सर्वाः च दिशो बाणैः प्रदिशः च महारथः । पूरयामास तम् दृष्ट्वा रामो अपि सुमहत् धनुः ॥३-२८-६॥ स सायकैः दुर्विषहैः स स्फुलिन्गैः इव अग्निभिः । नभः चकार अविवरम् पर्जन्य इव वृष्टिभिः ॥३-२८-७॥ तद् बभूव शितैः बाणैः खर राम विसर्जितैः । परि आकाशम् अनाकाशम् सर्वतः शर संकुलम् ॥३-२८-८॥ शर जाल आवृतः सूर्यो न तदा स्म प्रकाशते । अन्योन्य वध संरम्भात् उभयोः संप्रयुध्यतोः ॥३-२८-९॥ ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः । आजघान रणे रामम् तोत्रैर् इव महा द्विपम् ॥३-२८-१०॥ तम् रथस्थम् धनुष् पाणिम् राक्षसम् पर्यवस्थितम् । ददृशुः सर्व भूतानि पाश हस्तम् इव अंतकम् ॥३-२८-११॥ हन्तारम् सर्व सैन्यस्य पौरुषे पर्यवस्थितम् । परिश्रन्तम् महासत्त्वम् मेने रामम् खरः तदा ॥३-२८-१२॥ तम् सिंहम् इव विक्रान्तम् सिंह विक्रान्त गामिनम् । दृष्ट्वा न उद्विजते रामः सिंहः क्षुद्र मृगम् यथा ॥३-२८-१३॥ ततः सूर्य निकाशेन रथेन महता खरः । आससाद अथ तम् रामम् पतंग इव पावकम् ॥३-२८-१४॥ ततो अस्य सशरम् चापम् मुष्टि देशे महात्मनः । खरः चिच्छेद रामस्य दर्शयन् हस्त लाघवम् ॥३-२८-१५॥ स पुनः तु अपरान् सप्त शरान् आदाय वर्मणि । निजघान रणे क्रुद्धः शक्र अशनि सम प्रभान् ॥३-२८-१६॥ ततः शर सहस्रेण रामम् अप्रतिम ओजसम् । अर्दयित्वा महानादम् ननाद समेरे खरः ॥३-२८-१७॥ ततः तत् प्रहतम् बाणैः खर मुक्तैः सुपर्वभिः । पपात कवचम् भूमौ रामस्य आदित्य वर्चसः ॥३-२८-१८॥ स शरैः अर्पितः क्रुद्धः सर्व गात्रेषु राघवः । रराज समरे रामो विधूमो अग्निर् इव ज्वलन् ॥३-२८-१९॥ ततो गंभीर निर्ह्रादम् रामः शत्रु निबर्हणः । चकार अंताय स रिपोः सज्यम् अन्यन् महत् धनुः ॥३-२८-२०॥ सुमहत् वैष्णवम् यत् तत् अतिसृष्टम् महर्षिणा । वरम् तत् धनुः उद्यम्य खरम् समभिधावत ॥३-२८-२१॥ ततः कनक पुंखैः तु शरैः संनत पर्वभिः । चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥३-२८-२२॥ स दर्शनीयो बहुधा विच्छिन्नः कांचनो ध्वजः । जगाम धरणीम् सूर्यो देवतानाम् इव आज्ञया ॥३-२८-२३॥ तम् चतुर्भिः खरः क्रुद्धो रामम् गात्रेषु मार्गणैः । विव्याध हृदि मर्मज्ञो मातंगम् इव तोमरैः ॥३-२८-२४॥ स रामो बहुभिः बाणैः खर कार्मुक निःसृतैः । विद्धो रुधिर सिक्तांगो बभूव रुषितो भृशम् ॥३-२८-२५॥ स धनुर् धन्विनाम् श्रेष्ठः प्रगृह्य परम आहवे । मुमोच परम इष्वासः षट् शरान् अभिलक्षितान् ॥३-२८-२६॥ शिरसि एकेन बाणेन द्वाभ्याम् बाह्वोर् अथ आर्पयत् । त्रिभिः चन्द्र अर्ध वक्त्रैः च वक्षसि अभिजघान ह ॥३-२८-२७॥ ततः पश्चात् महातेजा नाराचान् भास्कर उपमान् । जघान राक्षसम् क्रुद्धः त्रयोदश शिला अशितान् ॥३-२८-२८॥ रथस्य युगम् एकेन चतुर्भिः शबलान् हयान् । षष्ठेन च शिरः संख्ये चिच्छेद खर सारथेः ॥३-२८-२९॥ त्रिभिः त्रिवेणून् बलवान् द्वाभ्याम् अक्षम् महाबलः । द्वादशेन तु बाणेन खरस्य स शरम् धनुः ॥३-२८-३०॥ छित्त्वा वज्र निकाशेन राघवः प्रहसन् इव । त्रयोदशेन इन्द्र समो बिभेद समरे खरम् ॥३-२८-३१॥ प्रभग्न धन्वा विरथो हत अश्वो हत सारथिः । गदा पाणिः अवप्लुत्य तस्थौ भूमौ खरः तदा ॥३-२८-३२॥ तत् कर्म रामस्य महारथस्यसमेत्य देवाः च महर्षयः च । अपूजयन् प्रांजलयः प्रहृष्टाःतदा विमान अग्र गताः समेताः ॥३-२८-३३॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