रामायणम्/अरण्यकाण्डम्/सर्गः ५३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५२ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ५४ →


श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-५३॥

खम् उत्पतन्तम् तम् दृष्ट्वा मैथिली जनक आत्मजा ।
दुःखिता परम उद्विग्ना भये महति वर्तिनी ॥३-५३-१॥

रोष रोदन ताम्राक्षी भीमाक्षम् राक्षस अधिपम् ।
रुदती करुणम् सीता ह्रियमाणा इदम् अब्रवीत् ॥३-५३-२॥

न व्यपत्रपसे नीच कर्मणा अनेन रावण ।
ज्ञात्वा विरहिताम् यो माम् चोरयित्वा पलायसे ॥३-५३-३॥

त्वया एव नूनम् दुष्टात्मन् भीरुणा हर्तुम् इच्छता ।
मम अपवाहितो भर्ता मृग रूपेण मायया ॥३-५३-४॥

यो हि माम् उद्यतः त्रातुम् सो अपि अयम् विनिपातितः ।
गृध्र राजः पुराणो असौ श्वशुरस्य सखा मम ॥३-५३-५॥

परमम् खलु ते वीर्यम् दृश्यते राक्षसाधम ।
विश्राव्य नामधेयम् हि युद्धे न अस्मि जिता त्वया ॥३-५३-६॥

ईदृशम् गर्हितम् कर्म कथम् कृत्वा न लज्जसे ।
स्त्रियाः च हरणम् नीच रहिते च परस्य च ॥३-५३-७॥

कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।
सुनृशम्सम् अधर्मिष्ठम् तव शौण्डीर्य मानिनः ॥३-५३-८॥

धिक् ते शौर्यम् च सत्त्वम् च यत् त्वया कथितम् तदा ।
कुल आक्रोशकरम् लोके धिक् ते चारित्रम् ईदृशम् ॥३-५३-९॥

किम् शक्यम् कर्तुम् एवम् हि यत् जवेन एव धावसि ।
मुहूर्तम् अपि तिष्ठस्व न जीवन् प्रतियास्यसि ॥३-५३-१०॥

न हि चक्षुः पथम् प्राप्य तयोः पार्थिव पुत्रयोः ।
स सैन्यो अपि समर्थः त्वम् मुहूर्तम् अपि जीवितुम् ॥३-५३-११॥

न त्वम् तयोः शर स्पर्शम् सोढुम् शक्तः कथंचन ।
वने प्रज्वलितस्य इव स्पर्शम् अग्नेः विहंगमः ॥३-५३-१२॥

साधु कृत्वा आत्मनः पथ्यम् साधु माम् मुंच रावण ।
मत् प्रधर्षण रुष्टो हि भ्रात्रा सह पतिः मम ॥३-५३-१३॥
विधास्यति विनाशाय त्वम् माम् यदि न मुंचसि ।

येन त्वम् व्यवसायेन बलात् माम् हर्तुम् इच्छसि ॥३-५३-१४॥
व्यवसायः तु ते नीच भविष्यति निरर्थकः ।

न हि अहम् तम् अपश्यन्ती भर्तारम् विबुध उपमम् ॥३-५३-१५॥
उत्सहे शत्रु वशगा प्राणान् धारयितुम् चिरम् ।

न नूनम् च आत्मनः श्रेयः पथ्यम् वा समवेक्षसे ॥३-५३-१६॥
मृत्यु काले यथा मर्त्यो विपरीतानि सेवते ।

मुमूर्षूणाम् तु सर्वेषाम् यत् पथ्यम् तत् न रोचते ॥३-५३-१७॥
पश्यामि इव हि कण्ठे त्वाम् काल पाश अवपाशितम् ।

यथा च अस्मिन् भय स्थाने न बिभेषि दशानन ॥३-५३-१८॥
व्यक्तम् हिरण्मयान् हि त्वम् संपश्यसि मही रुहान् ।

नदीम् वैतरणीम् घोराम् रुधिर ओघ विवाहिनीम् ॥३-५३-१९॥
खड्ग पत्र वनम् चैव भीमम् पश्यसि रावण ।

तप्त कांचन पुष्पाम् च वैदूर्य प्रवर च्छदाम् ॥३-५३-२०॥
द्रक्ष्यसे शाल्मलीम् तीक्ष्णाम् आयसैः कण्टकैः चिताम् ।

न हि त्वम् ईदृशम् कृत्वा तस्य अलीकम् महात्मनः ॥३-५३-२१॥
धारितुम् शक्स्यसि चिरम् विषम् पीत्वा इव निर्घृणः ।

बद्धः त्वम् काल पाशेन दुर्निवारेण रावण ॥३-५३-२२॥
क्व गतो लप्स्यसे शर्म भर्तुः मम महात्मनः ।

निमेष अन्तर मात्रेण विना भ्रातरम् आहवे ॥३-५३-२३॥
राक्षसा निहता येन सहस्राणि चतुर्दश ।
कथम् स राघवो वीरः सर्व अस्त्र कुशलो बली ॥३-५३-२४॥
न त्वाम् हन्यात् शरैः तीक्ष्णैः इष्ट भार्या अपहारिणम् ।

एतत् च अन्यत् च परुषम् वैदेही रावण अंक गा ।
भय शोक समाविष्टा करुणम् विललाप ह ॥३-५३-२५॥

तथा भृश आर्ताम् बहु चैव भाषिणीम्विललाप पूर्वम् करुणम् च भामिनीम् ।
जहार पापः तरुणीम् विवेष्टतीम्नृपात्मजाम् आगत गात्र वेपथुम् ॥३-५३-२६॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-५३॥