रामायणम्/अरण्यकाण्डम्/सर्गः ५५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५४ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ५६ →


श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥३-५५॥

संदिश्य राक्षसान् घोरान् रावणो अष्टौ महाबलान् ।
आत्मानम् बुद्धि वैक्लव्यात् कृत कृत्यम् अमन्यत ॥३-५५-१॥

स चिंतयानो वैदेहीम् काम बाण संप्रपीडितः ।
प्रविवेश गृहम् रम्यम् सीताम् द्रष्टुम् अभित्वरन् ॥३-५५-२॥

स प्रविश्य तु तत् वेश्म रावणो राक्षस अधिपः ।
अपश्यत् राक्षसी मध्ये सीताम् दुःख परायणम् ॥३-५५-३॥

अश्रु पूर्ण मुखीम् दीनाम् शोक भार अवपीडिताम् ।
वायु वेगैः इव आक्रांताम् मज्जन्तीम् नावम् अर्णवे ॥३-५५-४॥
मृग यूथ परिभ्रष्टाम् मृगीम् श्वभिः इव आवृताम् ।
अधोगत मुखीम् सीताम् ताम् अभ्येत्य  निशाचरः ॥३-५५-५॥
ताम् तु शोक वशात् दीनाम् अवशाम् राक्षस अधिपः ।
स बलात् दर्शयामास गृहम् देव गृह उपमम् ॥३-५५-६॥

हर्म्य प्रासाद संबधम् स्त्री सहस्र निषेवितम् ।
नाना पक्षि गणैः जुष्टम् नाना रत्न समन्वितम् ॥३-५५-७॥
दान्तकैः तापनीयैः च स्फाटिकै राजतैः तथा ।
वज्र वैदूर्य चित्रैः च स्तम्भैः दृष्टि मनोरमैः ॥३-५५-८॥
दिव्य दुन्दुभि निर्घोषम् तप्त कांचन भूषणम् ।

सोपानम् कांचनम् चित्रम् आरुरोह तया सह ॥३-५५-९॥
दान्तका राजताः चैव गवाक्षाः प्रिय दर्शनाः ।
हेम जाला आवृताः च आसन् तत्र प्रासाद पंक्तयः ॥३-५५-१०॥

सुधा मणि विचित्राणि भूमि भागानि सर्वशः ।
दशग्रीवः स्व भवने प्रादर्शयत मैथिलीम् ॥३-५५-११॥

दीर्घिकाः पुष्करिण्यः च नाना पुष्प समावृताः ।
रावणो दर्शयामास सीताम् शोक परायणाम् ॥३-५५-१२॥

दर्शयित्वा तु वैदेहीम् कृत्स्नम् तत् भवन उत्तमम् ।
उवाच वाक्यम् पापात्मा सीताम् लोभितुम् इच्छया ॥३-५५-१३॥

दश राक्षस कोट्यः च द्वाविंशतिः अथ अपराः ।
वर्जयित्वा जरा वृद्धान् बालान् च रजनीचरान् ॥३-५५-१४॥
तेषाम् प्रभुः अहम् सीते सर्वेषाम् भीम कर्मणाम् ।

सहस्रम् एकम् एकस्य मम कार्य पुरःसरम् ॥३-५५-१५॥
यत् इदम् राज्य तंत्रम् मे त्वयि सर्वम् प्रतिष्ठितम् ।
जीवितम् च विशालाक्षि त्वम् मे प्राणैः गरीयसी ॥३-५५-१६॥

बह्वीनाम् उत्तम स्त्रीणाम् मम यो असौ परिग्रहः ।
तासाम् त्वम् ईश्वरी सीते मम भार्या भव प्रिये ॥३-५५-१७॥

साधु किम् ते अन्यया बुद्ध्या रोचयस्व वचो मम ।
भजस्व मा अभितप्तस्य प्रसादम् कर्तुम् अर्हसि ॥३-५५-१८॥

