स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०५८

विकिस्रोतः तः
Jump to navigation Jump to search

।। अगस्त्य उवाच ।।
किं चकार हरः स्कंद मंदराद्रिगतस्तदा ।।
विलंबमालंबयति तस्मिन्नपि गजानने ।। १ ।।
।। स्कंद उवाच ।। ।।
शृण्वगस्त्य कथां पुण्यां कथ्यमानां मयाधुना।।
वाराणस्येकविषयामशेषाघौघनाशिनीम् ।।२ ।।
करींद्रवदने तत्र क्षेत्रवर्येऽविमुक्तके।।
विलंबभाजित्र्यक्षेण प्रैक्षिक्षिप्रमधोक्षजः ।। ३ ।।
प्रोक्तोथ बहुशश्चेति बहुमानपुरःसरम् ।।
तथा त्वमपि माकार्षीर्यथा प्राक्प्रस्थितैः कृतम् ।। ४ ।।
।। श्रीविष्णुरुवाच ।। ।।
उद्यमः प्राणिभिः कार्यो यथाबुद्धि बलाबलम् ।।
परं फलंति कर्माणि त्वदधीनानि शंकर ।। ५ ।।
अचेतनानि कर्माणि स्वतंत्राः प्राणिनोपि न ।।
त्वं च तत्कर्मणां साक्षी त्वं च प्राणिप्रवर्तकः ।। ६ ।।
किंतु त्वत्पादभक्तानां तादृशी जायते मतिः ।।
यया त्वमेव कथयेः साध्वनेनत्वनुष्ठितम् ।। ७ ।।
यत्किंचिदिह वै कर्मस्तोकं वाऽस्तोकमेव वा ।।
तत्सिद्ध्यत्येव गिरिश त्वत्पादस्मृत्यनुष्ठितम् ।। ८ ।।
सुसिद्धमपि वै कार्यं सुबुद्ध्यापि स्वनुष्ठितम् ।।
अत्वत्पदस्मृतिकृतं विनश्यत्येव तत्क्षणात् ।। ९ ।।
शंभुना प्रेषितेनाद्य सूद्यमः क्रियते मया ।।
त्वद्भक्तिसंपत्तिमतां संपन्नप्राय एव नः ।। 4.2.58.१० ।।
अतीव यदसाध्यं स्यात्स्वबुद्धिबलपौरुषैः ।।
तत्कार्यं हि सुसिद्धं स्यात्त्वदनुध्यानतः शिव ।। ११ ।।
यांति प्रदक्षिणीकृत्य ये भवंतं भवं विभो ।।
भवंति तेषां कार्याणि पुरोभूतानि ते भयात् ।। १२ ।।
जातं विद्धि महादेव कार्यमेतत्सुनिश्चितम् ।।
काशीप्रावेशिकश्चिंत्य शुभलग्नोदयः परम् ।। १३ ।।
अथवा काशिसंप्राप्तौ न चिंत्यं हि शुभाशुभम् ।।
तदैव हि शुभः कालो यदैवाप्येत काशिका ।। १४ ।।
शंभुं प्रदक्षिणीकृत्य प्रणम्य च पुनःपुनः ।।
प्रतस्थेऽथ सलक्ष्मीको मंदराद्गरुडध्वजः ।। १५ ।।
दृशोरतिथितां नीत्वा विष्णुर्वाराणसीं ततः ।।
पुंडरीकाक्ष इत्याख्यां सफलीकृतवान्मुदा ।। १६ ।।
गंगावरणयोर्विष्णुः संभेदे स्वच्छमानसः ।।
प्रक्षाल्य पाणिचरणं सचैलः स्नातवानथ ।।१७।।
तदाप्रभृति तत्तीर्थं पादोदकमितीरितम् ।।
पादौ यदादौ शुभदौ क्षालितौ पीतवाससा ।। १८ ।।
तत्र पादोदके तीर्थे ये स्नास्यंतीह मानवाः ।।
तेषां विनश्यति क्षिप्रं पापं सप्तभवार्जितम् ।। १९ ।।
तत्र श्राद्धं नरः कृत्वा दत्त्वा चैव तिलोदकम्।।
सप्तसप्त तथा सप्त स्ववंश्यांस्तारयिष्यति ।। 4.2.58.२० ।।
गयायां यादृशी तृप्तिर्लभ्यते प्रपितामहैः ।।
तीर्थे पादोदके काश्यां तादृशी लभ्यते ध्रुवम् ।। २१ ।।
कृतपादोदक स्नानं पीतपादोदकोदकम् ।।
दत्तपादोदपानीयं नरं न निरयः स्पृशेत् ।। २२ ।।
विष्णुपादोदके तीर्थे प्राश्य पादोदकं सकृत् ।।
जातुचिज्जननीस्तन्यं न पिबेदिति निश्चितम् ।। २३ ।।
सचक्र शालग्रामस्य शंखेन स्नापितस्य च ।।
अद्भिः पादोदकस्यांबु पिबन्नमृततां व्रजेत् ।। २४ ।।
विष्णुपादोदके तीर्थे विष्णुपादोदकं पिबेत् ।।
यदि तत्सुधया किं नु बहुकालीनयातया ।। २५ ।।
काश्यां पादोदके तीर्थे यैः कृता नोदकक्रियाः ।।
जन्मैव विफलं तेषां जलबुद्बुद सश्रियाम् ।।२६।।
कृतनित्यक्रियो विष्णुः सलक्ष्मीकः सकाश्यपिः ।।
उपसंहृत्य तां मूर्तिं त्रैलोक्यव्यापिनीं तथा ।। २७ ।।
विधाय दार्षदीं मूर्तिं स्वहस्तेनादिकेशवः ।।
स्वयं संपूजयामास सर्वसिद्धिसमृद्धिदाम् ।। २८ ।।
