स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०४१

विकिस्रोतः तः

।। स्कंद उवाच ।। ।।
उषित्वैवं गृहे विप्रो द्वितीयादाश्रमात्परम् ।।
वलीपलितसंयुक्तस्तृतीयाश्रममाविशेत् ।। १ ।।
अपत्यापत्यमालोक्य ग्राम्याहारान्विसृज्य च ।।
पत्नीं पुत्रेषु संत्यज्य पत्न्या वा वनमाविशेत् ।। २ ।।
वसानश्चर्मचीराणि साग्निर्मुन्यन्नवर्तनः ।।
जटी सायंप्रगे स्नायी श्मश्रुलोनखलोमभृत् ।।३।।
शाकमूलफलैर्वापि पंचयज्ञन्न हापयेत् ।।
अम्मूलफलभिक्षाभिरर्चयेद्भिक्षुकातिथीन् ।। ४ ।।
अनादाता च दाता च दांतः स्वाध्यायतत्परः ।।
वैतानिकं च जुहुयादग्निहोत्रं यथाविधि ।। ५ ।।
मुन्यन्नैः स्वयमानीतैः पुरोडाशांश्च निर्वपेत् ।।
स्वयंकृतं च लवणं खादेत्स्नेहं फलोद्रवम् ।। ६ ।।
वर्जयेच्छेलुशिग्रू च कवकं पललं मधु ।।
मुन्यन्नमाश्विनेमासि त्यजेद्यत्पूर्वसंचितम् ।।७।।
ग्राम्याणि फलमूलानि फालजान्नं च संत्यजेत् ।।
दंतोलूखलको वा स्यादश्मकुट्टोथ वा भवेत् ।। ८ ।।
सद्यः प्रक्षालको वा स्यादथवा माससंचयी ।।
त्रिषड्द्वादशमासान्नफलमूलादिसंग्रही ।।९।।
नक्ताश्ये कांतराशी वा षष्ठकालाशनोपि वा ।।
चांद्रायणव्रती वा स्यात्पक्षभुग्वाथ मासभुक्।। ।।4.1.41.१०।।
वैखानस मतस्थस्तु फलमूलाशनोपि वा ।।
तपसा शोषयेद्देहं पितॄन्देवांश्च तर्पयेत् ।। ११ ।।
अग्निमात्मनि चाधाय विचरेदनिकेतनः ।।
भिक्षयेत्प्राणयात्रार्थं तापसान्वनवासिनः ।। १२ ।।
ग्रामादानीय वाश्नीयादष्टौ ग्रासान्वसन्वने ।।
इत्थं वनाश्रमी विप्रो ब्रह्मलोके महीयते ।। १३ ।।
अतिवाह्यायुषोभागं तृतीयमिति कानने ।।
आयुषस्तु तुरीयांशे त्यक्त्वा संगान्परिव्रजेत् ।। १४ ।।
ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि ।।
तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः ।। १५ ।।
मनागपि न भूतानां यस्मादुत्पद्यते भयम् ।।
सर्वभूतानि तस्येह प्रयच्छंत्यभयं सदा ।। १५ ।।
एक एव चरेन्नित्यमनग्निरनिकेतनः ।।
सिद्ध्यर्थमसहायः स्याद्ग्राममन्नार्थमाश्रयेत् ।।१७।।
जीवितं मरणं वाथ नाभिकांक्षेत्क्वचिद्यतिः ।।
कालमेव प्रतीक्षेत निर्देशं भृतको यथा।।१८।।
सर्वत्र ममता शून्यः सर्वत्र समतायुतः ।।
वृक्षमूलनिकेतश्च मुमुक्षुरिह शस्यते ।।१९।।
ध्यानं शौचं तथा भिक्षा नित्यमेकांतशीलता ।।
यतेश्चत्वारिकर्माणि पंचमं नोपपद्यते ।। 4.1.41.२० ।।
वार्षिकांश्चतुरोमासान्विहरेन्न यतिः क्वचित् ।।
