स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०५४

विकिस्रोतः तः
Jump to navigation Jump to search

स्कंद उवाच ।। ।।
कुंभसंभव वक्ष्यामि शृणोत्ववहितो भवान् ।।
कपर्दीशस्य लिंगस्य महामाहात्म्यमुत्तमम् ।। १ ।।
कपर्दी नाम गणपः शंभोरत्यंतवल्लभः ।।
पित्रीशादुत्तरे भागे लिंगं संस्थाप्य शांभवम् ।।२।।
कुंडं चखान तस्याग्रे विमलोदक संज्ञकम् ।।
यस्य तोयस्य संस्पर्शाद्विमलो जायते नरः ।। ३ ।।
इतिहासं प्रवक्ष्यामि तत्र त्रेतायुगे पुरा ।।
यथावृत्तं कुंभयोने श्रवणात्पातकापहम् ।। ४ ।।
एकः पाशुपत श्रेष्ठो वाल्मीकिरिति संज्ञितः ।।
तपश्चचार स मुनिः कपर्दीशं समर्चयन् ।। ५ ।।
एकदा स हि हेमंते मार्गे मासि तपोधनः ।।
स्नात्वा तत्र महातीर्थे मध्याह्ने विमलोदके ।। ६ ।।
चकार भस्मना स्नानमापादतलमस्तकम् ।।
लिंगस्य दक्षिणेभागे कृतमाध्याह्निकक्रियः ।। ७ ।।
न्यस्तमस्तकपांसुश्च संध्यामाध्यात्मिकीं स्मरन् ।।
जपन्पंचाक्षरीं विद्यां ध्यायन्देवं कपर्दिनम् ।। ८ ।।
कृत्वा संहारमार्गेण सप्रमाणं प्रदक्षिणाम् ।।
हुडुंकृत्य हुडुंकृत्य हुडुंकृत्य त्रिरुच्चकैः ।। ९ ।।
प्रणवं पुरतः कृत्वा षड्जादिस्वरभेदतः ।।
गीतं विधाय सानंदं सनृत्यं हस्तकान्वितम् ।। 4.2.54.१० ।।
अंगहारैर्मनोहारि चारी मंडलसंयुतम् ।।
क्षणं तत्र सरस्तीरे उपविष्टो महातपाः ।। ११ ।।
अद्राक्षीद्राक्षसं घोरमतीव विकृताकृतिम् ।।
शुष्कशंखकपोलास्यं निमग्ना पिंगलोचनम् ।।१२।।
रूक्षस्फुटितकेशाग्रं महालंब शिरोधरम् ।।
अतीव चिपिट घ्राणं शुष्कौष्ठमतिदंतुरम् ।। १३ ।।
महाविशालमौलिं च प्रोर्ध्वीभूतशिरोरुहम् ।।
प्रलंबकर्णपालीकं पिंगलश्मश्रुभीषणम् ।। ।। १४ ।।
प्रलंबित ललज्जिह्वमत्युत्कट कृकाटिकम् ।।
स्थूलास्थि जत्रु संस्थानं दीर्घस्कंधद्वयोत्कटम् ।। १५ ।।
निमग्नकक्षाकुहरं शुष्कह्रस्व भुजद्वयम् ।।
विरलांगुलिहस्ताग्रं नतपीन नखावलिम् ।। १६ ।।
विशुष्क पांसुलोत्क्रोडं पृष्ठलग्नोदरत्वचम् ।।
कटीतटेन विकटं निर्मांसत्रिकबंधनम् ।। १७ ।।
प्रलंब स्फिग्युगयुतं शुष्कमुष्काल्पमेहनम् ।।
दीर्घनिर्मांसलोरूकं स्थूलजान्वस्थिपंजरम् ।। १८ ।।
अस्थिचर्मावशेषं च शिराजालितविग्रहम् ।।
शिरालं दीर्घजंघं च स्थूलगुल्फास्थिभीषणम् ।। १९ ।।
अतिविस्तृत पादं च दीर्घवक्रकृशांगुलिम् ।।
अस्थिचर्मावशेषेण शिराताडितविग्रहम् ।। 4.2.54.२० ।।
विकटं भीषणाकारं क्षुत्क्षाममतिलोमशम् ।।
दावदग्धद्रुमाकारमति चंचललोचनम्।। २१ ।।
मूर्तं भयानकमिव सर्वप्राणिभयप्रदम् ।।
हृदयाकंपनं दृष्ट्वा तं प्रेतं वृद्धतापसः ।।
अतिदीनाननं कस्त्वमिति धैर्येण पृष्टवान्।। २२ ।।
कुतस्त्वमिह संप्राप्तः कस्मात्ते गतिरीदृशी ।।
