स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ००७

विकिस्रोतः तः
Jump to navigation Jump to search
काशीखण्डः

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

अध्यायः १८

अध्यायः १९

अध्यायः २०

अध्यायः २१

अध्यायः २२

अध्यायः २३

अध्यायः २४

अध्यायः २५

अध्यायः २६

अध्यायः २७

अध्यायः २८

अध्यायः २९

अध्यायः ३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ५०

अध्यायः ५१

अध्यायः ५२

अध्यायः ५३

अध्यायः ५४

अध्यायः ५५

अध्यायः ५६

अध्यायः ५७

अध्यायः ५८

अध्यायः ५९

अध्यायः ६०

अध्यायः ६१

अध्यायः ६२

अध्यायः ६३

अध्यायः ६४

अध्यायः ६५

अध्यायः ६६

अध्यायः ६७

अध्यायः ६८

अध्यायः ६९

अध्यायः ७०

अध्यायः ७१

अध्यायः ७२

अध्यायः ७३

अध्यायः ७४

अध्यायः ७५

अध्यायः ७६

अध्यायः ७७

अध्यायः ७८

अध्यायः ७९

अध्यायः ८०

अध्यायः ८१

अध्यायः ८२

अध्यायः ८३

अध्यायः ८४

अध्यायः ८५

अध्यायः ८६

अध्यायः ८७

अध्यायः ८८

अध्यायः ८९

अध्यायः ९०

अध्यायः ९१

अध्यायः ९२

अध्यायः ९३

अध्यायः ९४

अध्यायः ९५

अध्यायः ९६

अध्यायः ९७

अध्यायः ९८

अध्यायः ९९

अध्यायः १००

अगस्तिरुवाच।।
मथुरायां द्विजः कश्चिदभूद्भूदेवसत्तमः।।
तस्य पुत्रो महातेजाः शिवशर्मेति विश्रुतः।। १ ।।
अधीत्यवेदान्विधिवदर्थं विज्ञाय तत्त्वतः।.
पठित्वा धर्मशास्त्राणि पुराणान्यधिगम्य च।।२।।
अंगान्यभ्यस्य तर्कांश्च परिलोड्य समंततः।।
मीमांसाद्वयमालोक्य धनुर्वेदं विगाह्य च।।३।।
आयुर्वेदं विचार्यापि नाट्यवेदे कृतश्रमः ।।
अर्थशास्त्राण्यनेकानि प्राप्याश्वगजचेष्टितम् ।। ४ ।।
कलासु च कृताभ्यासो मन्त्रशास्त्रविचक्षणः ।।
भाषाश्च नाना देशानां लिपीर्ज्ञात्वा विदेशजाः ।। ५ ।।
अर्थानुपार्ज्य धर्मेण भुक्त्वा भोगान्यदृच्छया ।।
उत्पाद्य पुत्रान्सुगुणांस्तेभ्यो ह्यर्थं विभज्य च ।। ६ ।।
यौवनं गत्वरं ज्ञात्वा जरां दृष्ट्वाश्रितां श्रुतिम् ।।
चिन्तामवाप महती शिवशर्मा द्विजोत्तमः ।। ७ ।।
पठतो मे गतः कालस्तथोपार्जयतो धनम् ।।
नाराधितो महेशानः कर्मनिर्मूलनक्षमः ।। ८ ।।
न मया तोषितो विष्णुः सर्वपापहरो हरिः ।।
सर्वकामप्रदो नृणां गणेशो नार्चितो मया ।। ९ ।।
तमस्तोमहरः सूर्यो नार्चि तो वै मया क्वचित् ।।
महामाया जगद्धात्री न ध्याता भवबंधहृत् ।। 4.1.7.१० ।।
न प्रीणिता मया देवा यज्ञैः सर्वैः समृद्धिदाः ।।