बीजांकुराणां जंतूनां हिंसा तत्र यतो भवेत् ।। २१ ।।
गच्छेत्परिहरन्जन्तून्पिबेत्कं वस्त्रशोधितम्।।
वाचं वदेदनुद्वेगां न क्रुध्येत्केनचित्क्वचित् ।। २२ ।।
चरेदात्मसहायश्च निरपेक्षो निराश्रयः ।।
नित्यमध्यात्मनिरतो नीचकेश नखो वशी ।। २३ ।।
कुसुंभवासा दंडाढ्यो भिक्षाशी ख्यातिवर्जितः ।।
अलाबुदारुमृद्वेणु पात्रं शस्तं न पंचमम् ।। २४ ।।
न ग्राह्यं तैजसं पात्रं भिक्षुकेण कदाचन ।।
वराटके संगृहीते तत्रतत्र दिनेदिने ।।२५।।
गोसहस्रवधं पापं श्रुतिरेषा सनातनी ।।
हृदि सस्नेह भावेन चेद्द्रक्षेत्स्त्रियमेकदा ।। २६ ।।
कोटिद्वयं ब्रह्मकल्पं कुंभीपाकी न संशयः ।।
एककालं चरेद्भैक्षं न कुर्यात्तत्र विस्तरम् ।। २७ ।।
विधूमेसन्न मुसले व्यंगारे भुक्तवज्जने ।।
वृत्ते शरावसंपाते भिक्षां नित्यं चरेद्यतिः ।। २८ ।।
अल्पाहारो रहःस्थायी त्त्विंद्रियार्थेष्वलोलुपः ।।
रागद्वेषविर्निर्मुक्तो भिक्षुर्मोक्षाय कल्पते ।। २९ ।।
आश्रमे तु यतिर्यस्य मुहूर्तमपि विश्रमेत् ।।
किं तस्यानेकतंत्रेण कृतकृत्यः स जायते ।। 4.1.41.३० ।।
संचितं यद्ग्रहस्थेन पापमामरणांतिकम् ।।
निर्धक्ष्यति हि तत्सर्वमेकरात्रोषितो यतिः ।।३१।।
दृष्ट्वा जराभिभवनमसह्यं रोगपीडितम् ।।
देहत्यागं पुनर्गर्भं गर्भक्लेशं च दारुणम् ।।३२।।
नानायोनि निवासं च वियोगं च प्रियैः सह ।।
अप्रियैः सह संयोगमधर्माद्दुःखसंभवम् ।। ३३ ।।
पुनर्निरयसंवासंनानानरकयातनाः ।।
कर्मदोषसमुद्भूता नृणांगतिरनेकधा ।। ३४ ।।
देहेष्वनित्यतां दृष्ट्वा नित्यता परमात्मनः ।।
कुर्वीत मुक्तये यत्नं यत्रयत्राश्रमे रतः ।। ३५ ।।
करपात्रीति विख्याता भिक्षापात्रविवर्जिता ।।
तेषां शतगुणं पुण्यं भवत्येव दिनेदिने ।। ३६ ।।
आश्रमांश्चतुरस्त्वेवं क्रमादासेव्य पंडितः ।।
निर्द्वंद्वस्त्यक्तसंगश्च ब्रह्मभूयाय कल्पते ।। ३७ ।।
असंयतः कुबुद्धीनामात्मा बंधाय कल्पते ।।
धीमद्भिः संयतः सोपि पदं दद्यादनामयम् ।।३८।।
श्रुति स्मृति पुराणं च विद्योपनिषदस्तथा ।।
श्लोकाः मंत्राणि भाष्याणि यच्चान्यद्वाङ्मयं क्वचित् ।। ३९ ।।
वेदानुवचनं ज्ञात्वा ब्रह्मचर्य तपो दमः ।।
श्रद्धोपवासः स्वातंत्र्यमात्मनोज्ञानहेतवः ।। 4.1.41.४० ।।
स हि सर्वैर्विजिज्ञास्य आत्मैवाश्रमवर्तिभिः ।।
श्रोतव्यस्त्वथ मंतव्यो द्रष्टव्यश्च प्रयत्नतः ।।४१।।
आत्मज्ञानेन मुक्तिः स्यात्तच्च योगादृते नहि।।
