ऋग्वेदः सूक्तं ५.६५
← सूक्तं ५.६४ | ऋग्वेदः - मण्डल ५ सूक्तं ५.६५ रातहव्य आत्रेयः |
सूक्तं ५.६६ → |
दे. मित्रावरुणौ। अनुष्टुप्, ६ पङ्क्तिः। |
यश्चिकेत स सुक्रतुर्देवत्रा स ब्रवीतु नः ।
वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥१॥
ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा ।
ता सत्पती ऋतावृध ऋतावाना जनेजने ॥२॥
ता वामियानोऽवसे पूर्वा उप ब्रुवे सचा ।
स्वश्वासः सु चेतुना वाजाँ अभि प्र दावने ॥३॥
मित्रो अंहोश्चिदादुरु क्षयाय गातुं वनते ।
मित्रस्य हि प्रतूर्वतः सुमतिरस्ति विधतः ॥४॥
वयं मित्रस्यावसि स्याम सप्रथस्तमे ।
अनेहसस्त्वोतयः सत्रा वरुणशेषसः ॥५॥
युवं मित्रेमं जनं यतथः सं च नयथः ।
मा मघोनः परि ख्यतं मो अस्माकमृषीणां गोपीथे न उरुष्यतम् ॥६॥
सायणभाष्यम्
‘यश्चिकेत ' इति षड़ृचं नवमं सूक्तं रातहव्यस्यात्रेयस्यार्षं मैत्रावरुणम् । “यश्चिकेत पड्रातहव्यः' इत्यनुक्रमणिका । “ पङ्क्त्यन्तं तु ' इत्युक्तत्वात् पङ्क्त्यन्तपरिभाषयानुष्टुभम् । अन्त्या पङ्क्तिः । विनियोगो लैङ्गिकः ॥
यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः ।
वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिर॑ः ॥१
यः । चि॒केत॑ । सः । सु॒ऽक्रतुः॑ । दे॒व॒ऽत्रा । सः । ब्र॒वी॒तु॒ । नः॒ ।
वरु॑णः । यस्य॑ । द॒र्श॒तः । मि॒त्रः । वा॒ । वन॑ते । गिरः॑ ॥१
यः । चिकेत । सः । सुऽक्रतुः । देवऽत्रा । सः । ब्रवीतु । नः ।
वरुणः । यस्य । दर्शतः । मित्रः । वा । वनते । गिरः ॥१
“यः स्तोता “चिकेत जानाति स्तुतिं युवयोः “स "सुक्रतुः स एव शोभनकर्मा “देवत्रा देवेषु स्तोतृमध्ये । यद्वा देवेषु मध्ये। युवयोरेव स्तुतिं यश्चिकेत स सुक्रतुरिति । “सः सुकर्मा “नः अस्माकं “ब्रवीतु स्तुतिं परम् उपदिशतु । यश्च “दर्शतः दर्शनीयः “वरुणः दर्शनीयः “मित्रो “वा मित्रश्च । वाशब्दश्चार्थे । “गिरः अस्मदीयाः स्तुतीः “वनते संभजते ॥
ता हि श्रेष्ठ॑वर्चसा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।
ता सत्प॑ती ऋता॒वृध॑ ऋ॒तावा॑ना॒ जने॑जने ॥२
ता । हि । श्रेष्ठ॑ऽवर्चसा । राजा॑ना । दी॒र्घ॒श्रुत्ऽत॑मा ।
ता । सत्प॑ती॒ इति॒ सत्ऽप॑ती । ऋ॒त॒ऽवृधा॑ । ऋ॒तऽवा॑ना । जने॑ऽजने ॥२
ता । हि । श्रेष्ठऽवर्चसा । राजाना । दीर्घश्रुत्ऽतमा ।
ता । सत्पती इति सत्ऽपती । ऋतऽवृधा । ऋतऽवाना । जनेऽजने ॥२
“ता “हि तौ खलु मित्रावरुणौ “श्रेष्ठवर्चसा प्रशस्ततेजस्कौ "राजाना ईश्वरौ “दीर्घश्रुत्तमा दूरदेशादाह्वानश्रोतृतमौ । “ता तौ “सत्पती सतां यजमानानां स्वामिनौ “ऋतावृधा यज्ञस्योदकस्य वा वर्धयितारौ "जनेजने सर्वेषु स्तोतृषु निमित्तेषु “ऋतावाना गमनवन्तौ ।।
ता वा॑मिया॒नोऽव॑से॒ पूर्वा॒ उप॑ ब्रुवे॒ सचा॑ ।
स्वश्वा॑स॒ः सु चे॒तुना॒ वाजाँ॑ अ॒भि प्र दा॒वने॑ ॥३
ता । वा॒म् । इ॒या॒नः । अव॑से । पूर्वौ॑ । उप॑ । ब्रु॒वे॒ । सचा॑ ।
सु॒ऽअश्वा॑सः । सु । चे॒तुना॑ । वाजा॑न् । अ॒भि । प्र । दा॒वने॑ ॥३
ता । वाम् । इयानः । अवसे । पूर्वौ । उप । ब्रुवे । सचा ।
