स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९६

विकिस्रोतः तः
Jump to navigation Jump to search

।। अगस्त्य उवाच ।। ।।
कृप्णद्वैपायनः स्कंद शंभुभक्तिपरो यदि ।।
यदि क्षेत्ररहस्यज्ञः क्षेत्रसंन्यासकृद्यदि ।। १ ।।
तथा दृष्टप्रभावश्चेत्तथा चेज्ज्ञानिनां वरः ।।
पुरीं वाराणसीं श्रेष्ठां कथं किल शपिष्यति ।। २ ।।
।। स्कंद उवाच ।। ।।
सत्यमेतत्त्वया पृच्छि कथयामि मुने शृणु ।।
तस्य व्यासस्य चरितं भविष्यं त्वयि पृच्छति ।। ३ ।।
यदारभ्य मुनेस्तस्य नंदी स्तंभितवान्भुजम् ।।
तदारभ्य महेशानं संस्तौति परमादृतः ।। ४ ।।
काश्यां तीर्थान्यनेकानि काश्यां लिगान्यनेकशः ।।
तथापि सेव्यो विश्वेशः स्नातव्या मणिकर्णिका ।।५ ।।
लिंगेष्वेको हि विश्वेशस्तीर्थेषु मणिकर्णिका ।।
इति संव्याहरन्व्यासस्तद्द्वयं बहु मन्यते ।। ६ ।।
त्यक्त्वा स बहु वाग्जालं प्रातः स्नात्वा दिनेदिने ।।
निर्वाणमंडपे वक्ति महिमानं महेशितुः ।। ७ ।।
शिष्याणां पुरतो नित्यं क्षेत्रस्य महिमा महान् ।।
व्याख्यायते मुदा तेन व्यासेन परमर्षिणा ।। ८ ।।
अत्र यत्क्रियते क्षेत्रे शुभं वाऽशुभमेव वा ।।
संवर्तेपि न तस्यांतस्तस्माच्छ्रेयः समाचरेत् ।। ९ ।।
क्षेत्रसिद्धिं समीहंते ये चात्र कृतिनो जनाः ।।
यावज्जीवं न तैस्त्याज्या सुधीभिर्मणिकर्णिका ।। 4.2.96.१० ।।
चक्रपुष्करिणी तीर्थे स्नातव्यं प्रतिवासरम् ।।
पुष्पैः पत्रैः फलैस्तोयैरर्च्यो विश्वेश्वरः सदा ।। ११ ।।
स्ववर्णाश्रमधर्मश्च त्यक्तव्यो न मनागपि ।।
प्रत्यहं क्षेत्रमहिमा श्रोतव्यः श्रद्धया सकृत् ।।१२।।
यथाशक्ति च देयानि दानान्यत्र सुगुप्तवत् ।।
अन्नान्यपि च देयानि विघ्नान्परिजिहीर्षुणा ।। १३ ।।
परोपकरणं चात्र कर्तव्यं सुधिया सदा ।।
पर्वस्वपि विशेषेण स्नानदानादिकाः क्रियाः ।।१४।।
विशेषपूजा कर्तव्या सुमहोत्सवपूर्वकम ।।
कार्यास्तथाधिका यात्राः समर्च्याः क्षेत्रदेवताः।।।३५।।
अत्र मर्म न वक्तव्यं सुधियां कस्यचित्क्वचित् ।।
परदार परद्रव्य परापकरणं त्यजेत् ।। १६ ।।
परापवादो नो वाच्यः परेर्ष्यां न च कारयेत् ।।
असत्यं नैव वक्तव्यं प्राणैः कंठगतैरपि ।। १७ ।।
अत्रत्य जंतुरक्षार्थमसत्यमपि भाषयेत् ।।
येनकेनप्रकारेण शुभेनाप्यशुभेन वा।।१८।।
अत्रत्यः प्राणिमात्रोपि रक्षणीयः प्रयत्नतः ।।
एकस्मिन्रक्षिते जंतावत्र काश्यां प्रयत्नतः ।।
त्रैलोक्यरक्षणात्पुण्यं यत्स्यात्तत्स्यान्न संशयः ।। १९ ।।
ये वसंति सदा काश्यां क्षेत्रसंन्यासकारिणः ।।
त एव रुद्रा मंतव्या जीवन्मुक्ता न संशयः ।। 4.2.96.२० ।।
ते पूज्यास्ते नमस्कार्यास्ते संतोष्याः प्रयत्नतः ।।
तेषु वै परितुष्टेषु तुष्येद्विश्वेश्वरः स्वयम् ।। २१ ।।
काश्यां वसंति ये मर्त्या दूरस्थैरपि सन्नरैः ।।
योगक्षेमो विधातव्यस्तेषां विश्वेशितुर्मुदे ।। २२ ।।
प्रसरस्त्विंद्रियाणां च निवार्योत्र निवासिभिः ।।
मनसोपि हि चांचल्यमिह वार्यं प्रयत्नतः ।। २३ ।।
मरणं नाभिकांक्षेद्धि कांक्ष्यो मोक्षोऽपिनो पुनः ।।
शरीरशोषणोपायः कर्तव्यः सुधिया नहि ।। २४ ।।
