रामायणम्/अरण्यकाण्डम्/सर्गः ५६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५५ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः ५७ →



श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-५६॥

सा तथा उक्ता तु वैदेही निर्भया शोक कर्शिता ।
तृणम् अन्तरतः कृत्वा रावणम् प्रति अभाषत ॥३-५६-१॥

राजा दशरथो नाम धर्म सेतुः इव अचलः ।
सत्य सन्धः परिज्ञातो यस्य पुत्रः स राघवः ॥३-५६-२॥

रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः ।
दीर्घ बाहुः विशालाक्षो दैवतम् स पतिः मम ॥३-५६-३॥

इक्ष्वाकूणाम् कुले जातः सिंह स्कन्धो महाद्युतिः ।
लक्ष्मणेन सह भ्रात्रा यः ते प्राणान् हरिष्यति ॥३-५६-४॥

प्रत्यक्षम् यदि अहम् तस्य त्वया स्याम् धर्षिता बलात् ।
शयिता त्वम् हतः संख्ये जनस्थाने यथा खरः ॥३-५६-५॥

य एते राक्षसाः प्रोक्ता घोर रूपा महाबलाः ।
राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥३-५६-६॥

तस्य ज्या विप्रमुक्ताः ते शराः कांचन भूषणाः ।
शरीरम् विधमिष्यन्ति गंगा कूलम् इव ऊर्मयः ॥३-५६-७॥

असुरैः वा सुरैः वा त्वम् यदि अवध्यो असि रावण ।
उत्पाद्य सुमहत् वैरम् जीवन् तस्य न मोक्ष्यसे ॥३-५६-८॥

स ते जीवित शेषस्य राघवो अन्त करो बली ।
पशोः यूप गतस्य इव जीवितम् तव दुर्लभम् ॥३-५६-९॥

यदि पश्येत् स रामः त्वाम् रोष दीप्तेन चक्षुषा ।
रक्षः त्वम् अद्य निर्दग्धो यथा रुद्रेण मन्मधः ॥३-५६-१०॥

यः चन्द्रम् नभसो भूमौ पातयेन् नाशयेत वा ।
सागरम् शोषयेत् वा अपि स सीताम् मोचयेत् इह ॥३-५६-११॥

गत आयुः त्वम् गत श्रीकः गत सत्त्वो गत इन्द्रियः ।
लंका वैधव्य संयुक्ता त्वत् कृतेन भविष्यति ॥३-५६-१२॥

न ते पापम् इदम् कर्म सुख उदर्कम् भविष्यति ।
या अहम् नीता विना भावम् पति पार्श्वात् त्वया वनात् ॥३-५६-१३॥

स हि देवर - दैवत - संयुक्तो मम भर्ता महाद्युतिः ।
निर्भयो वीर्यम् आश्रित्य शून्ये वसति दण्डके ॥३-५६-१४॥

स ते वीर्यम् दर्पम् बलम् उत्सेकम् च तथा विधम् ।
अपनेष्यति गात्रेभ्यः शर वर्षेण संयुगे ॥३-५६-१५॥

यदा विनाशो भूतानाम् दृश्यते काल चोदितः ।
तदा कार्ये प्रमाद्यन्ति नराः काल वशम् गताः ॥३-५६-१६॥

माम् प्रधृष्य स ते कालः प्राप्तो अयम् रक्षस अधम ।
आत्मनो राक्षसानाम् च वधाय अन्तः पुरस्य च ॥३-५६-१७॥

न शक्या यज्ञ मध्यस्था वेदिः स्रुक् भाण्ड मण्डिता ।
द्विजाति मंत्र संपूता चण्डालेन अवमर्दितुम् ॥३-५६-१८॥

तथा अहम् धर्म नित्यस्य धर्म पत्नी दृढ व्रता ।
त्वया संप्रष्टुम् न शक्या अहम् राक्षसाधम पापिना ॥३-५६-१९॥

क्रीडन्ती राज हंसेन पद्म षंडेषु नित्यशः ।
हंसी सा तृण षण्डस्थम् कथम् द्रक्षेत मद्गुकम् ॥३-५६-२०॥

इदम् शरीरम् निःसंज्ञम् बन्ध वा घातयस्व वा ।
न इदम् शरीरम् रक्ष्यम् मे जीवितम् वा अपि राक्षस ॥३-५६-२१॥
न तु शक्यामि उपक्रोशम् पृथिव्याम् धातुम् आत्मनः ।

एवम् उक्त्वा तु वैदेही क्रोद्धात् सु परुषम् वचः ॥३-५६-२२॥
रावणम् मैथिली तत्र पुनः न उवाच किंचन ।

सीताया वचनम् श्रुत्वा परुषम् रोम हर्षणम् ॥३-५६-२३॥
प्रति उवाच ततः सीताम् भय संदर्शनम् वचः ।

शृणु मैथिलि मत् वाक्यम् मासान् द्वादश भामिनि ॥३-५६-२४॥
कालेन अनेन न अभ्येषि यदि माम् चारु हासिनि ।
ततः त्वाम् प्रातः आशा अर्थम् सूदाः छेत्स्यन्ति लेशशः ॥३-५६-२५॥

इति उक्त्वा परुषम् वाक्यम् रावणः शत्रु रावणः ।
राक्षसीः च ततः क्रुद्ध इदम् वचनम् अब्रवीत् ॥३-५६-२६॥

शीघ्रम् एव हि राक्षस्यो विकृता घोर दर्शनाः ।
दर्पम् अस्या अपनेष्यन्तु मांस शोणित भोजनाः ॥३-५६-२७॥

वचनात् एव ताः तस्य विकृता घोर दर्शनाः ।
कृत प्रांजलयो भूत्वा मैथिलीम् पर्यवारयन् ॥३-५६-२८॥

स ताः प्रोवाच राजा तु रावणो घोर दर्शनाः ।
प्रचाल्य चरण उत्कर्षैः दारयन् इव मेदिनीम् ॥३-५६-२९॥

अशोक वनिका मध्ये मैथिली नीयताम् इति ।
तत्र इयम् रक्ष्यताम् गूढम् युष्माभिः परिवारिता ॥३-५६-३०॥

तत्र एनाम् तर्जनैः घोरैः पुनः सांत्वैः च मैथिलीम् ।
आनयध्वम् वशम् सर्वा वन्याम् गज वधूम् इव ॥३-५६-३१॥

इति प्रति समादिष्टा राक्षस्यो रावणेन ताः ।
अशोक वनिकाम् जग्मुः मैथिलीम् परिगृह्य तु ॥३-५६-३२॥
सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् - यद्वा -सर्व काम फलैः वृक्षैः नाना पुष्प फलैः वृताम् ।
सर्व काल मदैः च अपि द्विजैः समुपसेविताम् ॥३-५६-३३॥

सा तु शोक परीत अंगी मैथिली जनकात्मजा ।
राक्षसी वशम् आपन्ना व्याघ्रीणाम् हरिणी यथा ॥३-५६-३४॥

शोकेन महता ग्रस्ता मैथिली जनकात्मजा ।
न शर्म लभते भीरुः पाश बद्धा मृगी यथा ॥३-५६-३५॥

न विन्दते तत्र तु शर्म मैथिलीविरूप नेत्राभिः अतीव तर्जिता ।
पतिम् स्मरन्ती दयितम् च देवरम्विचेतना अभूत् भय शोक पीडिता ॥३-५६-३६॥



इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-५६॥