रामायणम्/अरण्यकाण्डम्/सर्गः ६३
< रामायणम् | अरण्यकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ६२ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ६४ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिषष्ठितमः सर्गः ॥३-६३॥ स राज पुत्र प्रिया विहीनःशोकेन मोहेन च पीड्यमानः । विषादयन् भ्रातरम् आर्त रूपोभूयो विषादम्प्रविवेश तीव्रम् ॥३-६३-१॥ स लक्ष्मणम् शोक वश अभिपन्नम्शोके निमग्नो विपुले तु रामः । उवाच वाक्यम् व्यसनानुरूपम्उष्णम् विनिःश्वस्य रुदन् स शोकम् ॥३-६३-२॥ न मत् विधो दुष्कृत कर्म कारीमन्ये द्वितीयो अस्ति वसुंधरायाम् । शोक अनुशोको हि परंपरायामाम् एति भिन्दन् हृदयम् मनः च ॥३-६३-३॥ पूर्वम् मया नूनम् अभीप्सितानिपापानि कर्माणि असत्कृत् कृतानि । तत्र अयम् अद्य पतितो विपाकोदुःखेन दुःखम् यद् अहम् विशामि ॥३-६३-४॥ राज्य प्रणाशः स्व जनैः वियोगःपितुर् विनाशो जननी वियोगः । सर्वानि मे लक्ष्मण शोक वेगम्आपूरयन्ति प्रविचिन्तितानि ॥३-६३-५॥ सर्वम् तु दुःखम् मम लक्ष्मण इदम्शान्तम् शरीरे वनम् एत्य क्लेशम् । सीता वियोगात् पुनर् अपि उदीर्णम्काष्टैः इव अग्निः सहसा प्रदीप्तः ॥३-६३-६॥ सा नूनम् आर्या मम राक्षसेन हिअभ्याहृता खम् समुपेत्य भीरुः । अपस्वरम् सु स्वर विप्रलापाभयेन विक्रन्दितवति अभीक्ष्णम् ॥३-६३-७॥ तौ लोहितस्य प्रिय दर्शनस्यसदा उचितौ उत्तम चंदनस्य । वृत्तौ स्तनौ शोणित पंक दिग्धौनूनम् प्रियाया मम न अभिभात ॥३-६३-८॥ तत् श्लक्ष्ण सु व्यक्त मृदु प्रलापम्तस्या मुखम् कुंचित केश भारम् । रक्षो वशम् नूनम् उपगतायान भ्राजते राहु मुखे यथा इंदुः ॥३-६३-९॥ ताम् हार पाशस्य सदा उचित अंतम्ग्रीवाम् प्रियाया मम सु व्रताया । रक्षांसि नूनम् परिपीतवन्तिशून्ये हि भित्वा रुधिर अशनानि ॥३-६३-१०॥ मया विहीना विजने वने यारक्षोभिः आहृत्य विकृष्यमाणा । नूनम् विनादम् कुररि इव दीनासा मुक्तवती आयत कान्त नेत्रा ॥३-६३-११॥ अस्मिन् मया सार्थम् उदार शीलाशिला तले पूर्वम् उपोपविष्टा । कान्त स्मिता लक्ष्मण जात हासात्वाम् आह सीता बहु वाक्य जातम् ॥३-६३-१२॥ गोदावरी इयाम् सरिताम् वरिष्टाप्रिया प्रियाया मम नित्य कालम् । अपि अत्र गच्छेत् इति चिंतयामिन एकाकिनी याति हि सा कदाचित् ॥३-६३-१३॥ पद्म आनना पद्म पलाश नेत्रापद्मानि वा आनेतुम् अभिप्रयाता । तत् अपि अयुक्तम् न हि सा कद्दचित्मया विना गच्छति पंकजानि ॥३-६३-१४॥ कामम् तु इदम् पुष्पित वृक्ष सण्डम्नाना विधैः पक्षि गणैः उपेतम् । वनम् प्रयाता नु तत् अपि अयुक्तम्एकाकिनी सा अति बिभेति भीरुः ॥३-६३-१५॥ आदित्य भो लोक क्रृत अकृत ज्ञःलोकस्य सत्य अनृत कर्म साक्षिन् । मम प्रिया सा क्व गता हृता वाशंसव मे शोक हतस्य सर्वम् ॥३-६३-१६॥ लोकेषु सर्वेषु न नास्ति किंचित्यत् ते न नित्यम् विदितम् भवेत् तत् । शंसस्व वयोः कुल शालिनीम् ताम्मृता हृता वा पथि वर्तते वा ॥३-६३-१७॥ इति इव तम् शोक विधेय देहम्रामम् विसंज्ञम् विलपंतम् एव । उवाच सौमित्रिःअदीन सत्त्वःन्याये स्थितः काल युतम् च वाक्यम् ॥३-६३-१८॥ शोकम् विमुंच आर्य धृतिम् भजस्वसह उत्साहता च अस्तु विमार्गणे अस्याः । उत्साहवन्तो हि नरा न लोकेसीदन्ति कर्मसु अति दुष्करेषु ॥३-६३-१९॥ इति इव सौमित्रिम् उदग्र पौरुषम्ब्रुवन्तम् आर्तो रघु वंश वर्धनः । न चिंतयामास धृतिम् विमुक्तवान्पुनः च दुःखम् महत् अभ्युपागमत् ॥३-६३-२०॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिषष्ठितमः सर्गः ॥३-६३॥स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र