स च योगश्चिरं कालमभ्यासादेव सिध्यति ।। ४२ ।।
नारण्यसंश्रयाद्योगो न नानाग्रंथ चिंतनात्।।
न दानैर्न व्रतैर्वापि न तपोभिर्न वा मखैः ।। ४३ ।।
न च पद्मासनाद्योगो न वा घ्राणाग्रवीक्षणात् ।।
न शौचे न न मौनेन न मंत्राराधनैरपि ।। ४४ ।।
अभियोगात्सदाभ्यासात्तत्रैव च विनिश्चयात् ।।
पुनःपुनरनिर्वेदात्सिध्येद्योगो न चान्यथा ।। ४५ ।।
आत्मक्रीडस्य सततं सदात्ममिथुनस्य च ।।
आत्मन्येव सु तृप्तस्य योगसिद्धिर्न दूरतः ।। ४६ ।।
अत्रात्मव्यतिरेकेण द्वितीयं यो न पश्यति ।।
आत्मारामः स योगींद्रो ब्रह्मीभूतो भवेदिह ।। ४७ ।।
संयोगस्त्वात्ममनसोर्योग इत्युच्यते बुधैः ।।
प्राणापानसमायोगो योग इत्यपि कैश्चन ।। ४८ ।।
विषयेंद्रिय संयोगो योग इत्यप्यपंडितैः ।।
विषयासक्तचित्तानां ज्ञानं मोक्षश्च दूरतः ।। ४९ ।।
दुर्निवारा मनोवृत्तिर्यावत्सा न निवर्तते ।।
किं वदंत्यपियोगस्य तावन्नेदीयसी कुतः ।। 4.1.41.५० ।।
वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञे परमात्मनि ।।
एकीकृत्य विमुच्येत योगयुक्तः स उच्यते ।। ५१ ।।
बहिर्मुखानि सर्वाणि कृत्वा खान्यंतराणि वै ।।
मनस्येवेंद्रियग्रामं मनश्चात्मनि योजयेत् ।। ५२ ।।
सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।।
एतद्ध्यानं च योगश्च शेषोन्यो ग्रंथविस्तरः ।। ५३ ।।
यन्नास्ति सर्वलोकेषु तदस्तीति विरुध्यते ।।
कथ्यमानं तदन्यस्य हृदयेनावतिष्ठते ।। ५४ ।।
स्वसंवेद्यं हि तद्ब्रह्म कुमारी स्त्री सुखं यथा ।।
अयोगी नैव तद्वेत्ति जात्यंध इव वर्तिकाम् ।। ५५ ।।
नित्याभ्यसनशीलस्य स्वसंवेद्यं हि तद्भवेत् ।।
तत्सूक्ष्मत्वादनिर्देश्यं परं ब्रह्म सनातनम् ।। ५६ ।।
क्षणमप्येकमुदकं यथा न स्थिरतामियात् ।।
वाताहतं यथा चित्तं तस्मात्तस्य न विश्वसेत् ।। ५७ ।।
अतोऽनिलं निरुंधीत चित्तस्य स्थैर्य हेतवे ।।
मरुन्निरोधनार्थाय षडंगं योगमभ्यसेत् ।। ५८ ।।
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।।
ध्यानं समाधिरेतानि योगांगानि भवंति षट् ।। ५९ ।।
आसनानीह तावंति यावंत्यो जीवयो नयः ।।
सिद्धासनमिदं प्रोक्तं योगिनो योगसिद्धिदम्।।4.1.41.६०।।
एतदभ्यसनान्नित्यं वर्ष्मदार्ढ्यमवाप्नुयात्।। ।। ६१ ।।
दक्षिणं चरणं न्यस्य वामोरूपरि योगवित् ।।
याम्योरूपरि वामं च पद्मासनमिदं विदुः ।। ६२ ।।
कराभ्यां धारयेत्पश्चादंगुष्ठौ दृढबंधवित्।।