तुलसीवन शुश्रूषा न कृता पापशांतये ।। ११ ।।
न मया तर्पिता विप्रा मृष्टान्नैर्मधुरै रसैः ।।
इहापि च परत्रापि विपदामनुतारकाः ।। १२ ।।
बहुपुष्पफलोपेताः सुच्छायाः स्निग्धपल्लवाः ।।
पथि नारोपिता वृक्षा इहामुत्रफलप्रदाः ।। १३ ।।
दुकूलैः स्वानुकूलैश्च चोलैः प्रत्यंगभूषणैः ।।
नालंकृताः सुवासिन्य इहामुत्रसुवासदाः ।। १४ ।।
द्विजाय नोर्वरा दत्ता यमलोकनिवारिणी ।।
सुवर्णं न सुवर्णाय दत्तं दुरितहृत्परम्।।१५।।
नालंकृता सवत्सा गौः पात्राय प्रतिपादिता ।।
इह पापापहंत्र्याशु सप्तजन्मसुखावहा ।। १६ ।।
ऋणापनुत्तये मातुः कारितो न जलाशयः ।।
नातिथिस्तोषितः क्वापि स्वर्गमार्गप्रदर्शकः ।। १७ ।।
छत्रोपानत्कुंडिकाश्च नाध्वगाय समर्पिताः ।।
यास्यतः संयमिन्यां हि स्वर्गमार्गसुखप्रदाः ।। १८ ।।
न च कन्याविवाहार्थं वसु क्वापि मयार्पितम् ।।
इह सौख्यसमृद्ध्यर्थं दिव्यकन्यार्पकं दिवि ।। १९ ।।
न वाजपेयावभृथे स्नातो लोभवशादहम् ।।
इह जन्मनि चान्यस्मिन्बहुमृष्टान्नपानदे ।। 4.1.7.२० ।।
न मया स्थापितं लिंगं कृत्वा देवालयं शुभम ।।
यस्मिन्संस्थापिते लिंगो विश्वं संस्थापितं भवेत् ।। २१ ।।
विष्णोरायतनं नैव कृतं सर्वसमृद्धिदम् ।।
न च सूर्यगणेशानां प्रतिमाः कारिता मया ।। २२ ।।
न गौरी न महालक्ष्मीश्चित्रेपि परिलेखिते ।।
प्रतिमाकरणे चैषां न कुरूपो न दुर्भगः ।। २३ ।।
सुसूक्ष्माणि विचित्राणि नोज्ज्वलान्यंबराण्यपि ।।
समर्पितानि विप्रेभ्यो दिव्यांबर समृद्धये ।। २४ ।।
न तिलाश्च घृतेनाक्ताः सुसमिद्धे हुताशने ।।
हुता वै मन्त्रपूताश्च सर्वपापापनुत्तये ।।२५।।
श्रीसूक्तं पावमानी च ब्राह्मणो मंडलानि च।।
जप्तं पुरुषसूक्तं न पापारि शतरुद्रियम्।।२६।।
अश्वत्थ सेवा न कृता त्यक्त्वा चार्कं त्रयोदशीम्।।
सद्यः पापहरा सा हि न रात्रौ न भृगोर्दिने ।। २७ ।।
शयनीयं न चोत्सृष्टं मृदुला च प्रतूलिका ।।
दीपीदर्पणसंयु्क्तं सर्वभोगसमृद्धिदम् ।। २८ ।।
अजाश्वमहिषी मेषी दासी कृष्णाजिनं तिलाः ।।
सकरंभास्तोयकुंभा नासनं मृदुपादुके ।। २९ ।।
पादाभ्यंगं दीपदानं प्रपादानं विशेषतः ।।
व्यजनं वस्त्रतांबूलं तथान्यन्मुखवासकृत ।। 4.1.7.३० ।।
नित्यश्राद्धं भूतबलिं तथाऽतिथि समर्चनम् ।।
विशन्त्यन्यानि दत्त्वा च प्रशस्यानि यमालये ।। ३१ ।।
न यमं यमदूतांश्च नयामीरपि यातनाः।।
पश्यन्ति ते पुणयभाजो नैतच्चापि कृतं मया।।३२।।
कृच्छ्रचांद्रायणादीनि तथा नक्तव्रतानि च।।
