स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९१

विकिस्रोतः तः

।। स्कंद उवाच ।। ।।
पार्वतीशस्य महिमा कथितस्ते मयानघ ।।
मुने निशामयेदानीं गंगेश्वरसमुद्भवम् ।। १ ।।
यं श्रुत्वा यत्रकुत्रापि गंगास्नानफलं लभेत् ।।
चक्रपुष्करिणीतीर्थं यदा गंगा समागता ।। ।। २ ।।
तेन दैलीपिना सार्धमस्मिन्नानंदकानने ।।
क्षेत्रप्रभावमतुलं ज्ञात्वा शंभुपरिग्रहात् ।। ३ ।।
स्मृत्वा लिंगप्रतिष्ठायाः काश्यां लोकोत्तरं फलम् ।।
गंगया स्थापितं लिंगं विश्वेशात्पूर्वतः शुभम्।। ४।।
गंगेश्वरस्य लिंगस्य काश्यां दृष्टिः सुदुर्लभा ।।
तिथौ दशहरायां च यो गंगेशं समर्चयेत् ।। ५ ।।
तस्य जन्मसहस्रस्य पापं संक्षीयते क्षणात् ।।
कलौ गंगेश्वरं लिंगं गुप्तप्रायं भविष्यति ।। ६ ।।
तस्य संदर्शनं पुंसां जायते पुण्यहेतवे ।।
दृष्टं गंगेश्वरं लिंगं येन काश्यां सुदुर्लभम् ।। ७।।
प्रत्यक्षरूपिणी गंगा तेन दृष्टा न संशयः ।।
कलौ सुदुर्लभा गंगा सर्वकल्मषहारिणी ।। ८ ।।
भविष्यति न संदेहो मित्रावरुणनंदन।।
ततोपि तिष्ये संप्राप्ते काश्यत्यंतं सुदुर्लभा ।। ९ ।।
ततोपि दुर्लभं काश्यां लिंगं गंगेश्वराभिधम् ।।
यस्य संदर्शनं पुंसां भवेत्पापक्षयाय वै ।। 4.2.91.१० ।।
श्रुत्वा गंगेश माहात्म्यं न नरो निरयी भवेत् ।।
लभेच्च पुण्यसंभारं चिंतितं चाधिगच्छति ।। ११ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुथें काशीखंड उत्तरार्धे गंगेश्वरमहिमाख्यानं नामैकनवतितमोऽध्यायः ।। ९१ ।।