शरीरसौष्ठवं कांक्ष्यं व्रतस्नानादिसिद्धये ।।
आयुर्बह्वत्र वै चिंत्यं महाफलसमृद्धये ।। २८५ ।।
आत्मरक्षात्र कर्तव्या महाश्रेयोभिवृद्धये ।।
अत्रात्म त्यजनोपायं मनसापि न चिंतयेत् ।। २५ ।।
एकस्मिन्नपि यच्चाह्नि काश्यां श्रेयोभिलभ्यते ।।
न तु वर्षशतेनापि तदन्यत्राप्यते क्वचित् ।। २७ ।।
अन्यत्र योगाभ्यसनाद्यावज्जन्म यदर्ज्यते ।।
वाराणस्यां तदेकेन प्राणायामेन लभ्यते ।।२८।।
सर्वतीर्थावगाहाच्च यावज्जन्म यदर्ज्यते ।।
तदानंदवने प्राप्यं मणिकर्ण्येकमज्जनात् ।। ।। २९ ।।
सर्वलिंगार्चनात्पुण्यं यावज्जन्म यदर्ज्यते ।।
सकृद्विश्वेशमभ्यर्च्य श्रद्धया तदवाप्यते ।।4.2.96.३० ।।
यज्जन्मनां सहस्रेण निर्मलं पुण्यमर्जितम् ।।
तत्पुण्यपरिवर्तेन भवेद्विश्वेशदर्शनम् ।। ३। ।।
गवां कोटि प्रदानेन सम्यग्दत्तेन यत्फलम ।।
तत्फलं सम्यगाप्येत विश्वेश्वर विलोकनात् ।। ३२ ।।
यत्षोडशमहादानैः पुण्यं प्रोक्तं महर्षिभिः ।।
तत्पुण्यं जायते पुंसां विश्वेशे पुष्पदानतः ।।३३।।
अश्वमेधादिभिर्यज्ञैर्यत्फलं प्राप्यतेखिलैः ।।
पंचामृतानां स्नपनाद्विश्वेशे तदवाप्यते ।।३४।।
वाजपेयसहस्रेण सम्यगिष्टेन यत्फलम् ।।
सकृन्महार्हैर्नैवेद्यैर्विश्वेशे तच्छताधिकम् ।।३२।।
ध्वजातपत्रं चमरं विश्वेशे यः समर्पयेत् ।।
एकच्छत्रं स वै राज्यं प्राप्नुयाद्वसुधातले ।। ३५ ।।
महापूजोपकरणं योर्पयेद्विश्वभर्तरि ।।
न तं संपत्तिसंभारा विमुंचंतीह कुत्रचित् ।। ३७ ।।
सर्वर्तुकुसुमाढ्यां च यः कुर्यात्पुष्पवाटिकाम् ।।
तदंगणे कल्पवृक्षाश्छायां कुर्वंति शीतलाम् ।।३८।।
यः क्षीरस्नपनार्थं वै विश्वेशे धेनुमर्पयेत् ।।
क्षीरार्णवतटे तस्य निवसेयुः पितामहाः ।। ।। ३९ ।।
विश्वेशराजसदने यः सुधां चित्रमेव वा ।।
कारयेत्तस्य भवनं कैलासचित्रितं भवेत् ।। 4.2.96.४० ।।
ब्राह्मणान्यतिनो वापि तथैव शिवयोगिनः ।।
भोजयेद्योत्र वै काश्यामेकैक गणना क्रमात् ।। ४१ ।।
कोटिभोज्यफलं तस्य श्रद्धया नात्र संशयः ।।
तपस्त्वत्र प्रकर्तव्यं दानमत्र प्रदापयेत् ।। ४२ ।।
विश्वेशस्तोषणीयोत्र स्नानहोमजपादिभिः ।।
अन्यत्र कोटिजप्येन यत्फलं प्राप्यते नरैः ।।
अष्टोत्तरशतं जप्त्वा तदत्र समवाप्यते ।। ४३ ।।
कोटिहोमेन यत्प्रोक्तं फलमन्यत्र सूरिभिः ।।
अष्टोत्तराहुतिशतात्तदत्रानंदकानने ।। ४४ ।।
यो जपेद्रुद्रसूक्तानि काश्यां विश्वेशसन्निधौ ।।
पारायणेन वेदानां सर्वेषां फलमाप्यते ।। ४५ ।।
तस्य पुण्यं न जानामि चिंतिते चाक्षरे परे ।।
काश्यां नित्यं प्रवस्तव्यं सेव्योत्तरवहा सदा ।। ४६ ।।
आपद्यपि हि घोरायां काशी त्याज्या न कुत्रचित् ।।
यतः सर्वापदांहर्ता त्राता विश्वपतिः प्रभुः ।। ४७ ।।
अवंध्यं दिवसं कुर्यात्स्नानदानजपादिभिः ।।
यतः काश्यां कृतं कर्म महत्त्वाय प्रकल्पते ।। ४८ ।।
कृच्छ्रचांद्रायणादीनि कर्तव्यानि प्रयत्नतः ।।
तथेंद्रियविकाराश्च न बाधंतेत्र कर्हिचित् ।। ४९ ।।
यदींद्रियाणि कुर्वंति विक्रियामिह देहिनाम् ।।
तदात्रवाससं सिद्धिर्विघ्नेभ्यो नैव लभ्यते ।। 4.2.96.५० ।।
।। अगस्त्य उवाच ।। ।।