आदिकेशवनाम्नीं तां श्रीमूर्तिं पारमेश्वरीम् ।।
संपूज्य मर्त्यो वैकुंठं मन्यते स्वगृहांगणम् ।। २९ ।।
श्वेतद्वीप इति ख्यातं तत्स्थानं काशिसीमनि ।।
श्वेतद्वीपे वसंत्येव नरास्तन्मूर्तिसेवकाः ।। 4.2.58.३० ।।
क्षीराब्धिसंज्ञं तत्रान्यत्तीर्थं केशवतोग्रतः ।।
कृतोदकक्रियस्तत्र वसेत्क्षीराब्धिरोधसि ।। ३१ ।।
तत्र श्राद्धं नरः कृत्वा गां दत्त्वा च पयस्विनीम् ।।
यथोक्तसर्वाभरणां क्षीरोदे वासयेत्पितॄन् ।। ३२ ।।
एकोत्तरशतं वंश्यान्नवेत्पायस कर्दमम् ।।
क्षीरोदरोधः पुण्यात्मा भक्त्या तत्रैकधेनुदः ।।३३।।
बह्वीश्च नैचिकीर्दत्त्वा श्रद्धयात्र सदक्षिणाः ।।
शय्योत्तरांश्च प्रत्येकं पितॄंस्तत्र सुवासयेत्।।३४।।
क्षीरोदाद्दक्षिणे तत्र शंखतीर्थमनुत्तमम् ।।
तत्रापि संतर्प्यपितॄन्विष्णुलोकेमहीयते ।। ३५ ।।
तद्याम्यां चक्रतीर्थं च पितॄणामपि दुर्लभम् ।।
तत्रापि विहितश्राद्धो मुच्यते पैतृकादृणात् ।।३६।।
तत्संन्निधौ गदातीर्थं विष्वगाधिनिबर्हणम् ।।
तारणं च पितॄणां वै कारणं चैनसां क्षये ।। ३७ ।।
पद्मतीर्थं तदग्रे तु तत्र स्नात्वा नरोत्तमः ।।
पितॄन्संतर्प्य विधिना पद्मयानेव हीयते ।। ३८ ।।
तत्रैव च महालक्ष्म्यास्तीर्थं त्रैलोक्यविश्रुतम् ।।
स्वयं यत्र महालक्ष्मीः स्नाता त्रैलोक्यहर्षदा ।।३९।।
तत्र तीर्थे कृतस्नानो दत्त्वा रत्नानि कांचनम् ।।
पट्टांबराणि विप्रेभ्यो न लक्ष्म्या परिहीयते ।।4.2.58.४०।।
यत्रयत्र हि जायेत तत्रतत्र समृद्धिमान् ।।
पितरोपि हि सुश्रीकास्तस्य स्युस्तीर्थगौरवात् ।।४१।।
तत्रास्ति हि महालक्ष्म्या मूर्तिस्त्रैलोक्यवंदिता ।।
तां प्रणम्य नरो भक्त्या न रोगी जायते क्वचित् ।। ४२ ।।
नभस्य बहुलाष्टम्यां कृत्वा जागरणं निशि।।
समभ्यर्च्य महालक्ष्मीं व्रती व्रतफलं लभेत् ।। ४३ ।।
तार्क्ष्य तीर्थं हि तत्रास्ति तार्क्ष्यकेशवसन्निधौ।।
तत्र स्नात्वा नरो भक्त्या संसाराहिं न पश्यति ।। ४४ ।।
तदग्रे नारदं तीर्थं महापातकनाशनम् ।।
ब्रह्मविद्योपदेशं च प्राप्तवान्यत्र नारदः ।।४५।।
तत्र स्नातो नरः सम्यग्ब्रह्मविद्यामवाप्नुयात् ।।
केशवात्तेन तत्रोक्तः काश्यां नारदकेशवः ।।४६ ।।
अर्चयित्वा नरो भक्त्या देवं नारदकेशवम् ।।
जनन्या जठरं पीठमध्यास्ते न कदाचन ।। ४७ ।।
प्रह्लादतीर्थं तस्याग्रे यत्र प्रह्लादकेशवः ।।
तत्र श्राद्धादिकं कृत्वा विप्णुलोके महीयते ।। ४८ ।।
आंबरीषमहातीर्थमघघ्नं तस्य सन्निधौ ।।
तत्रौदकीं क्रियां कुर्वन्निष्कालुष्यं लभेन्नरः ।।४९।।
आदित्यकेशवः पूज्य आदिकेशव पूर्वतः ।।
तस्य संदर्शनादेव मुच्यते चोच्चपातकैः ।। ।। 4.2.58.५० ।।
दत्तात्रेयेश्वरं तीर्थं तत्रैवादिगदाधरः ।।
पितॄन्संतर्प्य तत्रैव ज्ञानयोगमवाप्नुयात् ।।५१ ।।
भृगुकेशवपूर्वेण तीर्थं वै भार्गवं परम् ।।
तत्र स्नातो नरः प्राज्ञो भवेद्भार्गववत्सुधीः ।। ५२ ।।
तत्र वामनतीर्थं च प्राच्यां वामनकेशवात् ।।
पूजयित्वा च तं विष्णुं वसेद्वामनसन्निधौ ।। ५३ ।।
नरनारायणं तीर्थं नरनारायणात्पुरः ।।
तत्र तीर्थे कृतस्नानो नरो नारायणो भवेत् ।। ५४ ।।
यज्ञवाराह तीर्थं च तदग्रे पापनाशनम् ।।
प्रतिमज्जनतस्तत्र राजसूय क्रतोः फलम् ।। ५५ ।।
विदारनारसिंहाख्यं तत्र तीर्थं सुनिर्मलम् ।।
स्नातो विदारयेत्तत्र पापं जन्मशतार्जितम् ।। ५६ ।।
गोपिगोविंद तीर्थं च गोपिगोविंदपूर्वतः ।।
