रामायणम्/अरण्यकाण्डम्/सर्गः ४३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४२ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ४४ →


श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-४३॥

सा तम् संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती ।
हेम राजत वर्णाभ्याम् पार्श्वाभ्याम् उपशोभितम् ॥३-४३-१॥
प्रहृष्टा च अनवद्यान्गी मृष्ट हाटक वर्णिनी ।
भर्तारम् अपि च आक्रन्द लक्ष्मणम् चैव सायुधम् ॥३-४३-२॥

आहूय आहूय च पुनः तम् मृगम् साधु वीक्षते ।
आगच्छ आगच्छ शीघ्रम् वै आर्यपुत्र सह अनुज ॥३-४३-३॥

तया आहूतौ नरव्याघ्रौ वैदेह्या राम लक्ष्मणौ ।
वीक्षमाणौ तु तम् देशम् तदा ददृशतुः मृगम् ॥३-४३-४॥

शंकमानः तु तम् दृष्ट्वा लक्ष्मणो रामम् अब्रवीत् ।
तम् एव एनम् अहम् मन्ये मारीचम् राक्षसम् मृगम् ॥३-४३-५॥

चरन्तो मृगयाम् हृष्टाः पापेन उपाधिना वने ।
अनेन निहता राम राजानः काम रूपिणा ॥३-४३-६॥

अस्य मायाविदो माया मृग रूपम् इदम् कृतम् ।
भानुमत् पुरुषव्याघ्र गन्धर्व पुर संनिभम् ॥३-४३-७॥

मृगो हि एवम् विधो रत्न विचित्रो न अस्ति राघव ।
जगत्याम् जगतीनाथ माया एषा हि न संशयः ॥३-४३-८॥

एवम् ब्रुवाणम् काकुत्स्थम् प्रतिवार्य शुचि स्मिता ।
उवाच सीता संहृष्टा चद्मना हृत चेतना ॥३-४३-९॥

आर्यपुत्र अभिरामो असौ मृगो हरति मे मनः ।
आनय एनम् महाबाहो क्रीडार्थम् नः भविष्यति ॥३-४३-१०॥

इह आश्रम पदे अस्माकम् बहवः पुण्य दर्शनाः ।
मृगाः चरन्ति सहिताः चमराः सृमराः तथा ॥३-४३-११॥

ऋक्षाः पृषत संघाः च वानराः किनराः तथा ।
विचरन्ति महाबाहो रूप श्रेष्ठा महाबलाः ॥३-४३-१२॥

न च अस्य सदृशो राजन् दृष्ट पूर्वो मृगः मया ।
तेजसा क्षमया दीप्त्या यथा अयम् मृग सत्तमः ॥३-४३-१३॥

नाना वर्ण विचित्र अंगो रत्न भूतो मम अग्रतः ।
द्योतयन् वनम् अव्यग्रम् शोभते शशि संनिभः ॥३-४३-१४॥

अहो रूपम् अहो लक्ष्मीः स्वर संपत् च शोभना ।
मृगो अद्भुतो विचित्रांगो हृदयम् हरति इव मे ॥३-४३-१५॥

यदि ग्रहणम् अभ्येति जीवन् एव मृगः तव ।
आश्चर्य भूतम् भवति विस्मयम् जनयिष्यति ॥३-४३-१६॥

समाप्त वन वासानाम् राज्य स्थानाम् च नः पुनः ।
अंतःपुरे विभूषार्थो मृग एष भविष्यति ॥३-४३-१७॥

भरतस्य आर्यपुत्रस्य श्वश्रूणाम् मम च प्रभो ।
मृग रूपम् इदम् दिव्यम् विस्मयम् जनयिष्यति ॥३-४३-१८॥

जीवन् न यदि ते अभ्येति ग्रहणम् मृग सत्तमः ।
अजिनम् नरशार्दूल रुचिरम् तु भविष्यति ॥३-४३-१९॥

निहतस्य अस्य सत्त्वस्य जांबूनदमय त्वचि ।
शष्प बृस्याम् विनीतायाम् इच्छामि अहम् उपासितुम् ॥३-४३-२०॥

कामवृत्तम् इदम् रौद्रम् स्त्रीणाम् असदृशम् मतम् ।
वपुषा तु अस्य सत्त्वस्य विस्मयो जनितो मम ॥३-४३-२१॥

तेन कांचन रोम्णा तु मणि प्रवर शृंगिणा ।
तरुण आदित्य वर्णेन नक्षत्र पथ वर्चसा ॥३-४३-२२॥
बभूव राघवस्य अपि मनो विस्मयम् आगतम् ।

एवम् सीता वचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम् ॥३-४३-२३॥
लोबितः तेन रूपेण सीताया च प्रचोदितः ।
उवाच राघवो हृष्टो भ्रातरम् लक्ष्मणम् वचः ॥३-४३-२४॥

पश्य लक्ष्मण वैदेह्याः स्पृहाम् उल्लसिताम् इमाम् ।
रूप श्रेष्ठतया हि एष मृगो अद्य न भविष्यति ॥३-४३-२५॥
न वने नंदनोद्देशे न चैत्ररथ संश्रये ।
कुतः पृथिव्याम् सौमित्रे यो अस्य कश्चित् समो मृगः ॥३-४३-२६॥