परिक्षिप्ता समुद्रेण लंका इयम् शत योजना ।
न इयम् धर्षयितुम् शक्या स इन्द्रैः अपि सुर असुरैः ॥३-५५-१९॥

न देवेषु न यक्षेषु न गंधर्वेषु न ऋषिषु ।
अहम् पश्यामि लोकेषु यो मे वीर्य समो भवेत् ॥३-५५-२०॥

राज्य भ्रष्टेन दीनेन तापसेन पदातिना ।
किम् करिष्यसि रामेण मानुषेण अल्प तेजसा ॥३-५५-२१॥

भजस्व सीते माम् एव भर्ता अहम् सदृशः तव ।
यौवनम् हि अध्रुवम् भीरु रमस्व इह मया सह ॥३-५५-२२॥

दर्शने मा कृथाः बुद्धिम् राघवस्य वरानने ।
का अस्य शक्तिः इह आगंतुम् अपि सीते मनोरथैः ॥३-५५-२३॥

न शक्यो वायुः आकाशे पाशैः बद्धम् महाजवः ।
दीप्यमानस्य वा अपि अग्नेः ग्रहीतुम् विमलाम् शिखाम् ॥३-५५-२४॥

त्रयाणाम् अपि लोकानाम् न तम् पश्यामि शोभने ।
विक्रमेण नयेत् यः त्वाम् मत् बाहु परिपालिताम् ॥३-५५-२५॥

लंकायाम् सुमहत् राज्यम् इदम् त्वम् अनुपालय ।
त्वत् प्रेष्या मत् विधा चैव देवाः च अपि चर अचरम् ॥३-५५-२६॥

अभिषेक उदक क्लिन्ना तुष्टा च रमयस्व माम् ।
दुष्कृतम् यत् पुरा कर्म वन वासेन तद् गतम् ॥३-५५-२७॥
यत् च ते सुकृतो धर्मः तस्य इह फलम् आप्नुहि ।

इह सर्वाणि माल्यानि दिव्य गंधानि मैथिलि ॥३-५५-२८॥
भूषणानि च मुख्यानि तानि सेव मया सह ।

पुष्पकम् नाम सुश्रोणि भ्रातुः वैश्रवणस्य मे ॥३-५५-२९॥
विमानम् सूर्य संकाशम् तरसा निर्जितम् रणे ।

विशालम् रमणीयम् च तत् विमानम् मनो जवम् ॥३-५५-३०॥
तत्र सीते मया सार्धम् विहरस्व यथा सुखम् ।

वदनम् पद्म संकाशम् विमलम् चारु दर्शनम् ॥३-५५-३१॥
शोक आर्तम् तु वरारोहे न भ्राजति वर आनने ।

एवम् वदति तस्मिन् सा वस्त्र अन्तेन वर अंगना ॥३-५५-३२॥
पिधाय इन्दु निभम् सीता मंदम् अश्रून् अवर्तयत् ।

ध्यायन्तीम् ताम् इव अस्वस्थाम् सीताम् चिंता हत प्रभाम् ॥३-५५-३३॥
उवाच वचनम् वीरो रावणो रजनी चरः ।

अलम् व्रीडेन वैदेहि धर्म लोप कृतेन ते ॥३-५५-३४॥
आर्षो अयम् देवि निष्यन्दो यः त्वाम् अभिगमिष्यति ।

एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥३-५५-३५॥
प्रसादम् कुरु मे क्षिप्रम् वश्यो दासो अहम् अस्मि ते ।

इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ॥३-५५-३६॥
न च अपि रावणः कांचित् मूर्ध्ना स्त्रीम् प्रणमेत ह ।

एवम् उक्त्वा दशग्रीवो मैथिलीम् जनक आत्मजाम् ।
कृत अन्त वशम् आपन्नो मम इयम् इति मन्यते ॥३-५५-३७॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥३-५५॥

संबंधित कड़ियाँ[सम्पाद्यताम्]