अनुक्रोशधियारक्षः पृच्छामि वद निर्भयम् ।। २३ ।।
अस्माकं तापसानां च न भयं त्वद्विधान्मनाक् ।।
शिवनामसहस्राणां विभूतिकृतवर्मणाम् ।। २४ ।।
तापसोदीरितमिति तद्रक्षः प्रीतिपूवर्कम् ।।
निशम्य प्रांजलिः प्राह तं कृपालुं तपोधनम् ।। २५ ।।
।। राक्षस उवाच ।।
अनुक्रोशोस्ति यदि ते भगवंस्तापसोत्तम ।।
स्ववृत्तांतं तदा वच्मि शृणुष्वावहितः क्षणम् ।। २६ ।।
प्रतिष्ठानाभिधानोस्ति देशो गोदावरी तटे ।।
तीर्थप्रतिग्रहरुचिस्तत्रासं ब्राह्मणस्त्वहम् ।। २७ ।।
तेन कर्मविपाकेन प्राप्तोस्मि गतिमीदृशीम् ।।
मरुस्थले महाघोरे तरुतोयविवर्जिते ।। २८ ।।
गतो बहुतरः कालस्तत्र मे वसतो मुने ।।
क्षुधितस्य तृषार्तस्य शीततापसहस्य च ।। २९ ।।
वर्षत्यपि महामेघे धारासारैर्दिवानिशम् ।।
प्रावृट्कालेऽनिले वाति किंचित्प्रावरणं न मे ।। 4.2.54.३० ।।
पर्वण्यदत्तदाना ये कृततीर्थप्रतिग्रहाः ।।
त इमां योनिमृच्छंति महादुःख निबंधनीम् ।। ३१ ।।
गते बहुतिथे काले मरुभूमौ मुने मया ।।
दृष्टो ब्राह्मणदायाद एकदा कश्चिदागतः ।। ३२ ।।
सूर्योदयमनुप्राप्य संध्याविधिविवर्जितः ।।
कृत्वा मूत्रपुरीषे तु शौचाचमनवर्जितः ।। ३३ ।।
मुक्तकच्छमशौचं च संध्याकर्मविवर्जितम् ।।
तं दृष्ट्वा तच्छरीरेहं संक्रांतो भोगलिप्सया ।। ३४ ।।
स द्विजो मंदभाग्यान्मे केनचिद्वणिजा सह ।।
अर्थलोभेन संप्राप्तः पुरीं पुण्यामिमां मुने ।।३५।।
अंतःपुरि प्रविष्टोभूत्स द्विजो मुनिसत्तम ।।
तच्छरीराद्बहिर्भूतस्त्वहं पापैः समं क्षणात् ।।३६।।
प्रवेशो नास्ति चास्माकं प्रेतानां तपसां निधे ।।
महतां पातकानां च वाराणस्यां शिवाज्ञया ।।३७।।
अद्यापि तानि पापानि तद्बहिर्निर्गमेच्छया ।।
बहिरेव हि तिष्ठंति सीम्नि प्रमथसाध्वसात् ।।३८।।
अद्य श्वो वा परश्वो वा स बहिर्निर्गमिष्यति ।।
इत्याशया स्थिताः स्मो वै यावदद्य तपोधन ।। ३९ ।।
नाद्यापि स बहिर्गच्छेन्नाद्याप्याशा प्रयाति नः ।।
इत्यास्महे निराधारा आशापाश नियंत्रिताः ।। 4.2.54.४० ।।
चित्रमद्यतनं वच्मि तपस्विंस्तन्निशामय ।।
अतीव भावि कल्याणमिति मन्येऽधुनैव हि ।। ४१ ।।
आप्रयागं प्रतिदिनं प्रयामः क्षुधिता वयम्।।
आहारकाम्यया क्वापि परं नो किंचिदाप्नुमः ।। ४२ ।।
संति सर्वत्र फलिनः पादपाः प्रतिकाननम् ।।
जलाशयाश्च स्वच्छापाः संति भूम्यां पदेपदे ।। ४३ ।।
अन्यान्यपि च भक्ष्याणि सर्वेषां सुलभान्यहो ।।
पानान्यपि विचित्राणि संति भूयांसि सर्वतः ।। ४४ ।।
परं नो दृग्गतान्येव दूरे दूरे व्रजंत्यहो ।।
दैवादद्यैकमायांतं दृष्ट्वा कार्पटिकं मुने ।।४५।।
तस्यांतिकमहं प्राप्तः क्षुधया परिपीडितः ।।
प्रसह्य भक्षयाम्येनमिति मत्वा त्वरान्वितः ।। ४६ ।।