प्रतिलोम अनुलोमाः च रुचिरा रोम राजयः ।
शोभन्ते मृगम् आश्रित्य चित्राः कनक बिन्दुभिः ॥३-४३-२७॥

पश्य अस्य जृंभमाणस्य दीप्ताम् अग्नि शिखोपमाम् ।
जिह्वाम् मुखात् निःसरंतीम् मेघात् इव शत ह्रदाम् ॥३-४३-२८॥

मसार गल्वर्क मुखः शंख मुक्ता निभ उदरः ।
कस्य नाम अनिरूप्यः असौ न मनो लोभयेत् मृगः ॥३-४३-२९॥

कस्य रूपम् इदम् दृष्ट्वा जांबूनदमय प्रभम् ।
नाना रत्नमयम् दिव्यम् न मनो विस्मयम् व्रजेत् ॥३-४३-३०॥

मांस हेतोः अपि मृगान् विहारार्थम् च धन्विनः ।
घ्नन्ति लक्ष्मण राजानो मृगयायाम् महावने ॥३-४३-३१॥

धनानि व्यवसायेन विचीयन्ते महावने ।
धातवो विविधाः च अपि मणि रत्न सुवर्णिनः ॥३-४३-३२॥

तत् सारम् अखिलम् नॄणाम् धनम् निचय वर्धनम् ।
मनसा चिन्तितम् सर्वम् यथा शुक्रस्य लक्ष्मण ॥३-४३-३३॥

अर्थी येन अर्थ कृत्येन संव्रजति अविचारयन् ।
तम् अर्थम् अर्थ शास्त्रज्ञः प्राहुः अर्थ्याः च लक्ष्मण ॥३-४३-३४॥

एतस्य मृग रत्नस्य परार्ध्ये कांचन त्वचि ।
उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥३-४३-३५॥

न कादली न प्रियकी न प्रवेणी न च अविकी ।
भवेत् एतस्य सदृशी स्पर्शनेन इति मे मतिः ॥३-४३-३६॥

एष चैव मृगः श्रीमान् यः च दिव्यो नभः चरः ।
उभौ एतौ मृगौ दिव्यौ तारामृग महीमृगौ ॥३-४३-३७॥

यदि वा अयम् तथा यत् माम् भवेत् वदसि लक्ष्मण ।
माया एषा राक्षसस्य इति कर्तव्यो अस्य वधो मया ॥३-४३-३८॥

एतेन हि नृशंसेन मारीचेन अकृत आत्मना ।
वने विचरता पूर्वम् हिंसिता मुनि पुंगवाः ॥३-४३-३९॥

उत्थाय बहवो अनेन मृगयायाम् जनाधिपाः ।
निहताः परम इष्वासाः तस्मात् वध्यः तु अयम् मृगः ॥३-४३-४०॥

पुरस्तात् इह वातापिः परिभूय तपस्विनः ।
उदरस्थो द्विजान् हन्ति स्व गर्भो अश्वतरीम् इव ॥३-४३-४१॥

स कदाचित् चिरात् लोभात् आससाद महामुनिम् ।
अगस्त्यम् तेजसा युक्तम् भक्ष्यः तस्य बभूव ह ॥३-४३-४२॥

समुत्थाने च तत् रूपम् कर्तु कामम् समीक्ष्य तम् ।
उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत् ॥३-४३-४३॥

त्वया अविगण्य वातापे परिभूताः च तेजसा ।
जीव लोके द्विज श्रेष्ठाः तस्मात् असि जराम् गतः ॥३-४३-४४॥

तत् एतत् न भवेत् रक्षो वातापिः इव लक्ष्मण ।
मत् विधम् यो अतिमन्येत धर्म नित्यम् जितेन्द्रियम् ॥३-४३-४५॥
भवेत् हतो अयम् वातापिः अगस्त्येन इव मा गतः ।

इह त्वम् भव संनद्धो यंत्रितो रक्ष मैथिलीम् ॥३-४३-४६॥
अस्याम् आयत्तम् अस्माकम् यत् कृत्यम् रघुनंदन ।

अहम् एनम् वधिष्यामि ग्रहीष्यामि अथवा मृगम् ॥३-४३-४७॥
यावत् गच्छामि सौमित्रे मृगम् आनयितुम् द्रुतम् ।

पश्य लक्ष्मण वैदेहीम् मृग त्वचि गताम् स्पृहाम् ॥३-४३-४८॥
त्वचा प्रधानया हि एष मृगो अद्य न भविष्यति ।

अप्रमत्तेन ते भाव्यम् आश्रमस्थेन सीतया ॥३-४३-४९॥
यावत् पृषतम् एकेन सायकेन निहन्मि अहम् ।
हत्वा एतत् चर्म च आदाय शीघ्रम् एष्यामि लक्ष्मण ॥३-४३-५०॥

प्रदक्षिणेन अतिबलेन पक्षिणाजटायुषा बुद्धिमता च लक्ष्मण ।
भव अप्रमत्तः प्रतिगृह्य मैथिलीम्प्रति क्षणम् सर्वत एव शन्कितः ॥३-४३-५१॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-४३॥