रामायणम्/अरण्यकाण्डम्/सर्गः ३०
< रामायणम् | अरण्यकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः २९ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ३१ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥ भित्त्वा तु ताम् गदाम् बाणैः राघवो धर्म वत्सलः । स्मयमानः खरम् वाक्यम् संरब्धम् इदम् अब्रवीत् ॥३-३०-१॥ एतत् ते बल सर्वस्वम् दर्शितम् राक्षसाधम । शक्ति हीनतरो मत्तो वृथा त्वम् उपगर्जसि ॥३-३०-२॥ एषा बाण विनिर्भिन्ना गदा भूमि तलम् गता । अभिधान प्रगल्भस्य तव प्रत्यय घातिनी ॥३-३०-३॥ यत् त्वया उक्तम् विनष्टानाम् इदम् अश्रु प्रमार्जनम् । राक्षसानाम् करोमि इति मिथ्या तत् अपि ते वचः ॥३-३०-४॥ नीचस्य क्षुद्र शीलस्य मिथ्या वृत्तस्य रक्षसः । प्राणान् अपहरिष्यामि गरुत्मान् अमृतम् यथा ॥३-३०-५॥ अद्य ते भिन्न कण्ठस्य फेन बुद्बुद भूषितम् । विदारितस्य मत् बाणैः मही पास्यति शोणितम् ॥३-३०-६॥ पांसु रूषित सर्वान्गः स्रस्त न्यस्त भुज द्वयः । स्वप्स्यसे गाम् समाश्लिष्य दुर्लभाम् प्रमदाम् इव ॥३-३०-७॥ प्रवृद्ध निद्रे शयिते त्वयि राक्षस पांसने । भविष्यन्ति अशरण्यानाम् शरण्या दण्डका इमे ॥३-३०-८॥ जनस्थाने हत स्थाने तव राक्षस मत् शरैः । निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥३-३०-९॥ अद्य विप्रसरिष्यन्ति राक्षस्यो हत बान्धवाः । बाष्प आर्द्र वदना दीना भयात् अन्य भयावहाः ॥३-३०-१०॥ अद्य शोक रसज्ञाः ताः भविष्यन्ति निरर्थकाः । अनुरूप कुलाः पत्न्यो यासाम् त्वम् पतिः ईदृशः ॥३-३०-११॥ नृशंस शील क्षुद्र आत्मन् नित्यम् ब्राह्मण कण्टक । त्वत् कृते शन्कितैः अग्नौ मुनिभिः पात्यते हविः ॥३-३०-१२॥ तम् एवम् अभिसंरब्धम् ब्रुवाणम् राघवम् रणे । खरो निर्भर्त्सयामास रोषात् खरतर स्वरः ॥३-३०-१३॥ दृढम् खलु अवलिप्तो असि भयेषु अपि च निर्भयः । वाच्य अवाच्यम् ततो हि त्वम् मृत्यु वश्यो न बुध्यसे ॥३-३०-१४॥ काल पाश परिक्षिप्ता भवंति पुरुषा हि ये । कार्य अकार्यम् न जानन्ति ते निरस्त षड् इन्द्रियाः ॥३-३०-१५॥ एवम् उक्त्वा ततो रामम् संरुध्य भृकुटिम् ततः । स ददर्श महा सालम् अविदूरे निशाचरः ॥३-३०-१६॥ रणे प्रहरणस्य अर्थे सर्वतो हि अवलोकयन् । स तम् उत्पाटयामास संदष्ट दशन च्छदम् ॥३-३०-१७॥ तम् समुत्क्षिप्य बाहुभ्याम् विनर्दित्वा महाबलः । रामम् उद्दिश्य चिक्षेप हतः त्वम् इति च अब्रवीत् ॥३-३०-१८॥ तम् आपतन्तम् बाण ओघैः च्छित्त्वा रामः प्रतापवान् । रोषम् आहारयत् तीव्रम् निहंतुम् समरे खरम् ॥३-३०-१९॥ जात स्वेदः ततो रामो रोषात् रक्त अन्त लोचनः । निर्बिभेद सहस्रेण बाणानाम् समरे खरम् ॥