शरीरशुद्धिकारीणि न कृतानि क्वचिन्मया।।३३।।
गवाह्निकं च नोदत्तं कोकंडूतिर्न वै कृता।।
नोद्धृता पंकमग्ना गौर्गोलोकसुखदायिनी।। ३४।।
नार्थिनः प्रार्थितैरर्थैः कृतार्था हि मया कृताः।।
देहिदेहीति जल्पाको भविष्याम्यन्यजन्मनि।। ३५।।
न वेदा न च शास्त्राणि नार्धो दारा न नो सुतः।।
न क्षेत्रं न च हर्म्यादि मायांतमनुयास्यति।।३६।।
शिवशर्मेति संचिंत्य बुद्धिं संधाय सर्वतः।।
निश्चिकाय मनस्येवं भवेत्क्षेमतरं मम ।।३७।।
यावत्स्वस्थोस्ति मे देहो यावन्नेंद्रियविक्लवः।।
तावत्स्वश्रेयसां हेतुं तीर्थयात्रां करोम्यहम्।। ३८।।
दिनानि पंचपाण्येवमतिवाह्य गृहो द्विजः।।
शुभे तिथौ शुभे वारे शुभलग्नबले द्विजः।।३९।।
उपोष्य रजनीमेकां प्रातः श्राद्धं विधाय च।।
गणेशान्ब्राह्मणान्नत्वा भुक्त्वा प्रस्थितवान्सुधीः।।4.1.7.४०।।
इति निश्चित्य निर्वाणपदनिःश्रेणिकां पराम्।।
सर्वेषामेव जंतूनां तत्र संस्थितिकारिणाम्।।४१।।
अथ पंथानमाक्रम्य कियंतमपि स द्विजः।।
मुहूर्तं पथि विश्रम्याचिंतयत्प्राक्क्व याम्यहम्।।४२।।
भुवि तीर्थान्यनेकानि लोलमायुश्चलं मनः।।
ततः सप्तपुरीर्यायां सर्वतीर्थानि तत्र यत्।। ४३।।
अयोध्यां च पुरीं गत्वा सरयूमवगाह्य च ।।
तत्तत्तीर्थेषु संतर्प्य पितॄन्पिंडप्रदानतः।।४४।।
पंचरात्रमुषित्वा तु ब्राह्मणान्परिभोज्य च ।।
प्रयागमगमद्विप्रस्तीर्थराजं सुहृष्टवत् ।। ४५ ।।
सिताऽसिते सरिच्छ्रेष्ठे यत्रास्तां सुरदुर्लभे ।।
यत्राप्लुतो नरः पापः परं ब्रह्माधिगच्छति ।। ४६ ।।
क्षेत्रं प्रजापतेः पुण्यं सर्वेषामेव दुर्लभम् ।।
लभ्यते पुण्यसंभारैर्नान्यथार्थस्य राशिभिः ।। ४७ ।।
दमयंतीं कलिं कालं कलिंदतनयां शुभाम् ।।
आगत्य मिलिता यत्र पुण्या स्वर्गतरंगिणी ।। ४८ ।।
प्रकृष्टं सर्वयागेभ्यः प्रयागमिति गीयते ।।
यज्वनां पुनरावृत्तिर्न प्रयागार्द्रवर्ष्मणाम्।।४९।।
यत्र स्थितः स्वयं साक्षाच्छूलटंको महेश्वरः ।।
तत्राप्लुतानां जंतूनां मोक्षवर्त्मोपदेशकः।।4.1.7.५०।।
तत्राऽक्षय्यवटोऽप्यस्ति सप्तपातालमूलवान्।।
प्रलयेपि यमारुह्य मृकंडतनयोऽवसत् ।। ५१ ।।
हिरण्यगर्भो विज्ञेयः स साक्षाद्वटरूपधृक् ।।
तत्समीपे द्विजान्भक्त्या संभोज्याक्षय पुण्यभाक् ।। ५२ ।।
यत्र लक्ष्मीपतिः साक्षाद्वैकुंठादेत्य मानवान्।।
श्रीमाधवस्वरूपेण नयेद्विष्णोः परं पदम्।।५३।।
श्रुतिभिः परिपठ्येते सिताऽसित सरिद्वरे।।
तत्राप्लुतां गाह्यमृतं भवंतीति विनिश्चितम्।। ५४।।