स्नात्वा तत्र समभ्यर्च्य विष्णुं विष्णुप्रियो भवेत् ।। ५७ ।।
तीर्थं लक्ष्मीनृसिंहाख्यं गोपिगोविंद दक्षिणे ।।
न लक्ष्म्या त्यज्यते क्वापि तत्तीर्थं परिमज्जनात् ।। ५८ ।।
तदग्रे शेषतीर्थं च शेषमाधवसन्निधौ ।।
तर्पितानां पितॄणां च यत्र तृप्तिर्न शिष्यते ।। ५९ ।।
शंखमाधवतीर्थं च तदवाच्यां सुनिर्मलम् ।।
कृतोदको नरस्तत्र भवेत्पापोपि निर्मलः ।। 4.2.58.६० ।।
तदग्रे च हयग्रीवं तीर्थं परमपावनम् ।।
तत्र स्नात्वा हयग्रीवं केशवं परिपूज्य च ।। ६१ ।।
पिंडं च तत्र निर्वाप्य हयग्रीवस्य सन्निधौ ।। ।।
हायग्रीवीं श्रियं प्राप्य समुच्येत सपूर्वजः ।। ६२ ।।
।। स्कंद उवाच ।। ।।
प्रसंगतो मयैतानि तीर्थानि कथितानि ते ।।
भूमौ तिलांतरायां यत्तत्र तीर्थान्यनेशः ।। ६३ ।।
उद्दिष्टानां तु तीर्थानामेतेषां कलशोद्भव ।।
नाममात्रमपि श्रुत्वा निष्पापो जायते नरः ।।
इदानीं प्रस्तुतं विप्र शृणु वक्ष्यामि तेग्रतः ।।
वैकुंठनाथो यच्चक्रे शंखचक्रगदाधरः ।। ६५ ।।
तस्यां मूर्तौ समावेश्य कैशव्यामथ केशवः ।।
शंभोः कार्ये कृतमना अंशांशांशेन निर्गतः ।। ६६ ।।
।। अगस्त्य उवाच ।। ।।
अंशांशांशेन निश्चक्रे कुतो भोश्चक्रपाणिना ।।
क्व निर्गतं च हरिणा प्राप्य काशीं षडानन ।। ६७ ।।
।। स्कंद उवाच ।। ।।
सामस्त्येन यदर्थं न निर्गतं विष्णुना मुने ।।
ब्रुवे तत्कारणमिति क्षणमात्रं निशामय ।। ६८ ।।
संप्राप्य पुण्यसंभारैः प्राज्ञो वाराणसीं पुरीम् ।।
न त्यजेत्सर्वभावेन महालाभैरपीरितः ।। ६९ ।।
अतः प्रतिकृतिः स्वीया तत्र काश्यां मुरारिणा ।।
प्रतितस्थे कलशजस्तोकांशेन च निर्गतम् ।। 4.2.58.७० ।।
किंचित्काश्या उदीच्यां च गत्वा देवेन चक्रिणा ।।
स्वस्थित्यै कल्पितं स्थानं धर्मक्षेत्रमितीरितम् ।। ७१ ।।
ततस्तु सौगतं रूपं शिश्राय श्रीपतिः स्वयम् ।।
अतीव सुंदरतरं त्रैलोक्यस्यापिमोहनम् ।। ७२ ।।
श्रीः परिव्राजिका जाता नितरां सुभगाकृतिः ।।
यामालोक्य जगत्सर्वं चित्रन्यस्तमिवास्थितम् ।। ७३ ।।
विश्वयोनिं जगद्धात्रीं न्यस्तहस्ताग्रपुस्तकाम् ।।
गरुत्मानपि तच्छिष्यो जातो लोकोत्तराकृतिः ।। ७४ ।।
अत्यद्भुत महाप्राज्ञो निःस्पृहः सर्ववस्तुषु ।।
गुरुशुश्रूषणपरो न्यस्तहस्ताग्रपुस्तकः ।। ७५ ।।
अपृच्छत्परमं धर्मं संसारविनिमोचकम् ।।
आचार्यवर्यं सौम्यास्यं प्रसन्नात्मानमुत्तमम् ।। ७६ ।।
धर्मार्थशास्त्रकुशलं ज्ञानविज्ञानशालिनम् ।।
सुस्वरं सुपदव्यक्ति सुस्निग्धमृदुभाषिणम् ।। ७७ ।।
स्तंभनोच्चाटनाकृष्टि वशीकर्मादिकोविदम् ।।
व्याख्यानसमयाकृष्ट पक्षिरोमांचकारिणम् ।। ७८ ।।
पीततद्गीतपीयूष मृगपूगैरुपासितम् ।।
महामोदभराक्रांत वातचांचल्यहारिणम्।। ७९ ।।
वृक्षैरपि पतत्पुष्पच्छलैःकृतसमर्चनम् ।।
ततःप्रोवाच पुण्यात्मा पुण्यकीर्तिः स सौगतः ।। 4.2.58.८० ।।
शिष्यं विनयकीर्तिं तं महाविनयभूषणम्।।८१।।
।। पुण्यकीर्तिरुवाच ।। ।।
त्वया विनयकीर्ते यो धर्मः पृष्टः सनातनः ।।
वक्ष्याम्यहमशेषेण शृणुष्व त्वं महामते ।। ५२ ।।
अनादिसिद्धः संसारः कर्तृकर्मविवर्जितः ।।
स्वयं प्रादुर्भवेदेष स्वयमेव विलीयते ।। ८३ ।।
ब्रह्मादिस्तंबपर्यंतं यावद्देहनिबंधनम् ।।
आत्मैवैकेश्वरस्तत्र न द्वितीयस्तदीशिता ।।८४ ।।
यद्ब्रह्मविष्णुरुद्राद्यास्तथाख्या देहिनामिमाः ।।
आख्या यथास्मदादीनां पुण्यकीर्त्यादिरुच्यते।।।८५।।
देहो यथा स्मदादीनां स्वकालेन विलीयते ।।