कृच्छ्र चांद्रायणादीनि व्यासो वक्ष्यति यानि वै।।
तेषां स्वरूपमाख्याहि स्कंदेंद्रिय विशुद्धये ।। ५१ ।।
।। स्कंद उवाच ।। ।।
कथयामि महाबुद्धे कृच्छ्रादीनि तवाग्रतः ।।
यानि कृत्वात्र मनुजो देहशुद्धिं लभेत्पराम् ।। ५२ ।।
एकभक्तेन नक्तेन तथैवायाचितेन च ।।
उपवासेन चैकेन पादकृच्छ्रः प्रकीर्तितः ।।५३ ।।
वटोदुंबरराजीव बिल्वपत्रकुशोदकम् ।।
प्रत्येकं प्रत्यहं पीतं पर्णकृच्छ्रः प्रकीर्तितः ।।५४।।
पिण्याकघृततक्रांबु सक्तूनां प्रतिवासरम् ।।
एकैकमुपवासश्च कृच्छ्रः सौम्यः प्रकीर्तितः ।। ५५ ।।
हविषा प्रातरश्नीत हविषा सायमेव च ।।
हविषा याचितं त्रींस्तु सोपवासस्त्रयहं वसेत् ।। ५६ ।।
एकैकग्रासमश्नीयादहानि त्रीणि पूर्ववत् ।।
त्र्यहं चोपवसेदंत्यमतिकृच्छ्रं चरन्द्विजः ।। ५७ ।।
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिः ।।
द्वादशाहोपवासेन पराकः परिकीर्तितः ।। ५८ ।।
त्र्यहं प्रातस्त्रयहं सायं त्र्यहमद्यादयाचितम्।।
त्र्यहं चोपवसेदंत्यं प्राजापत्यं चरन्द्विजः ।। ५९ ।।
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्।।
एकरात्रोपवासश्च कृच्छ्रः सांतपनः स्मृतः ।। 4.2.96.६० ।।
पृथक्सांतपनद्रव्यैः षडहः सोपवासकः ।।
सप्ताहेन तु कृच्छ्रोयं महासांतपनः स्मृतः ।। ६१ ।।
तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् ।।
एतांस्त्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ।। ६२ ।।
त्र्यहमुष्णाः पिबेदापस्त्र्यहमुष्णं पयः पिबेत् ।।
त्र्यहमुष्णघृतं प्राश्य वायुभक्षो दिनत्रयम् ।। ६३ ।।
पलमेकं पयः पीत्वा सर्पिषश्च पलद्वयम् ।।
पलमेकं तु तोयस्य तप्तकृच्छ्र उदाहृतः ।। ६४ ।।
गोमूत्रेण समायुक्तं यावकं यः प्रयोजयेत् ।।
कृच्छ्रमेकाह्न्किं प्रोक्तं शरीरस्य विशोधनम् ।। ६५ ।।
हस्तावुत्तानतः कृत्वा दिवसं मारुताशनः ।।
रात्रौ जले स्थितो व्युष्टः प्राजापत्येन तत्समम्।। ६६।।
एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत्।।
उपस्पृशं स्त्रिषवणमेतच्चांद्रायणं स्मृतम् ।। ६७ ।।
एकैकं वर्धयेद्ग्रासं शुक्ले कृष्णे च ह्रासयेत् ।।
भुंजीत दर्शे नो किंचिदेष चांद्रायणो विधिः ।।६८।।
चतुरः प्रातरश्नीयात्पिंडान्विप्रः समाहितः ।।
चतुरोस्तमिते सूर्ये शिशुचांद्रायणं स्मृतम् ।। ६९ ।।
अष्टावष्टौ समश्नीयात्पिंडान्मध्यंदिने स्थिते ।।
नियतात्मा हविष्यस्य यतिचांद्रायणं स्मृतम् ।। 4.2.96.७० ।।
यथाकथंचित्पिंडानां तिस्रोशीतीः समाहितः ।।
मासेनाश्नन्हविष्यस्य चंद्रस्यैति सलोकताम् ।। ७१ ।।
अद्भिर्गात्राणि शुध्यंति मनः सत्येन शुद्ध्यति ।।
विद्या तपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति ।।७२।।
तच्च ज्ञानं भवेत्पुंसां सम्यक्काशीनिषेवणात् ।।
काशीनिषेवणेन स्याद्विश्वेशकरुणोदयः।। ।। ७३ ।।
ततो महोदयावाप्तिः कर्मनिर्मूलनक्षमा।।
अतः काश्यां प्रयत्नेन स्नान दान तपो जपः ।।७४।।
व्रतं पुराणश्रवणं स्मृत्युक्ताध्व निषेवणम् ।।
प्रतिक्षणे प्रतिदिनं विश्वेश पदचिंतनम् ।। ७५ ।।
लिंगार्चनं त्रिकालं च लिंगस्यापि प्रतिष्ठितिः ।।
