रामायणम्/अरण्यकाण्डम्/सर्गः १५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १४ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः १६ →



'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥'''


ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् ।
उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-१५-१॥

आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् ।
अयम् पंचवटी देशः सौम्य पुष्पित काननः ॥३-१५-२॥

सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि ।
आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः ॥३-१५-३॥

रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण ।
तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः ॥३-१५-४॥

वन रामण्यकम् यत्र जल रामण्यकम् तथा ।
संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम् ॥३-१५-५॥

एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः ।
सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत् ॥३-१५-६॥

परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते ।
स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद ॥३-१५-७॥

सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः ।
विमृशन् रोचयामास देशम् सर्व गुण अन्वितम् ॥३-१५-८॥

स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि ।
हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥३-१५-९॥

अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः ।
इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि ॥३-१५-१०॥

इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः ।
अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता ॥३-१५-११॥

यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना ।
इयम् गोदावरी रम्या पुष्पितैः तरुभिर् वृता ॥३-१५-१२॥

हंस कारण्डव आकीर्णा चक्रवाक उपशोभिता ।
न अतिदूरे न च आसन्ने मृग यूथ निपीडिता ॥३-१५-१३॥

मयूर नादिता रम्याः प्रांशवो बहु कंदराः ।
दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिर् आवृताः ॥३-१५-१४॥

सौवर्णै राजतैः ताम्रैः देशे देशे च धातुभिः ।
गवाक्षिता इव आभान्ति गजाः परम भक्तिभिः ॥३-१५-१५॥

सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः ।
नीवारैः तिनिशैः चैव पुन्नागैः च उपशोभिताः ॥३-१५-१६॥

चूतैर् अशोकैः तिलकैः केतकैर् अपि चंपकैः  ।
पुष्प गुल्म लता उपेतैः तैः तैः तरुभिर् आवृताः ॥३-१५-१७॥

स्यन्दनैः चंदनैः  नीपैः पर्णासैः लकुचैः अपि ।
धव अश्वकर्ण खदिरैः शमी किंशुक पाटलैः ॥३-१५-१८॥

इदम् पुण्यम् इदम् रम्यम् इदम् बहु मृग द्विजम् ।
इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा ॥३-१५-१९॥

एवम् उक्तः तु रामेण लक्ष्मणः परवीरहा ।
अचिरेण आश्रमम् भ्रातुः चकार सुमहाबलः ॥३-१५-२०॥

पर्णशालाम् सुविपुलाम् तत्र संघात मृत्तिकाम् ।
सुस्तंभाम् मस्करैर् दीर्घैः कृत वंशाम् सुशोभनाम् ॥३-१५-२१॥

शमी शाखाभिः आस्तीर्य धृढ पाशावपाशितम् ।
कुश काश शरैः पर्णैः सुपरिच्छादिताम् तथा ॥३-१५-२२॥

समीकृत तलाम् रम्याम् चकार सुमहाबलः ।
निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम् ॥३-१५-२३॥

स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा ।
स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः ॥३-१५-२४॥

ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि ।
दर्शयामास रामाय तद् आश्रम पदम् कृतम् ॥३-१५-२५॥

स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया ।
राघवः पर्णशालायाम् हर्षम् आहारयत् परम् ॥३-१५-२६॥

सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा ।
अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत् ॥३-१५-२७॥

प्रीतो अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो ।
प्रदेयो यन् निमित्तम् ते परिष्वंगो मया कृतः ॥३-१५-२८॥

भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण ।
त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥३-१५-२९॥

एवम् लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः ।
तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी ॥३-१५-३०॥

कंचित् कालम् स धर्मात्मा सीतया लक्ष्मणेन च अन्वास्यमानो न्यवसत् स्वर्ग लोके यथा अमरः ॥३-१५-३१॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