"ऋग्वेदः सूक्तं ७.५७" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{header |
|||
{{Rig Veda2|[[ऋग्वेदः मण्डल ७]]}} |
|||
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ७|मण्डल ७]] |
|||
| author = मैत्रावरुणिर्वसिष्ठः। |
|||
| translator = |
|||
| section = सूक्तं ७.५७ |
|||
| previous = [[ऋग्वेद: सूक्तं ७.५६|सूक्तं ७.५६]] |
|||
| next = [[ऋग्वेद: सूक्तं ७.५८|सूक्तं ७.५८]] |
|||
| notes = दे. मरुतः। त्रिष्टुप्। |
|||
}} |
|||
<div class="verse"> |
<div class="verse"> |
१०:३८, २५ डिसेम्बर् २०१७ इत्यस्य संस्करणं
← सूक्तं ७.५६ | ऋग्वेदः - मण्डल ७ सूक्तं ७.५७ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.५८ → |
दे. मरुतः। त्रिष्टुप्। |
मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति । ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥१॥ निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म । अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥२॥ नैतावदन्ये मरुतो यथेमे भ्राजन्ते रुक्मैरायुधैस्तनूभिः । आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम् ॥३॥ ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम । मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥४॥ कृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः । प्र णोऽवत सुमतिभिर्यजत्राः प्र वाजेभिस्तिरत पुष्यसे नः ॥५॥ उत स्तुतासो मरुतो व्यन्तु विश्वेभिर्नामभिर्नरो हवींषि । ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥६॥ आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्सर्वताता जिगात । ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः ॥७॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|