स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९४

विकिस्रोतः तः

।। स्कंद उवाच । । ।।
अन्यान्यपि च लिंगानि कथयामि महामुने ।।
अमृतेशमुखादीनि यन्नामाप्यमृतप्रदम् ।। १ ।।
पुरा सनारु नामासीन्मुनिरत्र गृहाश्रमी ।।
ब्रह्मयज्ञरतो नित्यं नित्यं चातिथिदैवतः ।। २ ।।
लिंगपूजारतो नित्यं नित्यं तीर्थाप्रतिग्रही ।।
तस्यर्षेरभवत्पुत्रः सनारोरुपजंघनिः ।।३।।
स कदाचिद्गतोरण्यं तत्र दष्टः पृदाकुना ।।
अथ तत्स वयोभिश्च स आनीतः स्वमाश्रमम् ।। ४ ।।
सनारुणा समुच्छ्वस्य नीतः स उपजंघनिः ।।
महाश्मशानभूभागं स्वर्गद्वारसमीपतः ।। ५ ।।
तत्रासीच्छ्रीफलाकारं लिंगमेकं सुगुप्तवत् ।।
निधाय तत्र तं यावच्छवं संचिंतयेत्सुधीः ।। ६ ।।
सर्पदष्टस्य संस्कारः कथं भवति चेति वै ।।
तावत्स जीवन्नुत्तस्थौ सुप्तवच्चौपजंघनिः ।। ७ ।।
अथ तं वीक्ष्य स मुनिः सनारुरुपजंघनिम् ।।
पुनः प्राणितसंपन्नं विस्मयं प्राप्तवान्परम् ।। ८ ।।
प्राणितव्येऽत्र को हेतुर्मच्छिशोरुपजंघनेः ।।
क्षेत्राद्बहिरहिर्यं हि दष्टा नैषीत्परासु ताम् ।। ९ ।।
इति यावत्स संधत्ते धियं तज्जीवितैकिकाम्।।
तावत्पिपीलिका त्वेका मृतं क्वापि पिपीलिकम् ।। 4.2.94.१० ।।
आनिनाय च तत्रैव सोप्य नन्निर्गतस्ततः ।।
अथ विज्ञाय स मुनिस्तत्त्वं जीवितसूचितम्।। ११ ।।
मृदु हस्ततलेनैव यावत्खनति वै मुनिः ।।
तावच्छ्रीफलमात्रं हि लिंगं तेन समीक्षितम् ।। १२ ।।
सनारुणाथ तल्लिंगं तेन तत्र समर्चितम् ।।
चिरकालीन लिंगस्य कृतं नामापि सान्वयम् ।। १३ ।।
अमृतेश्वरनामेदं लिंगमानंदकानने ।।
एतल्लिंगस्य संस्पर्शादमृतत्वं लभेद्ध्रुवम् ।। १४ ।।
अमृतेशं समभ्यर्च्य जीवत्पुत्रः स वै मुनिः।।
स्वास्पदं समनुप्राप्तो दृष्टआश्चर्यवज्जनैः ।। १५ ।।
तदाप्रभृति तल्लिंगममृतेशं मुनीश्वर ।।
काश्यां सिद्धिप्रदं नृणां कलौ गुप्तं भवेत्पुनः ।। १६ ।।
अमृतेश्वर संस्पर्शान्मृता जीवंति तत्क्षणात् ।।
अमृतत्वं भजंतेऽत्र जीवंतः स्पर्शमात्रतः ।। ३७ ।।
अमृतेश समं लिंगं नास्ति क्वापि महीतले।।
तल्लिंगं शंभुना तिष्ये कृतं गुप्तं प्रयत्नतः ।। १८ ।।
अमृतेश्वर नामापि ये काश्यां परिगृह्णते ।।
न तेषामुपसर्गोत्थं भयं क्वापि भविष्यति।।१९।।
मुनेऽन्यच्च महालिंगं करुणेश्वरसंज्ञितम्।।