भवेत्पद्मासनादस्मादभ्यासाद्दृढविग्रहः ।। ६३ ।।
अथवा ह्यासने यस्मिन्सुखमस्योपजायते ।।
स्वस्तिकादौ तदध्यास्य योगं युंजीत योगवित् ।। ६४ ।।
न तोयवह्निसामीप्ये न जीर्णारण्यगोष्ठयोः ।।
न दंशमशकाकीर्णे न चैत्ये न च चत्वरे ।। ६९ ।।
केशभस्मतुषांगार कीकसादि प्रदूषिते ।।
नाभ्यसेत्पूतिगंधादौ न स्थाने जनसंकुले ।।६६ ।।
सर्वबाधाविरहिते सर्वेंद्रियसुखावहे ।।
मनःप्रसादजनने स्रग्धूपामोदमोदिते ।। ६७ ।।
नातितृप्तः क्षुधार्तो न न विण्मूत्रप्रबाधितः ।।
नाध्वखिन्नो न चिंतार्तो योगं युंजीत योगवित् ।। ।। ६८ ।।
ऊरुस्थोत्तानचरणः सव्येन्यस्योत्तरं करम् ।।
उत्तानं किंचिदुन्नम्य वक्त्रं विष्टभ्य चोरसा ।। ६९ ।।
निमीलिताक्षः सत्त्वस्थो दंतैर्दंतान्न संस्पृशेत् ।।
तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ।। 4.1.41.७० ।।
सन्नियम्येंद्रियग्रामं नातिनीचोच्छ्रितासनः ।।
मध्यमं चोत्तमं चाथ प्राणायाममुपक्रमेत् ।। ७१ ।।
चलेऽनिले चलं सर्वं निश्चले तत्र निश्चलम् ।।
स्थाणुत्वमाप्नुयाद्योगी ततोऽनिलनिरुंधनात् ।। ७२ ।।
यावद्देहे स्थितः प्राणो जीवितं तावदुच्यते ।।
निर्गते तत्र मरणं ततः प्राणं निरुंधयेत् ।। ७३ ।।
यावद्बद्धो मरुद्देहे यावच्चेतो निराश्रयम् ।।
यावद्दृष्टिर्भुवोर्मध्ये तावत्कालभयं कुतः ।।७४।।
कालसाध्वसतोब्रह्मा प्राणायामं सदाचरेत् ।।
योगिनः सिद्धिमापन्नाः सम्यक्प्राणनियंत्रणात् ।। ७५ ।।
मंदो द्वादशमात्रस्तु मात्रा लघ्वक्षरा मता ।।
मध्यमो द्विगुणः पूर्वादुत्तमस्त्रिगुणस्ततः ।।७६।।
स्वेदं कंपं विषादं च जनयेत्क्रमशस्त्वसौ ।।
प्रथमेन जयेत्स्वेदं द्वितीयेन तु वेपथुम् ।।७७।।
विषादं हि तृतीयेन सिद्धः प्राणोथ योगिनः ।।
भवेत्क्रमात्सन्निरुद्धः सिद्धः प्राणोथ योगिना ।।
क्रमेण सेव्यमानोसौ नयते यत्र चेच्छति ।। ।। ७८ ।।
हठान्निरुद्धप्राणोयं रोमकूपेषु निःसरेत् ।।
देहंविदारयत्येष कुष्ठादिजनयत्यपि ।। ७९ ।।
तत्प्रत्याययितव्योसौ क्रमेणारण्यहस्तिवत् ।।
वन्यो गजो गजारिर्वा क्रमेण मृदुतामियात् ।। 4.1.41.८० ।।
करोति शास्तृनिर्देशं न च तं परिलंघयेत् ।।
तथा प्राणो हदिस्थोयं योगिनाक्रमयोगतः ।।
गृहीतः सेव्यमानस्तु विश्रंभमुपगच्छति ।। ८१ ।।
षट्त्रिंशदंगुलो हंसः प्रयाणं कुरुते बहिः ।।
सव्यापसव्यमार्गेण प्रयाणात्प्राण उच्यते ।। ८२ ।।
शुद्धिमेति यदा सर्वं नाडीचक्र मनाकुलम् ।।
