रामायणम्/अरण्यकाण्डम्/सर्गः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १२ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः १४ →




'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोदशः सर्गः ॥३-१३॥'''


राम प्रीतो अस्मि भद्रम् ते परितुष्टो अस्मि लक्ष्मण ।
अभिवादयितुम् यन् माम् प्राप्तौ स्थः सह सीतया ॥३-१३-१॥

अध्व श्रमेण वाम् खेदो बाधते प्रचुर श्रमः ।
व्यक्तम् उत्कण्ठते वा अपि मैथिली जनक आत्मजा ॥३-१३-२॥

एषा च सुकुमारी च खेदैः च न विमानिता ।
प्राअज्य दोषम् वनम् प्रप्ता भर्तृ स्नेह प्रचोदिता ॥३-१३-३॥

यथा एषा रमते राम इह सीता तथा कुरु ।
दुष्करम् कृतवती एषा वने त्वाम् अभिगच्छती ॥३-१३-४॥

एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे रघुनंदन ।
समस्थम् अनुरंजंते विषमस्थम् त्यजन्ति च ॥३-१३-५॥

शत ह्रदानाम् लोलत्वम् शस्त्राणाम् तीक्ष्णताम् तथा ।
गरुड अनिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः ॥३-१३-६॥

इयम् तु भवतो भार्या दोषैर् एतैर् विवर्जिताः ।
श्लाघ्या च व्यपदेश्या च यथा देवी हि अरुन्धती ॥३-१३-७॥

अलंकृतो अयम् देशः च यत्र सौमित्रिणा सह ।
वैदेह्या च अनया राम वत्स्यसि त्वम् अरिंदम ॥३-१३-८॥

एवम् उक्तः तु मुनिना राघवः संयत अंजलिः ।
उवाच प्रश्रितम् वाक्यम् ऋषिम् दीप्तम् इव अनलम् ॥३-१३-९॥

धन्योस्मि अनुगृहीतोस्मि यस्य मे मुनि पुंगवः ।
गुणैः सभ्रातृ भार्यस्य गुरुः नः परितुष्यति ॥३-१३-१०॥

किन्तु व्यादिश मे देशम् स उदकम् बहु काननम् ।
यत्र आश्रम पदम् कृत्वा वसेयम् निरतः सुखम् ॥३-१३-११॥

ततो अब्रवीत् मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् ।
ध्यात्वा मुहूर्तम् धर्मात्मा धीरो धीरतरम् वचः ॥३-१३-१२॥

इतो द्वि योजने तात बहु मूल फल उदकः ।
देशो बहु मृगः श्रीमान् पंचवटि अभिविश्रुतः ॥३-१३-१३॥

तत्र गत्वा आश्रम पदम् कृत्वा सौमित्रिणा सह ।
रमस्व त्वम् पितुर् वाक्यम् यथा उक्तम् अनुपालयन् ॥३-१३-१४॥

विदितो हि एष वृत्तांतो मम सर्वः तव अनघ ।
तपसः च प्रभावेण स्नेहाद् दशरथस्य च ॥३-१३-१५॥

हृदयस्थः च ते छन्दो विज्ञातः तपसा मया ।
इह वासम् प्रतिज्ञाय मया सह तपो वने ॥३-१३-१६॥

अतः च त्वाम् अहम् ब्रूमि गच्छ पंचवटीम् इति ।
स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ॥३-१३-१७॥

स देशः श्लाघनीयः च न अतिदूरे च राघव ।
गोदावर्याः समीपे च मैथिली तत्र रंस्यते ॥३-१३-१८॥

प्राज्य मूल फलैः चैव नाना द्विज गणैर् युतः ।
विविक्तः च महाबाहो पुण्यो रम्यः तथैव च ॥३-१३-१९॥

भवान् अपि सदाचारः च शक्तः च परिरक्षणे ।
अपि च अत्र वसन् राम तापसान् पालयिष्यसि ॥३-१३-२०॥

एतत् आलक्ष्यते वीर मधूकानाम् महत् वनम् ।
उत्तरेण अस्य गंतव्यम् न्यग्रोधम् अपि गच्छता ॥३-१३-२१॥

ततः स्थलम् उपारुह्य पर्वतस्य अविदूरतः ।
ख्यातः पंचवटी इति एव नित्य पुष्पित काननः ॥३-१३-२२॥

अगस्त्येन एवम् उक्तः तु रामः सौमित्रिणा सह ।
सत्कृत्य आमंत्रयामास तम् ऋषिम् सत्य वादिनम् ॥३-१३-२३॥

तौ तु तेन अभ्यनुज्ञातौ कृत पाद अभिवन्दनौ ।
तम् आश्रमम् पंचवटीम् जग्मतुः सह सीतया ॥३-१३-२४॥

गृहीत चापौ तु नराधिप आत्मजौ<br>
विषक्त तूणी समरेषु अकातरौ ।
यथा उपदिष्टेन पथा महर्षिणा ।
प्रजग्मतुः पंचवटीम् समाहितौ ॥३-१३-२५॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रयोदशः सर्गः ॥३-१३॥