ब्रह्मादि मशकांतानां स्वकालाल्लीयते तथा ।।८६ ।।
विचार्यमाणे देहेस्मिन्नकिंचिदधिकं क्वचित् ।।
आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम्।। ८७ ।।
निजाहारपरीमाणं प्राप्य सर्वोपि देहभृत् ।।
सदृशीमेव संतृप्तिं प्राप्नुयान्नाधिकेतराम् ।। ८८ ।।
यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम् ।।
तृषितास्तु तथान्येपि न विशेषोल्पकोधिकः ।।८९।।
संतु नार्यः सहस्राणि रूपलावण्यभूमयः ।।
परं निधुवने काले ह्येकैवेहोपयुज्यते ।। 4.2.58.९० ।।
अश्वाः परः शताः संतु संत्वनेकेप्यनेकषाः ।।
अधिरोहे तथाप्येको न द्वितीयस्तथात्मनः ।। ९१ ।।
पर्यंकशायिनां स्वापे सुखं यदुपपद्यते ।।
तदेव सौख्यं निद्रायामिह भूशायिनामपि ।। ९२ ।।
यथैव मरणाद्भीतिरस्मदादि वपुष्मताम् ।।
ब्रह्मादिकीटकांतानां तथा मरणतो भयम् ।। ९३ ।।
सर्वेतनुभृतस्तुल्या यदि बुद्ध्या विचार्यते ।।
इदं निश्चित्य केनापि नो हिंस्यः कोपि कुत्रचित् ।। ९४ ।।
धर्मो जीवदया तुल्यो न क्वापि जगतीतले ।।
तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ।। ९५ ।।
एकस्मिन्रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् ।।
घातिते घातितं तद्वत्तस्माद्रक्षेन्न घातयेत् ।। ९६ ।।
अहिंसा परमो धर्म इहोक्तः पूर्वसूरिभिः ।।
तस्मान्न हिंसा कर्तव्या नरैर्नरकभीरुभिः ।। ९७ ।।
न हिंसा सदृशं पापं त्रैलोक्ये सचराचरे ।।
हिंसको नरकं गच्छेत्स्वर्गं गच्छेदहिंसकः ।। ९८ ।।
संति दानान्यनेकानि किं तैस्तुच्छ फलप्रदैः ।।
अभीति दानसदृशं परमेकमपीह न ।।९९।।
इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ।।
विचार्य नानाशास्त्राणि शर्मणेत्र परत्र च ।।4.2.58.१००।।
भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् ।।
देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ।। १ ।।
अविचिंत्य प्रभावं हि मणिमंत्रौषधीबलम् ।।
तदभ्यस्यं प्रयत्नेन नानार्थोपार्जनाय वै ।। २ ।।
अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै ।।
परितः परिपूज्यानि किमन्यैरिह पूजितैः ।। ३ ।।
पंचकर्मेंद्रियाण्येव पंचबुद्धींद्रियाणि च ।।
मनोबुद्धिरिह प्रोक्तं द्वादशायतनं शुभम् ।। ४ ।।
इहैव स्वर्गनरकौ प्राणिनां नान्यतः क्वचित् ।।
सुखं स्वर्गः समाख्यातो दुःखं नरक एव हि ।। ५ ।।
सुखेषु भुज्यमानेषु यत्स्याद्देह विसजर्नम् ।।
अयमेव परो मोक्षो न मोक्षोऽन्यः क्वचित्पुनः ।। ६ ।।
वासनासहितक्लेश समुच्छेदे सति ध्रुवम् ।।
विज्ञानो परमो मोक्षो विज्ञेयस्तत्त्वचिंतकैः ।। ७ ।।
प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः ।।
न हिंस्यात्सर्वभूतानि नान्या हिंसाप्रवर्तिका ।। ८ ।।
अग्नीषोमीयमिति या भ्रामिका साऽसतामिह।।
न सा प्रमाणं ज्ञातॄणां पश्वालंभनकारिका ।। ९ ।।
वृक्षांश्छित्त्वा पशून्हत्वा कृत्वा रुधिरकर्दमम ।।
दग्ध्वा वह्नौ तिलाज्यादि चित्रं स्वर्गोऽभिलप्यते ।। 4.2.58.११० ।।
इत्येवं धर्मजिज्ञासां पुण्यकीर्तौ प्रकुर्वति ।।
पारंपर्येण तच्छ्रुत्वा पौरा यात्रां प्रचक्रिरे ।।११।।
परिव्राजिक याप्येवं समाकृष्टाः पुरांगनाः ।।
तया विजानकौमुद्या सर्वविद्याविदग्धया ।। १२ ।।
ततस्तासां पुरस्तात्सा बौद्धधर्मानवीवदत् ।।
दृष्टार्थप्रत्ययकरान्देहसौख्यैकसाधनान ।। १३ ।। ।।
विज्ञानकौमुद्युवाच ।। ।।
आनंदं ब्रह्मणो रूपं श्रुत्यैवं यन्निगद्यते ।।
