रामायणम्/अरण्यकाण्डम्/सर्गः ४
< रामायणम् | अरण्यकाण्डम्
Jump to navigation
Jump to search
← सर्गः ३ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ५ → |
|
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्थः सर्गः ॥३-४॥''' ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ । उच्चैः स्वरेण चुक्रोश प्रगृह्य सु महाभुजौ ॥३-४-१॥ एष दाशरथी रामः सत्यवान् शीलवान् शुचिः । रक्षसा रौद्र रूपेण ह्रियते सह लक्ष्मणः ॥३-४-२॥ माम् ऋका भक्ष इष्यन्ति शार्दूल द्वीपिनः तथा । माम् हरः उत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तमः ॥३-४-३॥ तस्याः तत् वचनम् श्रुत्वा वैदेह्याः राम लक्ष्मणौ । वेगम् प्रचक्रतुर् वीरौ वधे तस्य दुरात्मनः ॥३-४-४॥ तस्य रौद्रस्य सोउमित्रिः सव्यम् बाहुम् बभञ्ज ह । रामः तु दक्षिणम् बाहुम् तरसा तस्य रक्षसः ॥३-४-५॥ सः भग्न बहुः संविग्नः पपात आशु विमूर्छितः । धरण्याम् मेघ संकाशो वज्र भिन्न इव अचलः ॥३-४-६॥ मुष्टिभिर् बाहुभिर् पद्भिः सूदयन्तौ तु राक्षसम् । उद्यम्योद्यम्य च अपि एनम् स्थण्डिले निष्पिपेषतुः ॥३-४-७॥ स विद्धो बहुभिर् बाणैः खड्गाभ्याम् च परिक्षतः । निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥३-४-८॥ तम् प्रेक्ष्य रामः सुभृशम् अवध्यम् अचल उपमम् । भयेषु अभय दः श्रीमान् इदम् वचनम् अब्रवीत् ॥३-४-९॥ तपसा पुरुषव्याघ्र राक्षसोऽयम् न शक्यते । शस्त्रेण युधि निर्जेतुम् राक्षसम् निखनावहे ॥३-४-१०॥ कुंजर्स्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण! । वने अस्मिन् सुमहद् श्वभ्रम् खन्यताम् रौद्रवर्चसः ॥३-४-११॥ इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति । तस्थौ विराधम् आक्र्म्य कण्ठे पादेन वीर्यवान् ॥३-४-१२॥ तत् श्रुत्वा राघवेण उक्तम् राक्षसः प्रश्रितम् वचः । इदम् प्रोवाच काकुत्स्थम् विराधः पुरुषर्षभम् ॥३-४-१३॥ हतोऽहम् पुरुषव्याघ्रः शक्र तुल्य बलेन वै । मया तु पूर्वम् त्वम् मोहान् न ज्ञातः पुरुषर्षभः ॥३-४-१४॥ कौसल्या सुप्रजातः तात रामः त्वम् विदितो मया । वैदेही च महाभागा लक्ष्मणः च महायशाः ॥३-४-१५॥ अभि शापाद् अहम् घोरम् प्रविष्टो राक्ष्सीम् तनुम् । तुंबुरुः नाम गन्धर्वः शप्तो वैश्रवणेन हि ॥३-४-१६॥ प्रसाद्यमानः च मया सोऽब्रवीत् माम् महायशाः । यदा दाशरथी रमः त्वाम् वधिष्यति संयुगे ॥३-४-१७॥ तदा प्रकृतिम् आपन्नो भवान् स्वर्गम् गमिष्यति । अनुपस्थीयमानो माम् स क्रुद्धो व्याजहार ह ॥३-४-१८॥ इति वैश्रवणो राजा रंभ आसक्तम् उवाच ह । तव प्रसादान् मुक्तो अहम् अभिशापात् सु दारुणात् ॥३-४-१९॥ भुवनम् स्वम् गमिष्यामि स्वस्ति वोऽस्तु परंतप । इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥३-४-२०॥ अध्यर्थ योजने तातः महर्षिः सूर्य संनिभः । तम् क्षिप्रम् अभिगच्छ त्वम् स ते श्रेयो अभिधास्यति ॥३-४-२१॥ अवटे च अपि माम् राम निक्षिप्य कुशली व्रज । रक्षसाम् गत सत्त्वानाम् एष धर्मः सनातनः ॥३-४-२२॥ अवटे ये निधीयन्ते तेषाम् लोकाः सनातनाः । एवम् उक्त्वा तु काकुत्स्थम् विराधः शर पीडितः ॥३-४-२३॥ बभूव स्वर्ग संप्राप्तो न्यस्त देहो महाबलः । तत् श्रुत्वा राघवः वाक्यम् लक्ष्मणम् व्यादिदेश ह ॥३-४-२४॥ कुंजर्स्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण! । वने अस्मिन् सुमहत् श्वभ्रम् खन्यताम् रौद्रकर्मणः॥३-४-२५॥ इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति । तस्थौ विराधम् आक्रम्य कण्ठे पादेन वीर्यवान् ॥३-४-२६॥ ततः खनित्रम् आदाय लक्ष्मणः श्वभ्रम् उत्तमम् । अखनत् पार्श्वतः तस्य विराधस्य महात्मनः ॥३-४-२७॥ तम् मुक्त कण्ठम् उत्क्षिप्य शङ्कु कर्णम् महास्वनम् । विराधम् प्राक्षिपत् श्वभ्रे नदन्तम् भैरव स्वनम् ॥३-४-२८॥ तम् आहवे दारुणम् आशु विक्रमौस्थिरौ उभौ संयति राम लक्ष्मणौ । मुदान्वितौ चिक्षिपतुर् भयावहम्नदन्तम् उत्क्षिप्य बिलेन राक्ष्सम् ॥३-४-२९॥ अवध्यताम् प्रेक्ष्य महासुरस्य तौशितेन शस्त्रेण तदा नरर्षभौ । समर्थ्य च अत्यर्थ विशारदौ उभौबिले विरधस्य वधम् प्रचक्रतुः ॥३-४-३०॥ स्वयम् विराधेन हि मृत्युम् आत्मनःप्रसह्य रामेण वधार्थम् ईप्सितः । निवेदितः कानन चारिणा स्वयम्न मे वधः शस्त्र कृतो भवेत् इति ॥३-४-३१॥ तदेव रामेण निशम्य भाषितम्कृता मतिः तस्य बिल प्रवेशने । बिलम् च तेन अति बलेन रक्षसाप्रवेश्यमानेन वनम् विनादितम् ॥३-४-३२॥ प्रहृष्ट रूपौ इव राम लक्ष्मणौविराधम् उर्व्याम् प्रदरे निपात्य तम् । ननन्दतुः वीत भयौ महावनेशिलाभिः अन्तर् दधतुः च राक्षसम् ॥३-४-३३॥ ततः तु तौ कांचन चित्र कार्मुकौनिहत्य रक्षः परिगृह्य मैथिलीम् । विजह्रतुः तौ मुदितौ महावनेदिवि स्थितौ चन्द्र दिवाकरौ इव ॥३-४-३४॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुर्थः सर्गः ॥३-४॥