सुऽअश्वासः । सु । चेतुना । वाजान् । अभि । प्र । दावने ॥३
“ता तौ “पूर्वौ पुरातनौ "वां युवाम् “इयानः गच्छन् “अवसे रक्षणाय “सचा सह “उप “ब्रुवे उपेत्य स्तौमि । “स्वश्वासः स्वश्वा वयमात्रेयाः । “सुचेतुना शोभनप्रज्ञानौ युवां “वाजानभि अन्नान्यभिलक्ष्य “प्र प्रकर्षेण “दावने दानाय स्तुम इति शेषः । यद्वा । स्वश्वासः स्वश्वौ ॥ द्वितीयाद्विवचनस्य जसादेशः ॥ उप ब्रुव इति संबन्धः ॥
मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया॑य गा॒तुं व॑नते ।
मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ॥४
मि॒त्रः । अं॒होः । चि॒त् । आत् । उ॒रु । क्षया॑य । गा॒तुम् । व॒न॒ते॒ ।
मि॒त्रस्य॑ । हि । प्र॒ऽतूर्व॑तः । सु॒ऽम॒तिः । अस्ति॑ । वि॒ध॒तः ॥४
मित्रः । अंहोः । चित् । आत् । उरु । क्षयाय । गातुम् । वनते ।
मित्रस्य । हि । प्रऽतूर्वतः । सुऽमतिः । अस्ति । विधतः ॥४
“मित्रः देवः "अंहोश्चित् अंहस्वतोऽपि स्तोतुः “आत् अनन्तरमेव “उरु उरवे “क्षयाय गृहाय निवासाय वा "गातुम् उपायं “वनते प्रयच्छति । "मित्रस्य “हि मित्रस्य खलु देवस्य “सुमतिः शोभनबुद्धिः “प्रतूर्वतः प्रकर्षेण हिंसतोऽपि “विधतः परिचरतः शुश्रूषकस्य “अस्ति हि भवति खलु ॥
व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे ।
अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ॥५
व॒यम् । मि॒त्रस्य॑ । अव॑सि । स्याम॑ । स॒प्रथः॑ऽतमे ।
अ॒ने॒हसः॑ । त्वाऽऊ॑तयः । स॒त्रा । वरु॑णऽशेषसः ॥५
वयम् । मित्रस्य । अवसि । स्याम । सप्रथःऽतमे ।
अनेहसः । त्वाऽऊतयः । सत्रा । वरुणऽशेषसः ॥५
“वयं यजमानाः "मित्रस्य दुःखनिवारकस्य देवस्य "सप्रथस्तमे सर्वतः पृथुतमे “अवसि रक्षणे वयं “स्याम भवेम । किंच “अनेहसः अपापाः “त्वोतयः त्वया रक्षिताः “वरुणशेषसः। शेष इत्यपत्यनाम । वारकाः पुत्रा येषां ते । तादृशाः "सत्रा वयं सर्वे सहैव भवेम ॥
यु॒वं मि॑त्रे॒मं जनं॒ यत॑थ॒ः सं च॑ नयथः ।
मा म॒घोन॒ः परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी॑णां गोपी॒थे न॑ उरुष्यतम् ॥६
यु॒वम् । मि॒त्रा॒ । इ॒मम् । जन॑म् । यत॑थः । सम् । च॒ । न॒य॒थः॒ ।
मा । म॒घोनः॑ । परि॑ । ख्य॒त॒म् । मो इति॑ । अ॒स्माक॑म् । ऋषी॑णाम् । गो॒ऽपी॒थे । नः॒ । उ॒रु॒ष्य॒त॒म् ॥६
युवम् । मित्रा । इमम् । जनम् । यतथः । सम् । च । नयथः ।
मा । मघोनः । परि । ख्यतम् । मो इति । अस्माकम् । ऋषीणाम् । गोऽपीथे । नः । उरुष्यतम् ॥६
हे "मित्रा मित्रावरुणौ “युवं युवाम् "इमं “जनं स्तोतारं मां प्रति “यतथः गच्छथः । आगत्य च “सं च "नयथः संनयथश्च । कामान् प्रापयथः । यद्वा । यतथ इत्यन्तर्णीतण्यर्थोऽयम् । अहनि यतथः व्यापारेषु गमयथः । रात्रौ च सं नयथः । निर्व्यापारं कारयथः । “मघोनः हविर्लक्षणान्नवतोऽस्मान् “मा “परि “ख्यतं मा परित्यजतम् । "मो मैव “ऋषीणाम् “अस्माकं पुत्रानपि परि ख्यतम् । किंतु 'गोपीथे । गौः सोमरसः । तस्य पानं यस्मिन् स गोपीथो यज्ञः । तस्मिन् “नः “उरुष्यतं रक्षतम् ॥ ॥ ३ ॥
टिप्पणी
दशरात्रे चतुर्थमहः - शांश्रौ १०.५.४
मण्डल ५ | ||||
---|---|---|---|---|