तत्तथैवेह मंतव्यं मिथ्या नानात्वकल्पना ।।१४।।
यावत्स्वस्थमिदं वर्ष्म यावन्नेंद्रियविक्लवः ।।
यावज्जरा च दूरेस्ति तावत्सौख्यं प्रसाधयेत् ।। १५।।
अस्वास्थ्येंद्रियवैकल्ये वार्धके तु कुतः सुखम् ।।
शरीरमपि दातव्यमर्थिभ्योतः सुखेप्सुभिः।। १६ ।।
याचमानमनोवृत्ति प्रीणनेयस्य नो जनिः ।।
तेन भूर्भारवत्येषा समुद्रागद्रुमैर्नहि।। १७ ।।
सत्वरो गत्वरो देहः संचयाः सपरिक्षयाः ।।
इति विज्ञाय विज्ञाता देहे सौख्यं प्रसाधयेत् ।। १८ ।।
श्व वायस कृमीणां च प्रतिभोज्यमिदं वपुः ।।
भस्मांतं तच्छरीरं च वेदे सत्यं प्रपद्यते ।। १९ ।।
मुधा जातिविकल्पोयं लोकेषु परिकल्प्यते ।।
मानुष्ये सति सामान्ये कोधमः कोथ चोत्तमः ।। 4.2.58.१२० ।।
ब्रह्मादि सृष्टिरेषेति प्रोच्यते वृद्धपूरुषैः ।।
तस्य स्रष्टुः सुतौ दक्ष मरीची चेति विश्रुतौ ।। २१ ।।
मारीचिना कश्यपेन दक्षकन्याः सुलोचनाः ।।
धर्म्येण किल मार्गेण परिणीतास्त्रयोदश ।। २२ ।।
अपीदानींतनैर्मर्त्यैरल्पबुद्धिपराक्रमैः।।
अयं गम्यस्त्वगम्योयं विचारः क्रियते मुधा ।। २३ ।।
मुखबाहूरुपज्जातं चातुर्वर्ण्यमिहोदितम् ।।
कल्पनेयं कृता पूर्वैर्न घटेत विचारतः ।। २४ ।।
एकस्यां च तनौ जाता एकस्माद्यदि वा क्वचित् ।।
चत्वारस्तनयास्तत्किं भिन्नवर्णत्वमाप्नुयुः ।। २५ ।।
वर्णावर्णविवेकोयं तस्मान्न प्रतिभासते।।
अतो भेदो न मंतव्यो मानुष्ये केनचित्क्वचित् ।। ।। २६ ।।
विज्ञानकौमुदीवाणीमित्याकर्ण्य पुरांगनाः ।।
भर्त्तृशुश्रूषणवतीं विजहुर्मतिमुत्तमाम् ।। २७ ।।
अभ्यस्याकर्षणीं विद्यां वशीकृतिमतीमपि ।।
पुरुषाः सफलीचक्रुः परदारेषु मोहिताः ।। २८ ।।
अंतःपुरचरा नार्यस्तथा राजकुमारकाः ।।
पौराः पुरांगनाश्चापि सर्वे ताभ्यां विमोहिताः ।। २९ ।।
वंध्यानां चापि वंध्यात्वं सा परिव्राजिकाहरत् ।।
तैस्तैश्च कार्मणोपायैरसौ भाग्यवतीः स्त्रियः ।। 4.2.58.१३० ।।
सौभाग्यभाग्यसंपन्ना व्यधाद्विज्ञानकौमुदी ।।
कस्यैचिदंजनं दत्तं कस्यैचित्तिलकौषधम् ।। ३१ ।।
वशीकरणमंत्रैश्च तथा बह्व्योपि दीक्षिताः ।।
मंत्राञ्जपेयुः काश्चिच्च यंत्राण्यन्या लिखंति च ।।३२।।
काश्चिज्जुह्वति कुंडाग्नौ नानाद्रव्याणि निश्चलाः ।।
एवं सर्वेषु पौरेषु निजधर्मेषु सर्वथा ।।
पराङ्मुखेषु जातेषु प्रोल्ललास वृषेतरः ।। ३३ ।।
सिद्धयोकृष्टपच्याद्या नष्टा एनः प्रवेशनात् ।।
आसीत्कुंठितसामर्थ्यो नृपोपि स मनाङ्मनाक् ।। ३४ ।।
दूरस्थितोपि विघ्नेशो नृपं निर्विण्णमानसम् ।।
चकार राज्यकरणे ढुंढिराजो रिपुंजयम् ।। ३५ ।।
अजीगणद्दिवोदासोप्यष्टादश दिनावधिम् ।।
कदा गंता स वै विप्रो यो मां समुपदेक्ष्यति ।। ३६ ।।
इत्थमष्टादशे प्राप्ते दिवसे दिवसेश्वरे ।।
प्राप्ते मध्यं नभोभागं द्वारं प्राप्तो द्विजोत्तमः ।। ३७ ।।
स एव पुण्यकीर्त्याख्यो धर्मक्षेत्रादधोक्षजः ।।
द्विजवेषं समालंब्य समायातो नृपांतिकम् ।। ३८ ।।
द्वित्रैः पवित्रैर्बहुधा जयजीवेति वादिभिः ।।
समेतः स इतो विप्रो मूर्तिमानिव पावकः ।। ३९ ।।
विलोक्य तं समायातं दूरादुत्कंठितो नृपः ।।
मेने भवेद्गुरुरयं युक्तो मदुपदेशने ।। 4.2.58.१४० ।।
अभिगम्य च तं राजा प्रणम्य च पुनःपुनः ।।
गृहीत स्वस्तिवचनो निनायांतःपुरं द्विजम् ।। ४१ ।।
मधुपर्केण विधिना तं संपूज्य जनाधिपः ।।
व्यपेताध्वश्रमं स्वस्थं प्रोल्लसन्मुखपंकजम् ।। ४२ ।।
निवेद्य खाद्यवस्तूनि कृतकृत्य क्रियाविधिम् ।।