साधुभिः सह संलापो जल्पः शिवशिवेति च ।।७६।।
अतिथेश्चापि सत्कारो मैत्रीतीर्थनिवासिभिः ।।
आस्तिक्यबुद्धिर्विनयो मानामान समानधीः ।। ७७ ।।
अकामिता त्वनौद्धत्यमरागित्वमहिंसनम् ।।
अप्रतिग्रहवृत्तिश्च मतिश्चानुग्रहात्मिका ।। ७८ ।।
अदंभितात्वमात्सर्यमप्रार्थितधनागमः ।।
अलोभित्वमनालस्यमपारुष्यमदीनता ।। ७९ ।।
इत्यादि सत्प्रवृत्तिश्च कर्तव्या क्षेत्रवासिना ।।
प्रत्यहं चेति शिष्येभ्यः सधर्ममुपदेक्ष्यति ।। 4.2.96.८० ।।
नित्यं त्रिषवणस्नायी नित्यं भिक्षाकृताशनः ।।
लिंगपूजार्चको नित्यमित्थं व्यासो वसेत्पुरा ।। ।। ८१ ।।
एकदा तस्य जिज्ञासां कर्तुं देवीं हरोवदत् ।।
अद्य भिक्षाटनं प्राप्ते व्यासे परमधार्मिके ।। ८२ ।।
अपि सर्वगते क्वापि भिक्षां मा यच्छ सुंदरि ।।
तथेत्युक्ता भवानी सा भवं भवनिवारणम्।। ८३ ।।
नमस्कृत्य प्रतिगृहं तस्य भिक्षां न्यषेधयत् ।।
स मुनिः सहितः शिष्यैर्भिक्षामप्राप्य दूनवत् ।। ८४ ।।
वेलातिक्रममालोक्य पुनर्बभ्राम तां पुरीम्।।
गृहेगृहे परिप्राप्ता भिक्षान्यैः सर्वभिक्षुकैः ।।८५।।
तदह्निनालभद्भिक्षां सशिष्यः स मुनिः क्वचित् ।।
अथ सायंतनं कर्म कृत्वा छात्रैः समन्वितः ।। ८६ ।।
उपोषणपरो भूत्वा तथैवासीदहर्निशम्।।
अथान्येद्युर्मुनिर्व्यासः कृत्वा माध्याह्निकं विधिम्।। ८७ ।।
ययौ भिक्षाटनं कर्तुं सशिष्यः परितः पुरीम् ।।
सर्वत्र स परिभ्रांतः प्रतिसौधं मुहुर्मुहुः ।। ८८ ।।
न क्वापि लब्धवान्भिक्षां भाग्यहीनो धनं यथा ।।
अथ चिंतितवान्व्यासः परिश्रांतः परिभ्रमन् ।। ८९ ।।
को हेतुर्यन्न लभ्येत भिक्षा यत्नेन रक्षिता ।।
अंतेवासिन आहूय व्यासः पप्रच्छ चाखिलान् ।। 4.2.96.९० ।।
भवद्भिरपि नो भिक्षा परिप्राप्तेति गम्यते ।।
किमत्र पुरि संवृत्तं द्वित्रा यात ममाज्ञया ।। ९१ ।।
द्वितीयेह्न्यपि यद्भिक्षा न लभ्येतातियत्नतः ।।
अनिष्टं किंचिदत्रासीन्महागुरुनिपातजम् ।। ९२ ।।
अन्नक्षयो वा सर्वस्यां नगर्यामभवत्क्षणात् ।।
राजदंडोथ युगपज्जातः सर्वपुरौकसाम् ।। ९३ ।।
अथवा वारिता भिक्षा केनाप्यस्मासु चेर्ष्यया ।।
पुरौकसोभवन्दुस्थास्तूपसर्गेण केनचित् ।। ९४ ।।
किमेतदखिलमज्ञात्वा समागच्छत सत्वरम् ।।
द्वित्राः पवित्रचरणात्प्राप्यानुज्ञां गुरोरथ ।।
समाचख्युः समागम्य दृष्ट्वर्द्धि तत्पुरौकसाम् ।। ९५ ।।
।। शिष्या ऊचुः ।। ।।
शृण्वंत्वाराध्यचरणा नोपसर्गोत्र कश्चन ।।
नान्नक्षयो वा सर्वस्यां नगर्यामिह कुत्रचित् ।। ।। ९६ ।।
यत्र विश्वेश्वरः साक्षाद्यत्राऽमरधुनी स्वयम् ।।
त्वादृशा यत्र मुनयः क्व भीस्तत्रोपसर्गजा ।। ९७ ।।
समृद्धिर्या गृहस्थानामिह विश्वेशितुः पुरि ।।
न सर्द्धिरस्ति वैकुंठे स्वल्पास्ता अलकादयः ।। ९८ ।।
रत्नाकरेषु रत्नानि न तावंति महामुने।।
यावंति संति विश्वेशनिर्माल्योपभुजां गृहे ।। ९९ ।।
गृहेगृहेत्र धान्यानां राशयो यादृशः पुनः ।।
न तादृशः कल्पवृक्षदत्ता ऐंद्रे पुरे क्वचित् ।। 4.2.96.१०० ।।
यत्र साक्षाद्विशालाक्षी सुविस्तारफलप्रदा ।।
न तत्र पुरि सर्वस्यां नरो वै निर्धनः क्वचित् ।। १ ।।