३-३०-२०॥ तस्य बाण अंतरात् रक्तम् बहु सुस्राव फेनिलम् । गिरेः प्रस्रवणस्य इव धाराणाम् च परिस्रवः ॥३-३०-२१॥ विकल स कृतो बाणैः खरो रामेण संयुगे । मत्तो रुधिर गन्धेन तम् एव अभ्यद्रवत् द्रुतम् ॥३-३०-२२॥ तम् आपतंतम् संरब्धम् कृत अस्त्रो रुधिर आप्लुतम् । अपसर्पत् द्वि त्रि पदम् किंचित् त्वरित विक्रमः ॥३-३०-२३॥ ततः पावक संकाशम् वधाय समरे शरम् । खरस्य रामो जग्राह ब्रह्म दण्डम् इव अपरम् ॥३-३०-२४॥ स तत् दत्तम् मघवता सुर राजेन धीमता । संदधे च स धर्मात्मा मुमोच च खरम् प्रति ॥३-३०-२५॥ स विमुक्तो महाबाणो निर्घात सम निःस्वनः । रामेण धनुरायम्य खरस्य उरसि च आपतत् ॥३-३०-२६॥ स पपात खरो भूमौ दह्यमानः शर अग्निना । रुद्रेण एव विनिर्दग्धः श्वेत अरण्ये यथा अन्धकः ॥३-३०-२७॥ स वृत्र इव वज्रेण फेनेन नमुचिर् यथाअ । बलो वा इन्द्र अशनि हतो निपपात हतः खरः ॥३-३०-२८॥ एतस्मिन् अंतरे देवाः चारणयोः सह संगताः । दुन्दुभिः च अभिनिघ्नंतः पुष्प वर्ष समंततः ॥३-३०-२९॥ रामस्य उपरि संहृष्टा ववर्षुः विस्मिताः तदा । अर्थ अधिक मुहूर्तेन रामेण निशितैः शरैः ॥३-३०-३०॥ चतुर् दश सहस्राणि रक्ष्साम् काम रूपिणाम् । खर दूषण मुख्यानाम् निहतानि महामृधे ॥३-३०-३१॥ अहो बत महत् कर्म रामस्य विदित आत्मनः । अहो वीर्यम् अहो दार्ढ्यम् विष्णोः इव हि दृश्यते ॥३-३०-३२॥ इति एवम् उक्त्वा ते सर्वे ययुः देवा यथा आगतम्। ततो राज ऋषयः सर्वे सम्गताः परम ऋषयः ॥३-३०-३३॥ सभाज्य मुदिता रामम् स अगस्त्या इदम् अब्रुवन् । एतत् अर्थम् महातेजा महेन्द्रः पाक शासनः ॥३-३०-३४॥ शरभंग आश्रमम् पुण्यम् आजगाम पुरंदरः । आनीतः त्वम् इमम् देशम् उपायेन महर्षिभिः ॥३-३०-३५॥ एषाम् वध अर्थम् शत्रूणाम् रक्षसाम् पाप कर्मणाम् । तत् इदम् नः कृतम् कार्यम् त्वया दशरथ आत्मज ॥३-३०-३६॥ स्व धर्मम् प्रचरिष्यन्ति दण्डकेषु महर्षयः । एतस्मिन् अनंतरे वीरो लक्ष्मणः सह सीतया ॥३-३०-३७॥ गिरि दुर्गात् विनिष्क्रम्य संविवेश आश्रमम् सुखी । ततो रामः तु विजयी पूज्यमानो महर्षिभिः ॥३-३०-३८॥ प्रविवेश आश्रमम् वीरो लक्ष्मणेन अभिपूजितः । तम् दृष्ट्वा शत्रु हंतारम् महर्षीणाम् सुख आवहम् ॥३-३०-३९॥ बभूव हृष्टा वैदेही भर्तारम् परिष्वजे । मुदा परमया युक्ता दृष्ट्वा रक्षो गणान् हतान् । रामम् च एव अव्ययम् दृष्टा तुतोष जनक आत्मजा ॥३-३०-४०॥ ततः तु तम् राक्षस संघ मर्दनम्स पूज्यमानम् मुदितैः महात्मभिः । पुनः परिष्वज्य मुदा अन्वित आननाबभूव हृष्टा जनक आत्मजा तदा ॥३-३०-४१॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र