परितृप्तं सुखासीनं पप्रच्छ ब्राह्मणं नृपः ।। ४३ ।।
।। राजोवाच ।। ।।
खिन्नोस्मि विप्रवर्याहं राज्यभारं समुद्वहन् ।।
खेदो नास्त्येव हि परं वैराग्यमिव जायते ।। ४४ ।।
किं करोमि क्व गच्छामि कथं मे निर्वृतिर्भवेत् ।।
पक्षद्वय्येव यातेति मम चिंतयतो द्विज ।।४५।।
असीमं सुखसंतानं भुक्तं राज्यं मया द्विज ।।
परिक्षीणविपक्षं च त्र्यक्षैश्वर्यमिव स्फुटम् ।। ४६ ।।
स्वसामर्थ्यादहं जातः पर्जन्याग्न्यनिलात्मकः ।।
प्रजाश्च पालिताः सम्यक्पुत्रा इव निजौरसाः ।। ४७।।
तर्पिताश्चापि भूदेवा वसुभिश्च दिनेदिने।।
एकमेवापराद्धं च मया राज्यं प्रशासता ।। ४८ ।।
देवास्तृणीकृताः सर्वे स्वतपोबलदर्पतः ।।
तच्च प्रजोपकारार्थं न स्वार्थं भवता शपे ।। ४९ ।।
अधुना गुरुरेधित्वं मम भाग्योदयागतः ।।
राज्यं तु प्रकरोम्येवं न्यक्कृतांतकसाध्वसम् ।। 4.2.58.१५० ।।
अकालकालकलनं मम राज्ये न कुत्रचित् ।।
जराव्याधिदरिद्रेभ्यो ममराज्येपि नो भयम् ।। ५१ ।।
कोपि धर्मेतरां वृत्तिं न श्रयेन्मयि शासति ।।
धर्मोदयाजनाः सर्वे सर्वे संति सुखोदयाः ।। ५२ ।।
सद्विद्याव्यसनाः सर्वे सर्वेसन्मार्ग चंचुराः ।।
अथवा यदि कल्पांतं तिष्ठेदायुस्ततोपि किम् ।। ५३ ।।
सर्वे भोग्यास्तथा भांति यथा चर्वित चर्वणम् ।।
किं पिष्टपेषणेनात्र राज्येन द्विजपुंगव ।। ५४ ।।
किमप्युपदिश प्राज्ञ गर्भवासोपशांतये ।।
अथवा त्वां प्रपन्नस्य मम किं चिंतनैरिमः ।। ५५ ।।
यदेव कथयस्यद्य तत्करिष्याम्यसंशयम् ।।
त्वद्विलोकनमात्रेण सर्व एव मनोरथाः ।। ५६ ।।
अन्येषामपि जायंते जातप्राया ममैव तु ।।
जाने देवविरोधेन के के न प्रलयं गताः ।। ५७ ।।
अवंतोपि प्रजाः स्वीया निजधर्ममनुव्रताः ।।
पुरा ते त्रिपुराः शूराः शिवभक्तिपरा अपि ।। ५८ ।।
धरामयं रथं कृत्वा धनुः कृत्वा हिमाचलम् ।।
वेदांश्च वाजिनः कृत्वा गुणं कृत्वा च वासुकिम् ।। ५९ ।।
विरिंचिं सारथिं कृत्वा कृत्वा विष्णुं च पत्त्रिणम्।।
रथचक्रे पुष्पवंतौ प्रतोदं प्रणवात्मकम् ।। 4.2.58.१६० ।।
ताराग्रहमयान्कीलान्वरूथं गगनात्मकम् ।।
ध्वजदंडसुमेरुं च प्रांशुकल्पतरुं ध्वजम् ।। ६१ ।।
योक्त्राणि चक्षुःश्रवसश्छंदास्यंगानि रक्षकान् ।।
भल्लं कालाग्निरुद्राख्यं पुंखीकृत्य प्रभंजनम् ।। ६२ ।।
हरेणैकेषुपातेन लीलया भस्मसात्कृताः ।।
बलिर्यज्ञकृतां श्रेष्ठः कृत्वा कपटखर्वताम् ।। ६३ ।।
पातालं गमितः पूर्वं हरिणा विक्रमैस्त्रिभिः ।।
वृत्तवानपि वै वृत्रः सुत्राम्णा विनिसूदितः ।।६४।।
दधीचिरपि विप्रेंद्रो देवैरस्थिकृते हतः ।।
पूर्ववैरमनुस्मृत्य जयार्थं युध्यतो हरेः ।।
कुशास्त्रैर्विजितस्याजौ तेनैव च दधीचिना ।। ६५ ।।
शिवभक्तस्य बाणस्य दोःसहस्रं पुरा हरिः ।।
चिच्छेद संख्ये किं तेनापराद्धं साधुवर्तिना ।। ६६ ।।
तस्माद्विरोधो भद्राय न भवेद्देवतैः सह ।।
देवेभ्यो मद्भयं नास्ति सत्पथीनस्य वै मनाक् ।। ६७ ।।
यज्ञैर्देवत्वमापन्ना गीर्वाणा वासवादयः ।।
यज्ञैर्दानैस्तपोभिश्च तेभ्योप्याधिक्यमस्ति मे ।। ६८ ।।
अस्तु न्यूनत्वमाधिक्यं किमनेनाधुना मम ।।
इंद्रियोपरमः प्राप्तः सुखदस्तवदर्शनात् ।। ६९ ।।
इदानीं दिश मे तात कर्मनिर्मूलनक्षमम् ।।
उपायं त्वमुपायज्ञ येन निर्वृतिमाप्नुयाम् ।। 4.2.58.१७० ।।
।। स्कंद उवाच ।। ।।
गणेशावेशवशतो राज्ञेति यदुदीरितम् ।।
तदाकर्ण्य हृषीकेशः प्राह ब्राह्मणवेषभृत् ।। ७१ ।।