मोक्षद्वार समीपे तु मोक्षद्वारेश्वराग्रतः ।।4.2.94.२०।।
दर्शनात्तस्य लिंगस्य महाकारुणिकस्य वै ।।
न क्षेत्रान्निर्गमो जातु बहिर्भवति कस्यचित् ।। २१ ।।
स्नातव्यं मणिकर्ण्यां च द्रष्टव्यः करुणेश्वरः ।।
क्षेत्रोपसर्गजा भीतिर्हातव्या परया मुदा ।। २२ ।।
सोमवासरमासाद्य एकभक्तव्रतं चरेत् ।।
यष्टव्यः करुणापुष्पैर्व्रतिना करुणेश्वरः ।। २३ ।।
तेन व्रतेन संतुष्टः करुणेशः कदाचन ।।
न तं क्षेत्राद्बहिः कुर्यात्तस्मात्कार्यं व्रतं त्विदम् ।। २४ ।।
तत्पत्रैस्तत्फलैर्वापि संपूज्यः करुणेश्वरः ।।
यो न जानाति तल्लिंगं सम्यग्ज्ञानविवर्जितः ।। २५ ।।
तेनार्च्यः करुणावृक्षो देवेशः प्रीयतामिति ।।
यो वर्षं सोमवारस्य व्रतं कुर्यादिति द्विजः ।। २६ ।।
प्रसन्नः करुणेशोत्र तस्य दास्यति वांछितम् ।।
द्रष्टव्यः करुणेशोत्र काश्यां यत्नेन मानवैः ।। २७ ।।
इति ते करुणेशस्य महिमोक्तो महत्तरः ।।
यं श्रुत्वा नोपसर्गोत्थं भयं काश्यां भविष्यति ।। २८ ।।
मोक्षद्वारेश्वरं चैव स्वर्गद्वोरेश्वरं तथा ।।
उभौ काश्यां नरो दृष्ट्वा स्वर्गं मोक्षं च विंदति ।। २९ ।।
ज्योतीरूपेश्वरं लिंगं काश्यामन्यत्प्रकाशते ।।
तस्य संपूजनाद्भक्ता ज्योतीरूपा भवंति हि ।। 4.2.94.३० ।।
चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं परम् ।।
समभ्यर्च्याप्नुयान्मर्त्यो ज्योतीरूपं न संशयः ।। ३१ ।।
यदा भागीरथी गंगा तत्र प्राप्ता सरिद्वरा ।।
तदारभ्यार्चयेन्नित्यं तल्लिंगं स्वर्धुनी मुदा ।। ३२ ।।
पुरा विष्णौ तपत्यत्र तल्लिंगं स्वयमेव हि ।।
तत्राविरासीत्तेजस्वि तेन क्षेत्रमिदं शुभम् ।। ३३ ।।
चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं तदा ।।
दूरस्थोपीह यो ध्यायेत्तस्य सिद्धिरदूरतः।।३४।।
एतेष्वपि च लिंगेषु चतुर्दशसु सत्तम।।
लिंगाष्टकं महावीर्यं कर्मबीजदवानलम् ।। ३५ ।।
ओंकारादीनि लिंगानि यान्युक्तानि चतुर्दश ।।
तथा दक्षेश्वरादीनि लिंगान्यष्टौ महांति च ।।३६।।
शैलैशादीनि लिंगानि तथा यानि चतुर्दश ।।
पुनः षट्त्रिंशदेतानि क्षेत्रसंसिद्धि हेतवे ।। ३७ ।।
षदत्रिंशत्तत्त्वरूपोसौ लिगेष्वेषु सदाशिवः ।।
अस्मिन्क्षेत्रे वसन्नित्यं तारकं ज्ञानमादिशेत् ।। ३८ ।।