निर्वाणलक्ष्म्याः सदने त्वस्मिन्नानंदकानने ।।
मोक्षोपि यत्र सुलभः किमन्यत्तत्र दुर्लभम् ।। २ ।।
सीमंतिन्यः स्त्रियः सर्वाः पतिव्रतपरायणाः ।।
सर्वा भवानी रूपिण्यो विश्वेशार्पितसत्क्रियाः ।।३।।
यावंतः पुरुषाः काश्यां सर्व एव गणाधिपाः ।।
सर्व एव कुमारा वै सर्वे तारकदृष्टयः ।।४।।
त्रिपुंड्रांकितभाला ये ते सर्वे चंद्रमौलयः ।।
उपसर्गसहस्रैश्च पीड्यमाना अपीह ये ।। ५ ।।
न त्यजंति सदा काशीं सर्वज्ञा एव तेखिलाः ।।
गृहेगृहेपि वटवो ब्रह्मवादविवादिनः ।। ६ ।।
स्वर्धुनी धूतकलुषाः संतीह चतुराननाः ।।
निर्वाणलक्ष्मीपतयः क्षेत्रसंन्यासकारिणः।।७।।
सर्व एव हृषीकेशाः सर्वे वै पुरुषोत्तमाः ।।
अच्युता एव विज्ञेया एतत्क्षेत्रपरिग्रहाः ।। ८ ।।
स्त्रियो वा पुरुषा वापि सर्व एव न संशयः ।।
सर्व एव त्रिनयनाः सर्व एव चतुर्भुजाः ।। ९ ।।
श्रीकंठाः सर्व एवात्र सर्वे मृत्युंजया ध्रुवम् ।।
मोक्षश्री श्रितवर्ष्माणस्त्वर्धनारीश्वरायतः ।। 4.2.96.११० ।।
धर्मराशिः परश्चात्र महांतोऽत्रार्थराशयः ।।
सर्वे कामाः फलंत्यत्र कैवल्यं चात्र निर्मलम् ।। ११ ।।
न गर्भवाससंसर्गः काशीसंस्थितिकारिणाम् ।।
न कलिश्चात्र बाधेत कालो नैव प्रबाधते ।। १२ ।।
एनांसि नात्र बाधंते विश्वेशशरणार्थिनः ।।
यत्र विश्वेश्वरः साक्षान्नादबिंदुकलात्मकः ।। १३ ।।
ध्वनिरूपी हि तत्रास्ति प्रणवो मंत्रविग्रहः ।।
अतो विग्रहवंतोत्र संति वेदा विनिश्चितम् ।। १४ ।।
सरस्वती सरिद्रूपा ह्यतः शास्त्रनिकेतनम् ।।
आनंदकाननं सर्वं धर्मशास्त्रकृतालयम्।। १५ ।।
यावंतो दिवि वै देवास्तावंतोत्र मृषा न हि ।।
नीराजयंति विश्वेशं रात्रौ रात्रौ सदाऽहयः ।। ।। १६ ।।
स्वफणामणिदीपैश्च प्राप्य काशीं रसातलात् ।।
समुद्राः सर्व एवात्र कामधेनुव्रजान्विताः ।।१७।।
पंचपीयूषधाराभिर्विश्वेशं स्नपयंति हि ।।
मंदारः पारिजातश्च संतानो हरिचंदनः ।। १८ ।।
कल्पद्रुमश्च पंचैते तरुभिः सह सर्वदा ।। १९ ।।
सर्वे सुरनिकायाश्च सर्व एव महर्षयः ।।
योगिनः सर्व एवात्र काशीनाथमुपासते ।।4.2.96.१२०।।
विद्यानां सदनं काशी काशी लक्ष्म्याः परालयः ।।
मुक्तिक्षेत्रमिदं काशी काशी सर्वा त्रयीमयी।।२१।।
इति श्रुत्वा मुनिवरः पाराशर्यो महातपाः ।।
एवं बभाषे ताञ्शिष्यान्पुनःश्लोकं पठंत्वमुम् ।। २२ ।।
।। शिष्या ऊचुः ।। ।।
विद्यानां चाश्रयः काशी काशी लक्ष्म्याः परालयः ।।
मुक्तिक्षेत्रमिदं काशी काशी सर्वा त्रयीमयी ।। २३ ।।
।। स्कंद उवाच ।। ।।
निशम्येति तदा व्यासः क्रोधांधीकृतलोचनः ।।
क्षुत्कृशानुज्वलन्मूर्तिः काशीं शप्स्यति कुंभज ।। ।। २४ ।।
।। व्यास उवाच ।। ।।
मा भूत्त्रैपूरुषीविद्या मा भूत्त्रैपूरुषं धनम् ।।
मा भूत्त्रैपृरुषी मुक्तिः काशीं व्यासः शपन्निति ।।२५।।
गर्वः परोत्र विद्यानां धनगर्वोत्र वै महान् ।।
मुक्तिगर्वेण नो भिक्षां प्रयच्छंत्यत्र वासिनः ।। २६ ।।
इति कृत्वा मतिं व्यासः काश्यां शापमदात्तदा ।।
दत्त्वापि शापं स मुनिर्भिक्षितुं क्रोधवान्ययौ।। ।। २७ ।।
प्रतिगेहं त्वरायुक्तः प्रविशन्व्योमदत्तदृक् ।।