शिवलोकाद्ब्रह्मलोकादुमालोकवरात्पुनः।।
कुमारलोकाद्वैकुंठात्सत्यलोकात्समंततः।।
तपोजनमहर्भ्यश्च सर्वे स्वर्लोकवासिनः।।
भुवोलोकाच्च भूर्लोकान्नागलोकात्तथाऽखिलात्।।५६।।
अचला हिमवन्मुख्याः कल्पवृक्षादयो नगाः।।
स्नातुं माघे समायांति प्रयागमरुणोदये ।। ५७ ।।
दिगंगनाः प्रार्थयंति यत्प्रयागानिलानपि ।।
तेपि नः पावयिष्यंति किं कुर्मः पंगवो वयम् ।। ५८ ।।
अश्वमेधादियागाश्च प्रयागस्य रजः पुनः ।।
तुलितं ब्रह्मणा पूर्वं न ते तद्रजसा समाः ।। ५९ ।।
मज्जागतानि पापानि बहुजन्मार्जितान्यपि ।।
प्रयागनामश्रवणात्क्षीयंतेऽतीव विह्वलम् ।। 4.1.7.६० ।।
धर्मतीर्थमिदं सम्यगर्थतीर्थमिदं परम् ।।
कामिकं तीर्थमेतच्च मोक्षतीर्थमिदं ध्रुवम् ।। ६१ ।।
ब्रह्महत्यादि पापानि तावद्गर्जंति देहिषु ।।
यावन्मज्जंति नो माघे प्रयागे पापहारिणि ।। ६२ ।।
तद्विष्णोः परमं पदं सदा पश्यंति सूरयः।।
एतद्यत्पठ्यते वेदे तत्प्रयागं पुनः पुनः।।६३।।
सरस्वती रजो रूपा तमोरूपा कलिंदजा।।
सत्त्वरूपा च गंगात्र नयंति ब्रह्मनिर्गुणम्।।६४।।
इयं वेणीहि निःश्रेणी ब्रह्मणो वर्त्मयास्यतः।।
जंतोर्विशुद्धदेहस्य श्रद्धाऽश्रद्धाप्लुतस्य च ।।६५।।
काशीति काचिदबला भुवनेषु रूढा लोलार्क केशवविलोलविलोचना । ।।
तद्दोर्युगं च वरणासिरियं तदीया वेणीति याऽत्र गदिताऽक्षयशर्मभूमिः।। ६६।।
अगस्तिरुवाच।।
सुधर्मिणि गुणांस्तस्य कोत्र वर्णयितुं क्षमः।।
तीर्थराजप्रयागस्य तीर्थैः संसेवितस्य च ।।६७।।
पापिनां यानि पापानि प्रसह्य क्षालितान्यहो।।
तच्छुद्ध्यै सेव्यते तीर्थैः प्रयागमधिकं ततः।। ६८।।
प्रयागस्य गुणान्ज्ञात्वा शिवशर्मा द्विजः सुधीः।।
तत्र माघमुष्त्वाऽथ प्राप वाराणसीं पुरीम्।।६९।।
प्रवेश एव संवीक्ष्य स देहलिविनायकम्।।
अन्वलिंपत्ततो भक्त्या साज्यसिंदूरकर्दमैः।। 4.1.7.७०।।
निवेद्यमोदकान्पंच वंचयंतं निजं जनम्।।
महोपसर्गवर्गेभ्यस्ततोंऽतः क्षेत्रमाविशत्।।७१।।
आगत्य दृष्ट्वा मणिकर्णिकायामुदग्वहां स्वर्गतरंगिणीं सः।।
संक्षीणपुण्येतरपुण्यकर्मणां नृणां गणैः स्थाणुगणैरिवावृताम्।।७२।।
सचैलमाप्लुत्य जलेऽमलेऽमलेऽविलंबमालंबित शुद्धबुद्धिः ।।
संतर्प्य देर्वीषमनुष्यदिव्यपितॄन्पितॄन्स्वान्सहि कर्मकांडवित् ।। ७३ ।।
विधाय च द्राक्स हि पंचतीर्थिकां विश्वेशमाराध्य ततो यथास्वम् ।।
पुनःपुनर्वीक्ष्यपुरीं पुरारेरिदं मयालोकिनवेति विस्मितः ।।७४ ।
न स्वः पुरी सा त्वनया पुरासमं समंजसापि प्रतिसाम्यमावहेत ।।