क्षेत्रस्य तत्त्वमेतद्धि षट्त्रिंशल्लिंगरूप्यहो ।।
एतेषां भजनात्पुंसां न भवेद्दुर्गतिः क्वचित् ।।३९।।
मुने रहस्यभूतानि र्लिगान्येतानि निश्चितम्।।
एतल्लिंगप्रभावाच्च मुक्तिरत्र सुनिश्चिता ।। 4.2.94.४० ।।
मोक्षक्षेत्रमिंदं काशी लिंगैरेतैर्मेहामते ।।
एतान्यन्यानि सिद्धानि संभवंति युगेयुगे ।। ४१ ।।
आनंदकाननं शंभोः क्षेत्रमेतदनादिमत्।।
अत्र संस्थितिमापन्ना मुक्ता एव न संशयः ।। ४२ ।।
योगसिद्धिरिहास्त्येव तपःसिद्धिरिहैव हि ।।
व्रतसिद्धिर्मंत्रसिद्धिस्तीर्थसिद्धिः सुनिश्चितम् ।। ४३ ।।
सिद्ध्यष्टकं तु यत्प्रोक्तमणिमादि महत्तरम् ।।
तज्जन्मभूमिरेषैव शंभोरानंदवाटिका ।।४४।।
निर्वाणलक्ष्म्याः सदनमेतदानंदकाननम् ।।
एतत्प्राप्य न मोक्तव्यं पुण्यैः संसारभीरुणा ।। ४५ ।।
अयमेव महालाभ इदमेव परं तपः ।।
एतदेव महत्पुण्यं लब्धा वाराणसीह यत् ।। ।। ४६ ।।
अवश्यं जन्मिनो मृत्युर्यत्र कुत्र भविष्यति ।।
कर्मानुसारिणी लभ्या गतिः पश्चाच्छुभाशुभा ।। ४७ ।।
मृत्युं विज्ञाय नियतं गतिकर्मानुसारिणीम् ।।
अवश्यं काशिका सेव्या सर्वकर्मनिवारिणी ।। ४८ ।।
मानुष्यं प्राप्य यं मूढा निमेषमितजीवितम् ।।
न सेवंते पुरीं काशीं ते मुष्टा मंदबुद्धयः ।। ४९ ।।
दुर्लभं जन्म मानुष्यं दुर्लभा काशिकापुरी ।।
उभयोः संगमासाद्य मुक्ता एव न संशयः ।। 4.2.94.५० ।।
क्व च तादृक्तपांसीह क्व तादृग्योग उत्तमः ।।
यादृग्भिः प्राप्यते मुक्तिः काश्यां मोक्षोत्तमोत्तमः ।। ५१ ।।
सत्यं सत्यं पुनः सत्यं सत्यपूर्वं पुनःपुनः ।।
न काशी सदृशी मुक्त्यै भूमिरन्या महीतले।। ५२ ।।
विश्वेशो मुक्तिदो नित्यं मुक्त्यै चोत्तरवाहिनी ।।
आनंदकानने मुक्तिर्मुक्तिर्नान्यत्र कुत्रचित् ।। ५३ ।।
एक एव हि विश्वेशो मुक्तिदो नान्य एव हि ।।
स एव काशीं प्रापय्य मुक्तिं यच्छति नान्यतः ।। ५४ ।।
सायुज्यमुक्तिरत्रैव सान्निध्यादिरथान्यतः ।।
सुलभा सापि नो नूनं काश्यां मोक्षोस्ति हेलया ।।५५।।
।। स्कंद उवाच ।। ।।
शृण्वगस्त्य महाभाग भविष्यं कथयाम्यहम् ।।
कृष्णद्वैपायनो व्यासोऽकथयद्यन्महद्वचः ।।
निश्चिकेतुमनाः पश्चाद्यत्करिष्यति तच्छृणु ।।५६।। ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धेऽमृतेशादिलिंगप्रादुर्भावोनाम चतुर्नवतितमोऽध्यायः ।। ९४ ।।