बभ्राम नगरीं सर्वां क्वापि भैक्षं न लब्धवान् ।।२८।।
अंशुमालिनमावीक्ष्य मनाग्लोहितमंडलम् ।।
भिक्षापात्रं परिक्षिप्य निर्ययावाश्रमं प्रति ।। २९ ।।
अथ गच्छन्महादेव्या गृहद्वारि निषण्णया ।।
प्राकृतस्त्रीस्वरूपिण्या भिक्षायै प्रार्थितोतिथिः ।। 4.2.96.१३० ।।
।। गृहिण्युवाच ।। ।।
भगवन्भिक्षुकास्तावदद्य दृष्टा न कुत्रचित् ।।
असत्कृत्यातिथिं नाथो न मे भोक्ष्यति कर्हिचित् ।। ३१ ।।
वैश्वदेवादिकं कर्म कृत्वा गृहपतिर्मम ।।
प्रतीक्षेतातिथिपथं तस्मात्त्वमतिथिर्भव ।। ३२ ।।
विनातिथि गृहस्थोयस्त्वन्नमेको निषेवते ।।
निषेवतेऽघं स परं सहितः स्वपितामहैः ।। ३३ ।।
तस्मात्त्वरितमायाहि कुरु मे पत्युरीहितम् ।।
गार्हस्थ्यं सफलं कर्तुमिच्छतोऽतिथिपूजनात् ।। ३४ ।।
इति श्रुत्वा गतामर्षो व्यासस्तामाह विस्मितः ।।
।। व्यास उवाच ।। ।।
भद्रे का त्वं कुतः प्राप्ता पूर्वं दृष्टा न कुत्रचित् ।। ३५ ।।
मन्ये धर्ममयी मूर्तिः कापि त्वं शुचिमानसा ।।
त्वद्दर्शनात्परां प्रीतिं संप्राप्तानींद्रियाणि मे ।। ३६ ।।
त्वं सुधैव भवेः प्रायः सर्वावयवसुंदरि ।।
मंदराघातसंत्रासात्यक्तक्षीरार्णवस्थितिः ।। ३७ ।।
कलासुधाकरस्याथ कुहू राहुभयार्दिता ।।
सीमंतिनी स्वरूपेण तिष्ठेः काश्यामनिर्भया ।। ३८ ।।
अथवा कमलासि त्वं विहाय कमलालयम् ।।
निशि संकोचिनं काश्यां विकाशिन्यां वसेः सदा ।। ३९ ।।
किंवा नु करुणामूर्तिरिह काशिनिवासिनाम् ।।
सर्वदुःखौघहरिणी परानंदप्रदायिनी ।। 4.2.96.१४० ।।
वाराणस्याः किमथवाऽधिष्ठात्री देवता त्वमु।।
किं वा निर्वाणलक्ष्मीस्त्वं या काश्यां परिगीयते ।। ४१ ।।
श्वपाकं यायजूकं वा प्रांतेऽलंकुर्वती समम्।।
मद्भाग्यं वा परिणतमेतद्योषित्स्वरूपतः ।। ४२ ।।
अथवा सा भवेन्नूनं या क्षेत्रे परिगीयते ।।
भक्तपोतप्रदा भक्त्या भवानी भवनाशिनी ।। ४३ ।।
सर्वथैव न नारी त्वं नासुरी नैव किन्नरी।।
विद्याधरा न नो नागी नो गंधर्वी न यक्षिणी ।। ४४ ।।
त्वमिष्टदेवतैवासि काचिन्मे मोहहारिणी ।।
केयं चिंताथवामेत्र काचित्त्वं भव सुंदरि ।।४५।।
परवानस्म्यहं जातस्तवदर्शनतोऽधुना ।।
अवश्यमेवकर्तास्मि तवादेश्यं तदादिश ।। ४६ ।।
एकं तपोव्ययं हित्वा कारयिष्यसि यत्पुनः ।।
तदेवाहं करिष्यामि विधेयः शुभलोचने ।। ४७ ।।
न वचस्त्वादृशीनांहि महत्त्वं हापयेत्सताम् ।।
परं त्वं कासि सुभगे सत्यं ब्रूहि ममाग्रतः ।। ४८ ।।
अथवा तव देहेस्मिन्क्वा सत्यं निर्मलेक्षणे ।।
इति पृष्टाह मुनिना सा विश्वायुर्घटोद्भव ।। ४९ ।।
अत्रत्यस्यैव हि मुने गृहिणी गृहमेधिनः ।।
नित्यं वीक्षे चरंतं त्वां भिक्षां शिष्यगणैर्वृतम् ।। 4.2.96.१५० ।।
त्वमेव मां नो जानीषे जाने त्वामहमेव हि ।।
तपस्विन्किं बहूक्तेन यावन्नास्तं व्रजेद्रविः ।। ५१ ।।
प्राणनाथस्य मे तावदातिथ्यं सफलीकुरु ।।
तच्छुत्वा स मुनिः प्राह विनयानतकंधरः ।। ५२ ।।
।। व्यास उवाच ।। ।।
अस्ति मे नियमः कश्चित्स सिद्धिं चेद्व्रजेच्छुभे ।।
एकभिक्षां तदाहं तु करिष्ये नान्यथा पुनः ।। ५३ ।।
तपस्व्युदीरितं श्रुत्वा सा प्रोवाच वचस्ततः ।।