प्रबंधभेदाद्व्यतिरिक्तपुस्तकप्रतिर्यथा सल्लिपिभेदभंगतः।। ७५ ।।
पयोपि यत्रत्यमचिंत्यवैभवं दिविस्थिता साधुसुधाप्यतोमुधा।।
तथा प्रसूतेस्तु पयोधरे पयो न पीयते पीतमिदं यदि क्वचित्।। ७६ ।।
अनामयाश्चिंतनया न येशितुर्जनामनाग्यत्र विना पिनाकिना ।।
न कर्मसत्कर्मकृतोपि कुर्वतेऽनुकुर्वते शर्वगणांश्च सर्वतः।।७७।
न वर्ण्यते कैः किल काशिकेयं जंतोः स्थितस्यात्र यतोंतकाले ।।
पचेलिमैः प्राक्कृतपुण्यभारैरोंकारमोंकारयतींदुमौलिः।। ७८।।
संसारिचिंतामणिरत्र यस्मात्तं तारकं सज्जनकर्णिकायाम्।।
शिवोभिधत्ते सहसांऽतकाले तद्गीयतेसौ मणि कर्णिकेति ।। ७९ ।।
मुक्तिलक्ष्मी महापीठ मणिस्तच्चरणाब्जयोः ।।
कर्णिकेयं ततः प्राहुर्यां जना मणिकर्णिकाम् ।। 4.1.7.८० ।।
जरायुजांडजोद्भिज्जाः स्वेदजाह्यत्र वासिनः ।।
न समा मोक्षभाजस्ते त्रिदशैर्मुक्तिदुर्दशैः ।। ८१ ।।
मम जन्म वृथाजातं दुर्वृत्तस्य जडात्मनः ।।
नाद्ययावन्मयै क्षिष्ट काशिका मुक्तिकाशिका ।। ८२ ।।
पुनःपुनश्च तत्क्षेत्रमतिथीकृत्यनेत्रयोः ।।
विचित्रं च पवित्रं च तृप्तिं नाधिजगाम ह ।। ८३ ।।
सप्तानां च पुरीणां हि धुरी णामवयाम्यहम् ।।
वाराणसीं सुनिर्वाणविश्राणनविचक्षणाम्।। ८४ ।।
तथापि न चतस्रोन्या मया दृग्गोचरीकृताः ।।
तासां प्रभावं विज्ञायाप्यागमिष्याम्य हं पुनः ।। ८५ ।।
तीर्थयात्रां प्रतिदिनं कुर्वन्नूनं सवत्सरम् ।।
न प्राप सर्वतीर्थानि तीर्थं काश्यां तिलेतिले ।। ८६ ।।
।। अगस्तिरुवाच ।। ।।
जानन्न पि गुणान्देवि क्षेत्रस्यास्य परान्द्विजः ।।
नाना प्रमाणैः प्रवणो निरगात्स तथाप्यहो ।। ८७ ।।
किं कुर्वंति हि शास्त्राणि सप्रमाणानि सुंदरि ।।
महामायां भवित्री तां को निवारयितुं क्षमः ।। ८८ ।।
कः समुच्चलितं चेतस्तोयंवा संप्रतीपयेत् ।।
प्रोच्चथानस्थितमपि स्वभावोयच्चलस्तयोः ।। ८९ ।।
शिवशर्मा व्रजन्सोथ देशाद्देशांतरं क्रमात् ।।
महाकाल पुरीं प्राप कलिकालविवर्जिताम् ।। 4.1.7.९० ।।
कल्पेकल्पेखिलंविश्वं कालयेद्यः स्वलीलया ।।
तं कालं कलयित्वा यो महाकालो भवत्किल ।। ९१ ।।
पापादवंती सा विश्वमवंतीति निगद्यते ।।
युगेयुगेन्यनाम्नी सा कलावुज्जयिनीति च ।। ९२ ।।
विपन्नो यत्र वै जंतुः प्राप्यापि शवतां स्फुटम् ।।
न पूतिगंधमाप्नो ति समुच्छ्रयति न क्वचित् ।। ९३ ।।
यमदूता न यस्यां हि प्रविशंति कदाचन ।।
परःकोटीनि लिंगानि तस्यां संति पदेपदे ।। ९४ ।।