।। श्रीविष्णुरुवाच ।। ।।
साधुसाधु महाप्राज्ञ नृपचूडामणेऽनघ ।।
मया यदुपदेष्टव्यं तत्त्वयैव निरूपितम् ।। ७२ ।।
त्वमादावेव निर्वृत्तः परं मे मानदो ह्यसि ।।
क्षालितेंद्रियपंकश्च सुतपः स्वच्छवारिभिः ।। ७३ ।।
यदुक्तं भवता भूप तत्सर्वं तथ्यमेव हि ।।
तव शक्तिं च जानामि विरक्तिं च महामते ।। ७४ ।।
न भवत्सदृशो राजा भुवि भूतो भविष्यति ।।
राज्यं भोक्तुं त्वयाज्ञायि युक्तं यत्तु मुमुक्षसि ।। ७५ ।।
विरोधेपि हि देवानां त्वया नापकृतं क्वचित् ।।
धर्मेतरप्रवेशश्च तव राष्ट्रेपि नोभवत् ।। ७६ ।।
प्रवर्तिताभिर्भवता प्रजाभिर्यदनुष्ठितम् ।।
धर्मे धर्मं स्वधर्मज्ञ तेन तृप्ता दिवौकसः ।। ७७ ।।
एक एव हि ते दोषो हृदि मे प्रतिभासते ।।
काश्या विश्वेश्वरो दूरं यत्कृतो भवता किल ।। ७८ ।।
महांतमपराधं ते जाने भूजानि सत्तम ।।
इमं तत्पापशांत्यै च वच्म्युपायं महत्तरम् ।। ७९ ।।
संख्यास्ति यावती देहे देहिनो रोमसंभवा ।।
तावतोप्यपराधा वै यांति लिंग प्रतिष्ठया ।। 4.2.58.१८० ।।
एकं प्रतिष्ठितं येन लिंगमत्रेशभक्तितः ।।
तेनात्मना समं विश्वं जगदेतत्प्रतिष्ठितम् ।। ८१ ।।
रत्नाकरे रत्नसंख्या संख्याविद्भिरपीष्यते ।।
लिंगप्रतिष्ठा पुण्यस्य न तु संख्येति लिख्यते ।। ८२ ।।
तस्मात्सर्वप्रयत्नेन कुरु लिंगं प्रतिष्ठितम् ।।
तया लिंग प्रतिष्ठित्या कृतकृत्यो भविष्यसि ।।८३।।
इत्युक्त्वा ब्राह्मणो दध्यौ क्षणं निश्चलमानसः ।।
उवाच च प्रहृष्टास्यो राजानं पाणिना स्पृशन् ।। ८४ ।।
।। श्रीविष्णुरुवाच ।। ।।
अन्यच्च किंचित्पश्यामि भूपाल ज्ञानचक्षुषा ।।
शृणुष्वावहितो भूत्वा तदपि प्राज्ञसत्तम ।। ८५ ।।
धन्योसि कृतकृत्योसि मान्योसि महतामपि ।।
जप्यं च तव नामेह प्रातः शुभफलेप्सुना ।। ।। ८६ ।।
दिवोदास त्वदभ्याशादपि धन्यतरा वयम् ।।
तेपि धन्यतरा मर्त्ये ये त्वदाख्यां प्रचक्षते ।।८७।।
स्मायं स्मायं जगौ विप्रो मौलिमांदोलयन्मुहुः ।।
हृद्येव बहुशो हृष्टः संप्रहृष्टतनूरुहः ।। ८८ ।।
अहो भाग्योदयश्चास्य अहो नैर्मल्यमस्य वै ।।
यदेनमनिशं ध्यायेद्ध्येयो विश्वेश्वरोऽखिलैः ।। ८९ ।।
अहो उदर्क एतस्य न कैश्चित्प्रतिपद्यते ।।
अस्माकमपि यद्दूरमदवीयस्तदस्य यत् ।। 4.2.58.१९० ।।
हृद्यालोच्येति विप्रोथ वर्णयित्वा क्षितीश्वरम् ।।
आविश्चकार तत्सर्वं यत्समाधावलोकयत् ।। ९१ ।।
।। ब्राह्मण उवाच ।। ।।
राजंस्तवाद्य फलितो मनोरथ महाद्रुमः ।।
अनेनैव शरीरेण त्वं गतासि परं पदम् ।। ९२ ।।
यथा विश्वेश्वरो नित्यं त्वामेव हृदि शीलयेत् ।।
तथास्मदादीनपि न द्विजांस्तत्पादलोचनान् ।। ९३ ।।
कृतलिंगप्रतिष्ठं त्वां सप्तमे ह्यद्य वासरात् ।।
दिव्यविमानमागत्य नेतुमेष्यति शांभवम् ।। ९४ ।।
राजंस्त्वं वेत्सि कस्यायं विपाकः सुकृतस्य ते ।।
वाराणस्याः पुरः सम्यक्सेवनादित्यवैम्यहम् ।। ९५ ।।
एकमप्यत्र यः पायाद्वाराणस्यां स्थितं जनम् ।।
तस्याप्येवं विपाकोस्ति देहांते राजसत्तम ।। ९६ ।।
इति श्रुत्वा स राजर्षिर्दिवोदासः प्रतापवान् ।।
ब्राह्मणाय सशिष्याय प्रादात्प्रीतोभिवांछितम् ।।९७।।
अथ संप्रीणितं विप्रं प्रणम्य च मुहर्मुहुः ।।
प्रोवाच राजा संहृष्टस्तारितोस्मि भवार्णवात् ।।९८।।
ब्राह्मणोपि प्रहृष्टात्मा परिपूर्णमनोरथः ।।
समापृच्छ्य महीनाथं स्वेष्टं देशं जगाम ह।।९९।।
विलोक्य काशीं परितो मायाद्विजवपुर्हरिः।।
भूयोभूयो विचार्यापि किमत्रातीव पावनम्।।4.2.58.२००।।