अविशंक वद मुने कस्तेस्ति नियमः सुधीः ।। ५४ ।।
मम भर्तुः प्रसादेन किंचिन्न्यूनं यतोऽत्र न ।।
इति श्रुत्वा प्रहृष्टात्मा स तामाह तपोधनः ।। ५५ ।।
अयुतं मम शिष्या ये तैः सपक्तिमहं वृणे ।।
अस्तं यावन्न यात्यर्कस्तावद्भोक्ष्येन्यथा नहि ।। ५६ ।।
निशम्येति प्रहृष्टास्या सा प्रोवाच मुनिंततः ।।
किं विलंबेन तद्याहि सर्वाञ्शिष्यान्समाह्वय ।। ५७. ।।
पुनः प्राह स तां साध्वि त्वेतावत्सिद्धिरस्ति ते ।।
येन तृप्तिं गमिष्यंति मच्छिष्याः सर्व एव ते।।५८।।
स्मित्वाथ साब्रवीत्तं तु मुने भर्तुरनुग्रहात् ।।
सिद्धमेव सदैवास्ते सर्वं तावन्ममालये ।।।। ५९ ।।
यावतार्थिजनस्तृप्तिमेति सर्वोपि सर्वशः ।।
वयं न तादृङ्महिला भर्तृसंदेहकारिकाः ।। 4.2.96.१६० ।।
आयातोर्थी यदा गेहे सिद्धं कार्यं तदैव हि ।।
परिपूर्णा दिशः सर्वाः परिपूर्णामनोरथाः ।। ६१ ।।
परिपूर्णगृहं सर्वं पत्युःपाद प्रसादतः ।।
याहि तूर्णं समायाहि यावदन्नार्थिभिः सह ।। ६२ ।।
पतिर्मे बहुकालीनः कालं न सहते चिरम् ।।
प्रियातिथिः प्रियतमस्तदातिथ्यसमृद्धये ।।६३।।
आशु गत्वा समागच्छ यावन्नास्तमितो रविः ।।
इति प्रहृष्टस्त्वरितः शिष्यानाहूय सर्वतः ।। ।। ६४ ।।
आगत्यतां पुनः प्राह दृष्ट्वा तन्मार्गलोचनाम् ।।
मातः सर्वे समायातास्त्वरितं देहि भोजनम् ।। ६५ ।।
अस्ताचलं हि समया समियादेष भास्करः ।।
इत्युक्त्वा मंदिरस्यांतर्विविशुस्ते तपोधनाः ।। ६६ ।।
तन्मंडपमणिज्योतिस्तत्याहितदिनश्रियः ।।
यावद्गच्छतितत्सौधमध्यमाशु तपस्विनः ।। ६७ ।।
पादौप्रक्षाल्य तावत्ते कैश्चित्कैश्चित्समर्च्य च ।।
कतिचित्परिविष्टान्ना भोक्तुमेवोपवेशिताः ।। ६८ ।।
तद्दिव्यपाकसंभारान्दृष्टवा तद्दृष्टयः क्षणात् ।।
परातृप्तिमुपागच्छन्घ्राणन्यामोदराजिभिः ।। ६९ ।।
अतितृप्तिं समापन्नास्ते तदन्ननिषेवणात् ।।
आचांताश्चंदनैः स्रग्भिरंबरैः परिभूषिताः ।। 4.2.96.१७० ।।
अथ सांध्यं विधिं कृत्वा प्रोपविश्य तदग्रतः ।।
अभिनंद्य महाशीर्भिर्यावद्गंतुं प्रचक्रमुः ।। ७१ ।।
तावद्वृद्धगृहस्थेन गृहिणी सा कटाक्षिता ।।
पप्रच्छ तीर्थे वसतां को धर्मो मुख्य एव हि ।। ७२ ।।
तथा तदनुसारेण तीर्थे वर्तामहे वयम् ।।
सर्वधर्मविदां श्रेष्ठः श्रुत्वा तद्गृहिणी वचः ।।७३।।
तदादरसुधाक्लिन्न महान्नस्वादतर्पितः ।।
प्रत्युवाच मुनिर्व्यासः स्मित्वा तां सर्ववित्तमाम् ।।७४।।
।। व्यास उवाच ।। ।।
स्वच्छांतःकरणेमातर्महामिष्टान्नमानदे ।।
स एष धर्मो नान्योस्ति यत्त्वया परिचर्यते ।।७५।।
त्वमेव धर्मं जानासि पतिशुश्रूषणे रता ।।
यदि पृच्छसि मां सत्यं तदा किंचन वच्मि ते ।। ७६ ।।
वक्तव्यमेव पृष्टेन मनागपि विजानता ।।
स एव धर्मः सुभगे नान्यो धर्मोस्ति कश्चन ।। ७७ ।।
येनैष तोषमायाति तव भर्ता चिरंतनः ।।
।। गृहिण्युवाच ।। ।।
अयं धर्मो भवेन्नूनं क्रियते च स्वशक्तितः ।। ७८ ।।
साधारणानि धर्माणि संपृच्छे तानि मे वद ।।
।। व्यास उवाच ।। ।।
अनुद्वेगकरं वाक्यं परोत्कर्षसहिष्णुता ।।७९।।
विचार्य कारिता नित्यं स्वधिष्ण्योदय चिंतनम् ।।
गृहस्थ उवाच ।। ।।