हाटकेशो महाकालस्तारके शस्तथैव च ।।
एकलिंगं त्रिधा भूत्वा त्रिलोकीं व्याप्य संस्थितम् ।। ९५ ।।
ज्योतिः सिद्धवटे ज्योतिस्ते पश्यंतीह ये द्विजाः ।।
अथवाश्रीमहाकालद्रष्टारः पुण्यराशयः ।। ९६ ।।
महाकालस्य तल्लिंगं यैर्दृष्टं कष्टिभिः क्वचित ।।
न स्पृष्टास्ते महापापैर्न दृष्टास्ते यमोद्भटैः ।। ९७।।
महाकालपताकाग्रैः स्पृष्टपृष्ठास्तुरंगमाः ।।
अरुणस्य कशाघातं क्षणं विश्रमयंति खे ।। ९८ ।।
महाकालमहाकालमहाकालेतिसंततम् ।।
स्मरतःस्मरतो नित्यं स्मरकर्तृस्मरांतकौ ।। ९९ ।।
एवमाराध्य भूतेशं महाकालं ततो द्विजः ।।
जगाम नगरीं कांतीं कांतां त्रिभुवनादपि ।। 4.1.7.१०० ।।
लक्ष्मीकांतः स्वयं साक्षाज्जंतूंस्तत्रनिवासिनः ।।
श्रीकांतानेव कुरुते परत्रेह च निश्चितम् ।। १ ।।
दृष्ट्वा कांतीं कांतिमतीं कांतिमद्भिर्निषेविताम् ।।
कांतिमानभवत्सोपि नाकांतिस्तत्र कस्यचित्।।२।।
तत्र कृत्यं च यत्कृत्यं तत्कृत्वा सर्वकृत्यवित् ।।
सप्तरात्रमुषित्वा तु ययौ द्वारवतीं पुरीम् ।। ३ ।।
चतुर्णामपि वर्गाणां यत्र द्वाराणि सर्वतः ।।
अतो द्वारवतीत्युक्ता विद्वद्भिस्तत्त्ववेदिभिः ।। ४ ।।
अस्थीन्यपि च जंतूनां यत्र चक्रांकितान्यहो ।।
किं चित्रं तत्र यत्र स्युः शंखचक्रांकितैः करैः ।। ५ ।।
अंतकः शिक्षयत्येव निजदूतान्मुहुर्मुहुः ।।
ते त्याज्या यैर्द्वारवत्या नामापि परिगृह्यते ।। ६ ।।
श्रीखंडे क्व स आमोदः स्वर्णे वर्णः क्व तादृशः ।।
तत्पावित्र्यं क्व वै तीर्थे तद्गोपीचंदने यथा ।। ७ ।।
दूताः शृण्वंतु यद्भालं गोपचंदनलांछितम् ।।
ज्वलदिंगलवत्सोपि दूरे त्याज्यः प्रयत्नतः ।। ८ ।।
तुलस्यलंकृता ये ये तुलसी नामजापकाः ।।
तुलसीवनपाला ये ते त्याज्या दूरतो भटाः ।। ९ ।।
युगेयुगे द्वारवत्या रत्नानि परितो मुषन् ।।
अब्धीरत्नाकरोद्यापि लोकेषु परिगीयते ।। 4.1.7.११० ।।
द्वारवत्यां म्रियंते ये जंतवः कालनोदिताः ।।
चतुर्भुजाः स्युर्वैकुंठे ते पीतांबरधारिणः।।११।।
तत्रापि संतर्प्य पितॄन्ससदेवर्षिमानवान्।।
तत्र तेषु च तीर्थेषु सस्नौ सर्वेष्वतंद्रितः।।१२।।
ततो मायापुरीं प्राप्तो दुष्प्रापां पापकारिभिः।।
यत्र सा वैष्णवी माया मायापाशैर्नपाशयेत्।।१३।।
केचिदूचुर्हरिद्वारं मोक्षद्वारं ततः परे ।।
गंगाद्वारं च केप्याहुः केचिन्मायापुरं पुनः।।१४।।
यतो विनिर्गता गंगा ख्याता भागीरथी भुवि।।
यन्नामोच्चारणात्पुंसां पापं या ति सहस्रधा ।।१५।।
वैकुंठस्यैकसोपानं हरिद्वारं जगुर्जनाः ।।