स्थानं यच्चाहमध्यास्य निजभक्तानशेषतः ।।
नेष्यामि परमं धाम विश्वेशानुग्रहात्परात्।।१।।
संप्रधार्येति भगवान्दृष्ट्वा पांचनदं ह्रदम्।।
तत्र कृत्वा विधिस्नानं ततस्तत्रैव संस्थितः।।२।।
प्रतीक्षमाणो लक्ष्मीशो मंक्षुत्र्यक्षसमागमम् ।।
तार्क्ष्यं प्रस्थापयांचक्रे राजवृत्तांतवेदिनम् ।। ३ ।।
दिवोदासोपि राजेंद्रो विप्रेंद्रं परिवर्णयन् ।।
आहूय प्रकृतीः सर्वाः सामात्यान्मंडलेश्वरान् ।। ४ ।।
अध्यक्षानपि सर्वांश्च कोशाश्वेभादिदेशितान् ।।
पुत्रान्पंचशतं प्राग्र्यं सुतं च समरंजयम् ।। ५ ।।
पुरोहितं प्रतीहारमृत्विजोगणकान्द्विजान् ।।
सामंतान्राजपुत्रांश्च सूपकारांश्चिकित्सकान् ।। ६ ।।
वैदेशिकानपि बहून्नानाकार्यसमागतान् ।। सांतपुरां च महिषीं वृद्धगोपालबालकान् ।। ७ ।।
सर्वान्प्रोवाच हृष्टात्मा प्रबद्धकरसंपुटः ।।
यथा स ब्राह्मणः प्राह दिनसप्तावधि स्थितिम् ।। ८ ।।
आश्चर्यं तेषु शृण्वत्सु विषण्णवदनेषु च ।।
स्वयं राजगृहं नीत्वा कुमारं समरंजयम् ।। ९ ।।
अभिषिच्य महाबुद्धिः पौराञ्जानपदानपि ।।
प्रसादीकृत्य पुण्यात्मा पुनः काशीमगान्नृपः ।। 4.2.58.२१० ।।
आगत्य काशीं मेधावी स भूपालो रिपुंजयः ।।
प्रासादं कारयामास स्वर्धुन्याः पश्चिमे तटे ।। ११ ।।
रिपून्प्रमथ्य समरे यावती श्रीरुपार्जिता ।।
तावत्या स हि भूपालः शिवालयमचीक्लृपत् ।। १२ ।।
भूपाललक्ष्मीरखिला यत्तत्र विनियोजिता ।।
भूपालश्रीरिति ख्याता ततः साभूरभूच्छुभा ।। ।। १३ ।।
दिवोदासेश्वरं लिंगं प्रतिष्ठाप्य रिपुंजयः ।।
कृतकृत्यमिवात्मानममन्यत नरेश्वरः ।। १४ ।।
अथैकस्मिन्दिने राजा तल्लिंगं विधिपूर्वकम् ।।
समभ्यर्च्य नमस्कृत्य यावत्तुष्टाव तुष्टिदम् ।। १५ ।।
तावन्नभोंगणादाशु दिव्यं यानमवातरत् ।।
पार्षदैः परितः कीर्णं शूलखट्वांगपाणिभिः ।। १६ ।।
अत्यादित्याग्नितेजोभिर्भालनेत्रैः कपर्दिभिः ।।
शुद्धस्फटिकसंकाशैरंगैर्दीप्तनभोंगणैः ।। १७ ।।
विभूषाहि फणारत्न ज्योतिः पूजित विग्रहैः ।।
नित्यप्रकाशसंत्रस्त तमःश्रित शिरोधरैः ।। १८ ।।
चामरव्यग्रहस्ताग्र रुद्रकन्याशतावृतम् ।।
अथ पारिषदै राजा दिव्यस्रगनुलेपनैः ।।१९।।
दिव्यैर्दुकूलनेपथ्यैरलंचक्रे मुदान्वितैः ।।
त्रिनेत्रीकृतसद्भाल श्यामीकृतशिरोधरम् ।। 4.2.58.२२० ।।
सुगौरीकृतसर्वांगं कपर्दीकृत मौलिजम् ।।
चतुर्भुजीकृततनुं भूषणीकृतपन्नगम् ।। २१ ।।
चंद्रार्धीकृतमूर्धानं निन्युस्तं पार्षदा दिवम्।। २२ ।।
तदा प्रभृति तत्तीर्थं भूपालश्रीरिति श्रुतम् ।।
तत्र श्राद्धादिकं कृत्वा दानं दत्त्वा स्वशक्तितः ।। २३ ।।
दिवोदासेश्वरं दृष्ट्वा समभ्यर्च्य च भक्तितः ।।
राज्ञश्चाख्यायिकां श्रुत्वा न नरो गर्भमाविशेत् ।। २४ ।।
आख्यानमेतन्नृपतेर्दिवोदासस्य पावनम् ।।
पठित्वा पाठयित्वापि नरः पापैः प्रमुच्यते ।। २५ ।।
दिवोदासशुभाख्यानं श्रुत्वा यः समरं विशेत् ।।
न जातु जायते तस्य भयं वैरिकृतं क्वचित् ।। २६ ।।
दिवोदास कथा पुण्या महोत्पात निकृंतनी ।।
पठनीया प्रयत्नेन सर्वविघ्नोपशांतये ।। २७ ।।
नावृष्टिर्जायते तत्र नाकालमरणाद्भयम् ।।
दैवोदासी कथा यत्र सर्वपातकनाशिनी ।। २८ ।।
अस्याख्यानस्य पठनाद्विष्णोरिव मनोरथाः ।।
संपूर्णतां गमिष्यंति शंभोश्चिंतितकारिणः ।।२२९।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे दिवोदासनिर्वाणप्राप्तिर्नामाष्टपंचाशत्तमोऽध्यायः ।।५८।।