एषु धर्मेषु भो विद्वंस्त्वयि कोस्तीह तद्वद ।। 4.2.96.१८० ।।
 ततः स्थगितवद्व्यासस्तस्थौ किंचिन्न चोक्तवान् ।।
ततः पुनर्गृहस्थेन स हि प्रोक्तस्तपोधनः ।। ८१ ।।
यद्येत एव वै धर्मास्त्वया ये प्रतिपादिताः ।।
तद्दांतता तवैवैक्षि दानं शापस्य चोत्तमम् ।। ८२ ।।
त्वय्येव हि दया सम्यग्धैर्यं त्वय्येव चोत्तमम् ।।
त्वयि संभावनास्त्येव कामक्रोधविनिग्रहे ।। ८३ ।।
त्वमेव सम्यग्जानीषे वक्तुं चोद्वेगवर्जितम् ।।
त्वय्येव सम्यग्दृश्येत परोत्कर्ष सहिष्णुता ।। ८४ ।।
विचार्य कारितायाश्च त्वमेव निलयोमहान् ।।
स्वस्यधिष्ण्यस्य च भवांश्चिंतयेदुदयं ध्रुवम् ।। ८५ ।।
ममैकं ब्रूहि भो विद्वञ्छापं दद्याच्च यः क्रुधा ।।
अलभन्स्वार्थसंसिद्धिमभाग्यात्तस्य कस्य सः ।। ८६ ।।
।। व्यास उवाच ।। ।।
यः स्वार्थसिद्धिमलभन्नभाग्याच्छपति क्रुधा ।।
स शापः प्रत्युत भवेच्छप्तुरेवाविवेकिनः ।। ८७ ।।
।। गृहस्थ उवाच ।। ।।
भवता भ्रमता विप्र नाप्ताभिक्षा यदाप्यहो ।।
तदापराद्धं किमिह वराकैः क्षेत्रवासिभिः ।। ८८ ।।
तपस्विञ्शृणु मे वाक्यं राजधान्यां ममेह यः ।।
ऋद्धिं द्रष्टुं न शक्नोति परिशप्तः स एव हि ।। ८९ ।।
अद्य प्रभृति न क्षेत्रे मदीये शापवर्जिते ।।
आवस क्रोधन मुने न वासे योग्यतात्र ते ।। ।। 4.2.96.१९० ।।
इदानीमेव निर्गच्छ बहिः क्षेत्रादितो भव ।।
त्वद्विधानां न योग्यं मे क्षेत्रं मोक्षैकसाधनम् ।। ९१ ।।
अत्राल्पमपि यद्दौष्ट्यं कृतं मत्क्षेत्रवासिनाम् ।।
तद्दौष्ट्यस्य परीपाको रुद्रपैशाच्यमेव हि ।। ९२ ।।
तच्छ्रुत्वा वेपमानः स परिशुष्कौष्ठतालुकः ।।
जगाम शरणं गौरीं लुठंस्तच्चरणाग्रतः ।। ९३ ।।
उवाच च वचो मातस्त्राहि त्राहि भृशं रुदन् ।।
अनाथस्त्वत्सनाथोहं बालिशस्तव बालकः ।। ९४ ।।
शरणागतं च संत्राहि रक्ष मां शरणागतम् ।।
बहूनामागसां गेहमस्माकं दुष्टमानसम्।। ९५ ।।
शंभुशापोऽन्यथाकर्तुं भवत्यापि न शक्यते ।।
अहं च शरणायातस्तदेकं क्रियतां शिवे ।। ९६ ।।
प्रत्यष्टमि सदा क्षेत्रे प्रतिभूतं च पार्वति ।।
दिश प्रवेशनादेशं नेशस्त्वद्वाक्यलंघकः ।। ९७ ।।
इत्युक्ता तेन मुनिना भवानी करुणाजनिः ।।
मुखं महेशितुर्वीक्ष्य तथेत्याह तदाज्ञया ।। ९८ ।।
अथांतर्हितवंतौ तौ शिवौ क्षेत्रशिवंकरौ ।।
व्यासोपि निर्ययौ क्षेत्रात्स्वापराधवशं वदन्।। ९९ ।।
अहोरात्रं स पश्यन्वै क्षेत्रं दृष्टेरदूरगम् ।।
प्राप्याष्टमीं च भूतां च मध्ये क्षेत्रं सदा विशेत् ।। 4.2.96.२०० ।।
लोलार्कादग्निदिग्भागे स्वर्धुनीं पूर्वरोधसि ।।
स्थितो ह्यद्यापि पश्येत्स काशीप्रासादराजिकाम् ।। १ ।।
।। स्कंद उवाच ।। ।।
इत्थं कुंभज स व्यासः क्षेत्रे शापं प्रदास्यति ।।
क्षेत्रशापप्रदानाच्च बहिर्यास्यति तत्क्षणात् ।। ।। २ ।।
अतएवाविमुक्तस्य क्षेत्रस्य शुभशंसिनः ।।
भविष्यति शुभं नित्यमन्यथा त्वन्यथैव हि ।। ३ ।।
श्रुत्वाध्यायमिमं पुण्यं व्यासशाप विमोक्षणम् ।।
महादुर्गोपसर्गेभ्यो भयं तस्य न कुत्रचित् ।। २०४ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे व्यासशापविमोक्षणं नाम षण्णवतितमोऽध्यायः ।। ९६ ।। ।। छ ।।