रामायणम्/अरण्यकाण्डम्/सर्गः ६५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६४ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ६६ →



श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चषष्ठितमः सर्गः ॥३-६५॥

तप्यमानम् तथा रामम् सीता हरण कर्शितम् ।
लोकानाम् अभवे युक्तम् सांवर्तकम् इव अनलम् ॥३-६५-१॥
वीक्षमाणम् धनुः सज्यम् निःश्वसंतम् पुनः पुनः ।
दग्धु कामम् जगत् सर्वम् युग अन्ते च यथा हरम् ॥३-६५-२॥
अदृष्ट पूर्वम् संक्रुद्धम् दृष्ट्वा रामम् स लक्ष्मणः ।
अब्रवीत् प्रांजलिः वाक्यम् मुखेन परिशुष्यता ॥३-६५-३॥

पुरा भूत्वा मृदुः दांतः सर्व भूत हिते रतः ।
न क्रोध वशम् आपन्नः प्रकृतिम् हातुम् अर्हसि ॥३-६५-४॥

चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिः वायौ भुवि क्षमा ।
एतत् च नियतम् सर्वम् त्वयि च अनुत्तमम् यशः ॥३-६५-५॥

एकस्य न अपराधेन लोकान् हन्तुम् त्वम् अर्हसि ।
न तु जानामि कस्य अयम् भग्नः सांग्रामिको रथः ॥३-६५-६॥
केन वा कस्य वा हेतोः स आयुधः स परिच्छदः ।

खुर नेमि क्षतः च अयम् सिक्तो रुधिर बिन्दुभिः ॥३-६५-७॥
देशो निवृत्त संग्रामः सु घोरः पार्थिव आत्मज ।

एकस्य तु विमर्दो अयम् न द्वयोः वदताम् वर ॥३-६५-८॥
न हि वृत्तम् हि पश्यामि बलस्य महतः पदम् ।

न एकस्य तु कृते लोकान् विनाशयितुम् अर्हसि ॥३-६५-९॥
युक्त दण्डा हि मृदवः प्रशान्ता वसुधा अधिपाः ।

सदा त्वम् सर्व भूतानाम् शरण्यः परमा गतिः ॥३-६५-१०॥
को नु दार प्रणाशम् ते साधु मन्येत राघव ।

सरितः सागराः शैला देव गन्धर्व दानवाः ॥३-६५-११॥
न अलम् ते विप्रियम् कर्तुम् दीक्षितस्य इव साधवः ।

येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि ॥३-६५-१२॥
मद् द्वितीयो धनुष् पाणिः सहायैः परम ऋषिभिः ।

समुद्रम् च विचेष्यामः पर्वतान् च वनानि च ॥३-६५-१३॥
गुहाः च विविधा घोरा पद्मिन्यो विविधाः थथा ।

देव गन्धर्व लोकान् च विचेष्यामः समाहिताः ॥३-६५-१४॥
यावत् न अधिगमिष्यामः तव भार्या अपहारिणम् ।

न चेत् साम्ना प्रदास्यन्ति पत्नीम् ते त्रिदश ईश्वराः ।
कोसल इन्द्र ततः पश्चात् प्राप्त कालम् करिष्यसि ॥३-६५-१५॥

शीलेन साम्ना विनयेन सीताम्
नयेन न प्राप्स्यसि चेत् नरेन्द्र ।
ततः समुत्सादय हेम पुंखैः
महेन्द्र वज्र प्रतिमैः शर ओघैः ॥३-६५-१६॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चषष्ठितमः सर्गः ॥३-६५॥