अत्राप्लुता नरा यांति तद्विष्णोःपरमं पदम् ।। १६ ।।
तीर्थोपवासकं कृत्वा निशाजागरणं तथा ।।
प्रातः स्नात्वा च गंगायां तर्प्यान्संतर्पप्य सर्वतः ।। १७ ।।
यावत्स पारणं कर्तुमियेष द्विजसत्तमः ।।
तावच्छीतज्वराक्रांतश्चकंपेऽत्यर्थमातुरः ।। १८।।।
वैदेशिकस्तथैकाकी तथाऽतिज्वरपीडितः ।।
चिंतामवाप महती किमेतत्समुपस्थितम् ।। १९ ।।
चिंतार्णवे निमग्नोभूत्त्यक्ताशो जीविते धने ।।
सांयात्रिक इवागाधे भिन्नपोतो महार्णवे ।। 4.1.7.१२० ।।
क्वक्षेत्रं क्व कलत्रं मे क्व पुत्राः क्व च तद्वसु ।।
क्व तद्विचित्रं वै हर्म्यं क्व सा पुस्तकसंभृतिः ।। २१ ।।
अद्यापि नायुः पर्याप्तं प लितं न तथा मयि ।।
ज्वरोयं दारुणः प्राप्तः कालज्ञश्चातिदारुणः।।२२।।
मृत्युर्मूर्ध्निकृतावासो वासो दूरे व्यवस्थितः ।।
अग्नौ गृहोपरि प्राप्ते कूपं तु खनयेदिह।।२३।।
किमेभिश्चिंतनैर्व्यर्थैरतितापकरैर्मम ।।
चिंतयामि हृषीकेशं शिवदं शिवमेव च ।। २४ ।।
अथवा मुक्त्युपायो वै मयैकः सदनुष्ठितः ।।
मुक्तिपुर्यस्तु सप्तैताः स्वनेत्रविषयीकृताः ।। २५ ।।
स्वर्गापवर्गयोरेकः साध्यो हि विदुषा ध्रुवम् ।।
तयोरसाधने पश्चात्संतापेन च तप्यते ।। २६ ।।
अथवा चिंतया किं मे त्वनया दुरवस्थया ।।
रणे वा मरणं श्रेयस्तीर्थेवात्र यथा मम ।। २७ ।।
किमहं मंदभागीव रथ्यां क्वापि म्रियेधुना ।।
भागीरथ्यां म्रिये चाद्य का चिंता मम मूढवत् ।। २८ ।।
चर्मास्थि संचयेनाहमनेन वपुषा ध्रुवम् ।।
प्राप्स्यामि निधनादत्र सिद्धिं नैःश्रेयसीं ध्रुवम् ।। २९ ।।
एवं चिंतयतस्तस्य पीडासीदतिदारुणा ।।
कोटि वृश्चिकदष्टस्य यावस्था तामवाप सः ।। 4.1.7.१३० ।।
स्मर्तव्यं विस्मृतं सर्वं क्वाहं कोहं न वेत्ति च ।।
दिनानि सप्तसप्तेति स्थित्वा पंचत्वमागतः ।। ३१ ।।
तावद्वैकुठभुवनाद् विमानं समुपस्थितम् ।।
तार्क्ष्योपलक्षितो यत्र ध्वजश्चातिसमुच्छ्रितः ।। ३२ ।।
अधिष्ठितं सुकन्यानां स्वर्णकौशेयवाससाम् ।।
चामरव्यग्रहस्तानां सहस्रेणातिविस्तृतम् ।।३३।।
पुण्यशीलसुशीलाभ्यां गणाभ्यां च विराजितम् ।।
चतुर्भुजाभ्यां स्वास्याभ्यां किंकिणीजालमालितम् ।।३४।।
तद्विमानमथारुह्य पीतवासाश्चतुर्भुजः ।।
अलंचक्रे नभोवर्त्म स द्विजो दिव्यभूषणः ।। १३५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां सहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सप्तपुरीवर्णनं नाम सप्तमोऽध्यायः ।। ७ ।। ।। छ ।।