रामायणम्/अरण्यकाण्डम्/सर्गः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २१ रामायणम्/अरण्यकाण्डम्
अरण्यकाण्डम्
वाल्मीकिः
सर्गः २३ →


एवम् आधर्षितः शूरः शूर्पणख्या खरः ततः ।
उवाच रक्षसाम् मध्ये खरः खरतरम् वचः ॥३-२२-१॥

तव अपमान प्रभवः क्रोधो अयम् अतुलो मम ।
न शक्यते धारयितुम् लवण अंभ इव उल्बणम् ॥३-२२-२॥

न रामम् गणये वीर्यान् मानुषम् क्षीण जीवितम् ।
आत्म दुश्चरितैः प्राणान् हतो यो अद्य विमोक्ष्यति ॥३-२२-३॥

बाष्पः सम्धार्यताम् एष संभ्रमः च विमुच्यताम् ।
अहम् रामम् सह भ्रात्रा नयामि यम सादनम् ॥३-२२-४॥

परश्वध हतस्य अद्य मन्द प्राणस्य भू तले ।
रामस्य रुधिरम् रक्तम् उष्णम् पास्यसि राक्षसि ॥३-२२-५॥

सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनात् च्युतम् ।
प्रशशंस पुनर् मौर्ख्यात् भ्रातरम् रक्षसाम् वरम् ॥३-२२-६॥

तया परुषितः पूर्वम् पुनर् एव प्रशंसितः ।
अब्रवीत् दूषणम् नाम खरः सेना पतिम् तदा ॥३-२२-७॥

चतुर्दश सहस्राणि मम चित्त अनुवर्तिनाम् ।
रक्षसाम् भीम वेगानाम् समरेषु अनिवर्तिनाम् ॥३-२२-८॥

नील जीमूत वर्णानाम्  लोक हिंसा विहाराणाम् ।
सर्व उद्योगम् उदीर्णानाम् रक्षसाम् सौम्य कारय  ॥३-२२-९॥

उपस्थापय मे क्षिप्रम् रथम् सौम्य धनूंषि च ।
शरान् च चित्रान् खड्गां च शक्ती च विविधाः शिताः ॥३-२२-१०॥

अग्रे निर्यातुम् इच्छामि पौलस्त्यानाम् महात्मनाम् ।
वधार्थम् दुर्विनीतस्य रामस्य रण कोविद ॥३-२२-११॥

इति तस्य ब्रुवाणस्य सूर्य वर्णम् महारथम् ।
सत् अश्वैः शबलैः युक्तम् आचचक्षे अथ दूषणः ॥३-२२-१२॥

तम् मेरु शिखर आकारम् तप्त कांचन भूषणम् ।
हेम चक्रम् असंबाधम् वैदूर्यमय कूबरम् ॥३-२२-१३॥

मत्स्यैः पुष्पैः द्रुमैः शैलैः चन्द्र सूर्यैः च कांचनैः ।
मांगल्यैः पक्षि सम्घैः च ताराभिः च समावृतम् ॥३-२२-१४॥

ध्वज निस्त्रिंश संपन्नम् किंकिणी वर भूषितम् ।
सत् अश्व युक्तम् सः अमर्षात् आरुरोह खरः तदा ॥३-२२-१५॥

खरः तु तान्  महत् सैन्याम् रथ चर्म आयुध ध्वजान् ।
निर्यात इति अब्रवीत् प्रेक्ष्य दूषणः सर्व राक्षसान् ॥३-२२-१६॥

ततः तद् राक्षसम् सैन्यम् घोर चर्म आयुध ध्वजम् ।
निर्जगाम जन स्थानात् महानादम् महाजवम् ॥३-२२-१७॥

मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैः च परश्वधैः ।
खड्गैः चक्रैः च हस्तस्थैः भ्राजमानैः स तोमरैः ॥३-२२-१८॥

शक्तिभिः परिघैः घोरैः अतिमात्रैः च कार्मुकैः ।
गदा असि मुसलैः वज्रैः गृहीतैः भीम दर्शनैः ॥३-२२-१९॥

राक्षसानाम् सुघोराणाम् सहस्राणि चतुर्दश ।
निर्यातानि जन स्थानात् खर चित्त अनुवर्तिनाम् ॥३-२२-२०॥

तान् तु निर्धावतो दृष्ट्वा राक्षसान् भीम दर्शनम् ।
खरस्य अथ रथः किंचित् जगाम तत् अनन्तरम् ॥३-२२-२१॥

ततः तान् शबलान् अश्वान् तप्त कांचन भूषितान् ।
खरस्य मतम् आज्ञाय सारथिः पर्यचोदयत् ॥३-२२-२२॥

संचोदितो रथः शीघ्रम् खरस्य रिपु घातिनः ।
शब्देन आपूरयामास दिशः स प्रदिशः तथा ॥३-२२-२३॥

प्रवृद्ध मन्युः तु खरः खर स्वरेरिपोः वध अर्थम् त्वरितो यथा अंतकः ।
अचूचुदत् सारथिम् उन्नदन् पुनर्महाबलो मेघ इव अश्म वर्षवान् ॥३-२२-२४॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे द्वाविंशः सर्गः ॥३-२२॥