यावत्तं तु जिघृक्षामि तावत्तद्वदनांबुजात् ।।
शिवनामपवित्रा वाङ्निरगाद्विघ्नहारिणी ।। ४७ ।।
शिवनामस्मरणतो मदीयमपि पातकम् ।।
मंदीभूतं ततस्तेन प्रवेशं लब्धवानहम् ।। ४८ ।।
सीमस्थैः प्रमथैर्नाहं सद्यो दृग्गोचरीकृतः ।।
शिवनामश्रुतौ येषां तान्न पश्येद्यमोपि यत् ।। ४९ ।।
अंतर्गेहस्य सीमानं प्राप्तस्तेन सहाधुना ।।
स तु कार्पटिको मध्यं प्रविष्टोहमिहस्थितः ।। 4.2.54.५० ।।
आत्मानं बहुमन्येहं त्वां विलोक्याधुना मुने ।।
मामुद्धर कृपालो त्वं योनेरस्मात्सदारुणात् ।। ५१ ।।
इति प्रेतवचः श्रुत्वा स कृपालुस्तपोधनः ।।
 मनसा चिंतयामास धिङ्निजार्थोद्यमान्नरान् ।। ५२ ।।
स्वोदरं भर यः सर्वे पशुपक्षिमृगादयः ।।
स एव धन्यः संसारे यः परार्थोद्यतः सदा ।।५३।।
तपसाद्य निजेनाहं प्रेतमेतमघातुरम्।।
मामेव शरणं प्राप्तमुद्धरिष्याम्यसंशयम् ।। ५४ ।।
विमृश्येति स वै चित्ते पिशाचं प्राह सत्तमः ।।
विमलोदे सरस्यस्मिन्स्नाहि रे पापनुत्तये ।। ५५ ।।
पिशाच ते पिशाचत्वं तीर्थस्यास्य प्रभावतः ।।
कपर्दीशेक्षणादद्य क्षणात्क्षीणं विनंक्ष्यति ।। ५६ ।।
श्रुत्वेति स मुनेर्वाक्यं प्रेतः प्राह प्रणम्य तम्।।
प्रीतात्मा प्रीतमनसं प्रबद्धकरसंपुटः ।।५७।।
पानीयं पातुमपि नो लभेयं मुनिसत्तम ।
स्नानस्य का कथा नाथ रक्षेयुर्जलदेवताः ।।५८।।
पानस्याप्यत्र का वार्ता जलस्पर्शोपि दुर्लभः ।।
इति प्रेतोक्तमाकर्ण्य स भृशं प्रीतिमानभूत् ।। ५९ ।।
उवाच च तपस्वी तं जगदुद्धरणक्षमः ।।
गृहाणेमां विभूतिं त्वं ललाटफलके कुरु ।। 4.2.54.६० ।।
अस्माद्विभूतिमाहात्म्यात्प्रेत कोपि न कुत्रचित् ।।
बाधा करोति कस्यापि महापातकिनोप्यहो ।।६१ ।।
भालं विभूतिधवलं विलोक्य यमकिंकराः ।।
पापिनोपि पलायंते भीताः पाशुपतास्त्रतः ।। ६२ ।।
अस्थिध्वजांकितं दृष्ट्वा यथा पांथा जलाशयम् ।।
दूरं यंति तथा भस्म भालांकं यमकिंकराः ।। ६३ ।।
कृतभूति तनुत्राणं शिवमंत्रैर्नरोत्तमम् ।।
नोपसर्पंति नियतमपि हिंस्राः समंततः ।। ६४ ।।
भक्त्या बिभर्ति यो भस्म शिवमंत्रपवित्रितम् ।।
भाले वक्षसि दोर्मूले न तं हिंसंति हिंसकाः ५५ ।।
सर्वेभ्यो दुष्टसत्त्वेभ्यो यतो रक्षेदहर्निशम् ।।
रक्षत्येषा ततः प्रोक्ता विभूतिर्भूतिकृद्यतः ।। ६६ ।।
भासनाद्भर्त्सनाद्भस्म पांसुः पांसुत्वदायतः ।।
पापानां क्षारणात्क्षारो बुधेरेवं निरुच्यते ।। ६७ ।।
गृहीत्वा धारमध्यात्स भस्म प्रेतकरेऽर्पयत् ।।
सोप्यादरात्समादाय भालदेशे न्यवेशयत् ।। ६८ ।।
विभूतिधारिणं वीक्ष्य पिशाचं जलदेवताः ।।
जलावगाहनपरं वारयांचक्रिरे न तम् ।। ६९ ।।
स्नात्वा पीत्वा स निर्गच्छेद्यावत्तस्माज्जलाशयात् ।।.
