रामायणम्/अरण्यकाण्डम्/सर्गः ३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ४ →



'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे तृतीयः सर्गः ॥३-३॥'''

अथ उवाच पुनर् वाक्यम् विराधः पूरयन् वनम् ।
पृच्छतो मम हि ब्रूतम् कौ युवाम् क्व गमिष्यथः ॥३-३-१॥

तम् उवाच ततो रामो राक्षसम् ज्वलित आननम् ।
पृच्छन्तम् सुमहातेजा इक्ष्वाकु कुलम् आत्मनः ॥३-३-२॥

क्षत्रियौ वृत्त संपन्नौ विद्धि नौ वनगोचरौ ।
त्वाम् तु वेदितुम् इच्छावः कः त्वम् चरसि दण्डकान् ॥३-३-३॥

तम् उवाच विराधः तु रामम् सत्य पराक्रमम् ।
हन्त वक्ष्यामि ते राजन् निबोध मम राघव ॥३-३-४॥

पुत्रः किल जवस्य अहम् माता मम  शतह्रदा ।
विराध इति माम् आहुः पृथिव्याम् सर्व राक्षसाः ॥३-३-५॥

तपसा च अभि संप्राप्ता ब्रह्मणो हि प्रसादजा ।
शस्त्रेण अवध्यता लोके अच्छेद्य अभेद्यत्वम् एव च ॥३-३-६॥

उत्सृज्य प्रमदाम् एनाम् अनपेक्षौ यथा आगतम् ।
त्वरमाणौ पलायेथाम् न वाम् जीवितम् आददे ॥३-३-७॥

तम् रामः प्रति उवाच इदम् कोप संरक्त लोचनः ।
राक्षसम् विकृत आकारम् विराधम् पाप चेतसम् ॥३-३-८॥

क्षुद्र धिक्त्वाम् तु हीनार्थम् मृत्युम् अन्वेषसे ध्रुवम् ।
रणे प्राप्स्यसि संतिष्ठ न मे जीवन् विमोक्ष्यसे ॥३-३-९॥

ततः सज्यम् धनुः कृत्वा रामः सुनिशितान् शरान् ।
सु शीघ्रम् अभिसंधाय राक्षसम् निजघान ह ॥३-३-१०॥

धनुषा ज्या गुणवता सप्त बाणान् मुमोच ह ।
रुक्म पुंखान् महावेगान् सुपर्ण अनिल तुल्य गान् ॥३-३-११॥

ते शरीरम् विराधस्य भित्त्वा बर्हिण वाससः ।
निपेतुः शोणिता दिग्धा धरण्याम् पावकोपमाः ॥३-३-१२॥

स विद्धो न्यस्य वैदेहीम् शूलम् उद्यम्य राक्षसः ।
अभ्यद्रवत् सुसंक्रुद्धः तदा रामम् स लक्ष्मणम्  ॥३-३-१३॥

स विनद्य महानादम् शूलम् शक्र ध्वज उपमम् ।
प्रगृह्य अशोभत तदा व्यात्तानन इव अंतकः ॥३-३-१४॥

अथ तौ भ्रातरौ दीप्तम् शर वर्षम् ववर्षतुः ।
विराधे राक्षसे तस्मिन् कालांतक अयम् उपमे ॥३-३-१५॥

स प्रहस्य महा रौद्रः स्थित्वा अजृम्भत राक्षसः ।
जृंभमाणस्य ते बाणाः कायात् निष्पेतुर् अशुगाः ॥३-३-१६॥

स्पर्शात् तु वर दानेन प्राणान् संरोध्य राक्षसः ।
विराधः शूलम् उद्यम्य राघवौ अभ्यधावत  ॥३-३-१७॥

तत् शूलम् वज्र संकाशम् गगने ज्वलन उपमम् ।
द्वाभ्याम् शराभ्याम् चिच्छेद रामः शस्त्रभृताम् वरः ॥३-३-१८॥

तत् राम विशिखैः छिन्नम् शूलम् तस्य आपतत् भुविः ।
पपात अशनिना चिन्नम् मेरोर् इव शिला तलम्  ॥३-३-१९॥

तौ खड्गौ क्षिप्रम् उद्यम्य कृष्ण सर्पौ इव उद्यतौ ।
तूर्णम् आपेततुः तस्य तदा प्रहारताम् बलात्  ॥३-३-२०॥

स वध्यमान सुभृशम् भुजाभ्याम् परिगृह्य तौ  ।
अप्रकंप्यौ नरव्याघ्रौ रौद्रः प्रस्थातुम् ऐच्छत  ॥३-३-२१॥

तस्य अभिप्रायम् अज्ञाय रामो लक्ष्मणम् अब्रवीत्  ।
वहतु अयम् अलम् तावत् पथानेन तु राक्षसः  ॥३-३-२२॥

यथा च इच्छति सोउमित्रे तथा वहतु राक्षसः  ।
अयम् एव हि नः पन्था येन याति निशाचरः  ॥३-३-२३॥

स तु स्व बल वीर्येण समुत्क्षिप्य निशाचरः ।
बालाः इव स्कन्ध गतौ चकार अति बलोद्धतः  ॥३-३-२४॥

तौ आरोप्य ततः स्कन्धम् राघवो  रजनी चरः  ।
विराधो विनदन् घोरम् जगाम अभिमुखो वनम्  ॥३-३-२५॥

वनम् महा मेघ निभम् प्रविष्टोद्रुमैः महद्भिः विविधैः उपेतम् ।
नाना विधैः पक्षि कुलैः विचित्रम्शिव आयुतम् व्याल मृगैः विकीर्णम्  ॥३-३-२६॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे तृतीयः सर्गः ॥३-३॥