रामायणम्/अरण्यकाण्डम्/सर्गः २६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २५ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः २७ →


दूषणः तु स्वकम् सैन्यम् हन्यमानम् विलोक्य च ।
संदिदेश महाबाहुः भीम वेगान् निशाचरान् ॥३-२६-१॥

राक्षसान् पंच साहस्रान् समरेषु अनिवर्तिनः ।
ते शूलैः पट्टिशैः कदगैः शिला वरषैः द्रुमैः ॥३-२६-२॥

शर वर्षैः विच्छिन्नम् ववर्षुः तम् समन्ततः ।
तत् द्रुमाणाम् शिलानाम् च वर्षम् प्राण हरम् महत् ॥३-२६-३॥

प्रतिजग्राह धर्मात्मा राघवः तीक्ष्ण सायकैः ।
प्रतिगृह्य च तद् वर्षम् निमीलित इव ऋषभः ॥३-२६-४॥

रामः क्रोधम् परम् लेभे वध अर्थम् सर्व रक्षसाम् ।
ततः क्रोध समाविष्टः प्रदीप्त इव तेजसा ॥३-२६-५॥

शरैः अभ्यकिरत् सैन्यम् सर्वतः सह दूषणम् ।
ततः सेना पतिः क्रुद्धो दूषणः शत्रु दूषणः ॥३-२६-६॥

शरैः अशनि कल्पैः तम् राघवम् समवारयत् ।
ततो रामः संक्रुद्धः क्षुरेण अस्य महत् धनुः ॥३-२६-७॥

चिच्छेद समरे वीरः चतुर्भिः चतुरो हयान् ।
हत्वा च अश्वान् शरैः तीक्ष्णैः अर्थ चन्द्रेण सारथे ॥३-२६-८॥

शिरो जहार तद् रक्षः त्रिभिर् विव्याध वक्षसि ।
स च्छिन्न धन्वा विरथो हत अश्वो हत सारथिः ॥३-२६-९॥

जग्राह गिरि शृंग आभम् परिघम् रोम हर्षणम् ।
वेष्टितम् कांचनैः पट्टैः देव सैन्य अभिमर्दनम् ॥३-२६-१०॥

आयसैः शंकुभिः तीक्ष्णैः कीर्णम् पर वसा उक्षिताम् ।
वज्र अशनि सम स्पर्शम् पर गोपुर दारणम् ॥३-२६-११॥

तम् महा उरग संकाशम् प्रगृह्य परिघम् रणे ।
दूषणो अभ्यपतत् रामम् क्रूर कर्मा निशाचरः ॥३-२६-१२॥

तस्य अभिपतमानस्य दूषणस्य स राघवः ।
द्वाभ्याम् शराभ्याम् चिच्छेद स हस्त आभरणौ भुजौ ॥३-२६-१३॥

भ्रष्टः तस्य महाकायः पपात रण मूर्धनि ।
परिघः छिन्न हस्तस्य शक्र ध्वज इव अग्रतः ॥३-२६-१४॥

कराभ्याम् च विकीर्णाभ्याम् पपात भुवि दूषणः ।
विषाणाभ्याम् विशीर्णाभ्याम् मनस्वी इव महागजः ॥३-२६-१५॥

दृष्ट्वा तम् पतितम् भूमौ दूषणम् निहतम् रणे ।
साधु साधु इति काकुत्स्थम् सर्व भूतानि अपूजयन् ॥३-२६-१६॥

एतस्मिन् अन्तरे क्रुद्धाः त्रयः सेना अग्र यायिनः ।
संहत्य अभ्यद्रवन् रामम् मृत्यु पाश अवपाशिताः ॥३-२६-१७॥

महाकपालः स्थूलाक्षः प्रमाथी च महाबलः ।
महाकपालो विपुलम् शूलम् उद्यम्य राक्षसः ॥३-२६-१८॥

स्थूलाक्षः पट्टिशम् गृह्य प्रमाथी च परश्वधम् ।
दृष्ट्वा एव आपततः ताम् तु राघवः सायकैः शितैः ॥३-२६-१९॥

तीक्ष्ण अग्रैः प्रतिजग्राह संप्राप्तान् अतिथीन् इव ।
महाकपालस्य शिरः चिच्छेद रघुनंदनः ॥३-२६-२०॥

असंख्येयैः तु बाण ओघैः प्रममाथ प्रमाथिनम् ।
स्थूलाक्षस्य अक्षिणी स्थूले पूरयामास सायकैः ॥३-२६-२१॥

स पपात हतो भूमौ विटपी इव महाद्रुमः ।
दूषणस्य अनुगान् पंच सहस्रान् कुपितः क्षणात् ॥३-२६-२२॥

हत्वा तु पंच सहस्रान् अनयत् यम सदनम् ।
दूषणम् निहतम् श्रुत्वा तस्य च एव पदानुगान् ॥३-२६-२३॥

व्यादिदेश खरः क्रुद्धो सेन अध्यक्षान् महाबलान् ।
अयम् विनिहतः संख्ये दूषणः स पदानुगाः ॥३-२६-२४॥

महत्या सेनया सार्धम् युद्ध्वा रामम् कुमानुषम् ।
शस्त्रैः नाना विध अकारैः हनध्वम् सर्व राक्षसाः ॥३-२६-२५॥

एवम् उक्त्वा खरः क्रुद्धो रामम् एव अभि दुद्रुवे ।
श्येनगामी पृथुग्रीवो यज्ञशत्रुर् विहंगमः ॥३-२६-२६॥

दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।
हेममाली महामाली सर्पस्यो रुधिराशनः ॥३-२६-२७॥

द्वादश एते महावीर्या बल अध्यक्षाः ।
स सैनिकाःरमम् एव अभ्यधावंत विसृजंतः शरोत्तमान् ॥३-२६-२८॥

ततः पावक संकाशैः हेम वज्र विभूषितैः ।
जघन शेषम् तेजस्वी तस्य सैन्यस्य सायकैः ॥३-२६-२९॥

ते रुक्म पुंखा विशिखाः स धूमा इव पावकाः ।
निजघ्नुः तानि रक्षांसि वज्रा इव महाद्रुमान् ॥३-२६-३०॥

रक्षसाम् तु शतम् रामः शतेन एकेन कर्णिना ।
सहस्रम् तु सहस्रेण जघान रण मूर्धनि ॥३-२६-३१॥

तैः भिन्न वर्म आभरणाः छिन्न भिन्न शर आसनाः ।
निपेतुः शोणित आदिग्धा धरण्याम् रजनीचराः ॥३-२६-३२॥

तैः मुक्त केशैः समरे पतितैः शोणित उक्षितैः ।
विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैः इव ॥३-२६-३३॥

तत् क्षणे तु महा घोरम् वनम् निहत राक्षसम् ।
बभूव निरय प्रख्यम् मांस शोणित कर्दमम् ॥३-२६-३४॥

चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।
हतानि एकेन रामेण मानुषेण पदातिना ॥३-२६-३५॥

तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।
राक्षसः त्रिशिराः चैव रामः च रिपुसूदनः ॥३-२६-३६॥

शेषा हता महावीर्या राक्षसा रण मूर्धनि ।
घोरा दुर्विषहाः सर्वे लक्ष्मणस्य अग्रजेन ॥३-२६-३७॥

ततः तु तद् भीम बलम् महा आहवेसमीक्ष्य रामेण हतम् बलीयसा ।
रथेन रामम् महता खरः ततःसमाससाद इन्द्र इव उद्यत अशनिः ॥३-२६-३८॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षड्विंशः सर्गः ॥३-२६॥