तावत्पैशाच्यमगमद्दिव्यदेहमवाप च ।। 4.2.54.७ ०।।
दिव्यमालांबरधरो दिव्यगंधानुलेपनः ।।
दिव्ययानं समारुह्य वर्त्म प्राप्तोथ पावनम् ।। ७१ । ।
गच्छता तेन गगने स तपस्वी नमस्कृतः ।।
प्रोच्चैः प्रोवाच भगवन्मोचितोस्मि त्वयानघ ।। ७२ ।।
तस्मात्कदर्ययोनित्वादतीव परिनिंदितात् ।।
अस्य तीर्थस्य माहात्म्याद्दिव्यदेहमवाप्तवान् ।।७३।।
पिशाचमोचनं तीर्थमद्यारभ्य समाख्यया ।।
अन्येषामपि पैशाच्यमिदं स्नानाद्धरिष्यति ।।७४।।
अस्मिंस्तीर्थे महापुण्ये ये स्नास्यंतीह मानवाः ।।
पिंडांश्च निर्वपिष्यंति संध्यातर्पणपूर्वकम् ।। ७५ ।।
दैवात्पैशाच्यमापन्नास्तेषां पितृपितामहाः ।।
तेपि पैशाच्यमुत्सृज्य यास्यंति परमां गतिम् ।। ७६।।
अद्यशुक्लचतुर्दश्यां मार्गेमासि तपोनिधे ।।
अत्र स्नानादिकं कार्यं पैशाच्यपरिमोचनम ।।७७ ।।
इमां सांवत्सरीं यात्रां ये करिष्यंति मानवाः ।।
तीर्थप्रतिग्रहात्पापान्निःसरिष्यंति ते नराः।।७८।।
पिशाचमोचने स्नात्वा कपर्दीशं समर्च्य च ।।
कृत्वा तत्रान्नदानं च नरोन्यत्रापि निर्भयाः ।। ७९ ।।
मार्गशुक्लचतुर्दश्यां कपर्दीश्वर संनिधौ ।।
स्नात्वान्यत्रापि मरणान्न पैशाच्यमवाप्नुयुः ।। 4.2.54.८० ।।
इत्युक्त्वा दिव्यपुरुषो भूयोभूयो नमस्य तम् ।।
तपोधनं महाभागो दिव्यां गतिमवाप्तवान् ।।८१।।
तपोधनोपि तं दृष्ट्वा महाश्चर्यं घटोद्भव ।।
कपर्दीश्वरमाराध्य कालान्निर्वाणमाप्तवान् ।। ८२ ।।
पिशाचमोचनं तीर्थं तदारभ्य महामुने ।।
वाराणस्यां परां ख्यातिमगमत्सर्वपापहृत् ।। ।। ८३ ।।
पैशाचमोचने तीर्थे संभोज्य शिवयोगिनम् ।।
कोटिभोज्यफलं सम्यगेकैक परिसंख्यया ।। ८ ४ ।।
श्रुत्वाध्यायमिमं पुण्यं नरो नियतमानसः ।।
भूतैः प्रेतैः पिशाचैश्च कदाचिन्नाभिभूयते ।। ८५ ।।
बालग्रहाभिभूतानां बालानां शांतिकारकम् ।।
पठनीयं प्रयत्नेन महाख्यानमिदं परम् ।। ८६ ।।
इदमाख्यानमाकर्ण्य गच्छन्देशांतरं नरः ।।
चोरव्याघ्रपिशाचाद्यैर्नाभिभूयेत कुत्रचित् ।। ८७ ।। ।।
इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे पिशाचमोचनमहिमाकथनं नाम चतुष्पंचाशत्तमोऽध्यायः ।।५४।।