रामायणम्/अरण्यकाण्डम्/सर्गः ७२
< रामायणम् | अरण्यकाण्डम्
Jump to navigation
Jump to search
← सर्गः ७१ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ७३ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विसप्ततितमः सर्गः ॥३-७२॥ एवम् उक्तौ तु तौ वीरौ कबन्धेन नर ईश्वरौ । गिरि प्रदरम् आसाद्य पावकम् विससर्जतुः ॥३-७२-१॥ लक्ष्मणः तु महा उल्काभिः ज्वलिताभिः समन्ततः । चिताम् आदीपयामास सा प्रजज्वाल सर्वतः ॥३-७२-२॥ तत् शरीरम् कबन्धस्य घृत पिण्ड उपमम् महत् । मेदसा पच्यमानस्य मन्दम् दहति पावकः ॥३-७२-३॥ स विधूय चिताम् आशु विधूमो अग्निर् इव उत्थितः । अरजे वाससी बिभ्रत् मालाम् दिव्याम् महाबलः ॥३-७२-४॥ ततः चिताया वेगेन भास्वरो विरज अंबरः । उत्पपात आशु संहृष्टः सर्व प्रत्यंग भूषणः ॥३-७२-५॥ विमाने भास्वरे तिष्ठन् हंस युक्ते यशस् करे । प्रभया च महातेजा दिशो दश विराजयन् ॥३-७२-६॥ सो अन्तरिक्ष गतो वाक्यम् कबन्धो रामम् अब्रवीत् । शृणु राघव तत्त्वेन यथा सीमाम् अवाप्स्यसि ॥३-७२-७॥ राम षड् युक्तयो लोके याभिः सर्वम् विमृश्यते । परिमृष्टो दश अन्तेन दश आभागेन सेव्यते ॥३-७२-८॥ दश आभाग गतो हीनः त्वम् राम सह लक्ष्मणः । यत् कृते व्यसनम् प्राप्तम् त्वया दार प्रधर्षणम् ॥३-७२-९॥ तत् अवश्यम् त्वया कार्यः स सुहृत् सुहृदाम् वर । अकृत्वा न हि ते सिद्धिम् अहम् पश्यामि चिन्तयन् ॥३-७२-१०॥ श्रूयताम् राम वक्ष्यामि सुग्रीवो नाम वानरः । भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्र सूनुना ॥३-७२-११॥ ऋष्यमूके गिरि वरे पंपा पर्यन्त शोभिते । निवसति आत्मवान् वीरः चतुर्भिः सह वानरैः ॥३-७२-१२॥ वानरेन्द्रो महावीर्यः तेजोवान् अमित प्रभः । सत्य संधो विनीतः च धृतिमान् मतिमान् महान् ॥३-७२-१३॥ दक्षः प्रगल्भो द्युतिमान् महा बल पराक्रमः । भ्राता विवासितो वीर राज्य हेतो महात्मना ॥३-७२-१४॥ स ते सहायो मित्रम् च सीतायाः परिमार्गणे । भविष्यति हि ते राम मा च शोके मनः कृधाः ॥३-७२-१५॥ भवितव्यम् हि यत् च अपि न तत् शक्यम् इह अन्यथा । कर्तुम् इक्ष्वाकु शार्दूल कालो हि दुर्रक्रमः ॥३-७२-१६॥ गच्छ शीघ्रम् इतो वीर सुग्रीवम् तम् महाबलम् । वयस्यम् तम् कुरु क्षिप्रम् इतो गत्वा अद्य राघव ॥३-७२-१७॥ अद्रोहाय समागम्य दीप्यमाने विभावसौ । न च ते सो अवमन्तव्यः सुग्रीवो वानर अधिपः ॥३-७२-१८॥ कृतज्ञः काम रूपी च सहाय अर्थी च वीर्यवान् । शक्तौ हि अद्य युवाम् कर्तुम् कार्यम् तस्य चिकीर्षितम् ॥३-७२-१९॥ कृतार्थो वा अकृतार्थो वा तव कृत्यम् करिष्यति । स ऋक्षरजसः पुत्रः पंपाम् अटति शन्कितः ॥३-७२-२०॥ भास्करस्य औरसः पुत्रो वालिना कृत किल्बिषः । संनिधाय आयुधम् क्षिप्रम् ऋष्यमूक आलयम् कपिम् ॥३-७२-२१॥ कुरु राघव सत्येन वयस्यम् वन चारिणम् । स हि स्थानानि सर्वाणि कार्त्स्न्येन कपि कुंजरः ॥३-७२-२२॥ नर मांस अशिनाम् लोके नैपुण्यात् अधिगच्छति । न तस्य अविदितम् लोके किंचित् अस्ति हि राघव ॥३-७२-२३॥ यावत् सूर्यः प्रतपति सहस्रांशुः अरिन्दम । स नदीः विपुलान् शैलान् गिरि दुर्गाणि कंदरान् ॥३-७२-२४॥ अन्विष्य वानरैः सार्धम् पत्नीम् ते अधिगमिष्यति । वानरान् च महाकायान् प्रेषयिष्यति राघव ॥३-७२-२५॥ दिशो विचेतुम् ताम् सीताम् त्वत् वियोगेन शोचयतीम् । अन्वेष्यति वरारोहाम् मैथिलीम् रावण आलये ॥३-७२-२६॥ स मेरु शृंग अग्र गताम् अनिंदिताम् प्रविश्य पाताल तले अपि वा आश्रिताम् । प्लवंगमानाम् ऋषभः तव प्रियाम् निहत्य रक्षाम्सि पुनः प्रदास्यति ॥३-७२-२७॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्विसप्ततितमः सर्गः ॥३-७२॥