तदैव जायते योगी क्षमः प्राणनिरोधने ।। ८३ ।।
दृढासनो यथाशक्ति प्राणं चंद्रेण पूरयेत् ।।
रेचयेदथ सूर्येण प्राणायामोयमुच्यते ।। ८४ ।।
स्रवत्पीयूषधारौघं ध्यायंश्चंद्रसमन्वितम् ।।
प्राणायामेन योगींद्रः सुखमाप्नोति तत्क्षणात् ।। ८५ ।।
रविणा प्राणमाकृष्य पूरयेदौदरीं दरीम् ।।
कुंभयित्वा शनैः पश्चाद्योगी चंद्रेण रेचयेत् ।। ८६ ।।
ज्वलज्वलनपुंजाभं शीलयन्नुष्मगुं हृदि ।।
अनेन याम्यायामेन योगींद्रः शर्मभाग्भवेत् ।। ८७ ।।
इत्थं मासत्रयाभ्यासादुभयायामसेवनात् ।।
शुद्धनाडीगणो योगी सिद्धप्राणोभिधीयते ।। ८८ ।।
यथेष्टं धारणं वायोरनलस्य प्रदीपनम् ।।
नादाभिव्यक्तिरारोग्यं भवेन्नाडीविशोधनात् ।। ८९ ।।
प्राणोदेहगतोवायुरायामस्तन्निबंधनम् ।।
एकश्वासमयी मात्रा प्राणायामो निरुच्यते ।। 4.1.41.९० ।।
प्राणायामेऽधमे घर्मः कंपो भवति मध्यमे ।।
उत्तिष्ठेदुत्तमे देहो बद्धपद्मासनो मुहुः ।। ९१ ।।
प्राणायामैर्दहेद्दोषान्प्रत्याहारेण पातकम् ।।
मनोधैर्यं धारणया ध्यानेनेश्वरदर्शनम् ।।९२।।
समाधिना लभेन्मोक्षं त्यक्त्वा धर्मं शुभाशुभम् ।।
आसनेन वपुर्दार्ढ्यं षडंगमिति कीर्तितम् ।। ९३ ।।
प्राणायामद्विषट्केन प्रत्याहार उदाहृतः ।।
प्रत्याहारैर्द्वादशभिर्धारणा परिकीर्तिता ।। ९४ ।।
भवेदीश्वरसंगत्यै ध्यानं द्वादशधारणम् ।।
ध्यानद्वादशकेनैव समाधिरभिधीयते ।। ९५ ।।
समाधेः परतो ज्योतिरनंतं स्वप्रकाशकम् ।।
तस्मिन्दृष्टे क्रियाकांडं यातायातं निवर्तते ।। ९६ ।।
पवने व्योमसंप्राप्ते ध्वनिरुत्पद्यते महान् ।।
घंटादीनां प्रवाद्यानां ततः सिद्धिरदूरतः ।। ९७ ।।
प्राणायामेन युक्तेन सर्वव्याधिक्षयोभवेत् ।।
अयुक्ताभ्यासयोगेन सर्वव्याधिसमुद्भवः ।। ९८ ।।
हिक्का श्वासश्च कासश्च शिरः कर्णाक्षिवेदनाः ।। .
भवंति विविधा दोषाः पवनस्य व्यतिक्रमात् ।। ९९ ।।
युक्तं युक्तं त्यजेद्वायुं युक्तंयुक्तं च पूरयेत् ।।
युक्तंयुक्तं च बध्नीयादित्थं सिध्यति योगवित् ।। 4.1.41.१०० ।।
इंद्रियाणां हि चरतां विषयेषु यदृच्छया ।।
यत्प्रत्याहरणं युक्त्या प्रत्याहारः स उच्यते ।। १ ।।
प्रत्याहरति यः खानि कूर्मोंगानीव सर्वतः ।।
प्रत्याहृति विधानेन स स्याद्विगतकल्मषः ।। २ ।।
नाभिदेशे वसेद्भानुस्तालुदेशे च चंद्रमाः ।।
वर्षत्यधोमुखश्चंद्रो ग्रसेदूर्ध्वमुखो रविः ।। ३ ।।
करणं तच्च कर्तव्यं येन सा प्राप्यते सुधा ।।
ऊर्ध्वनाभिरधस्तालुरूर्ध्वं भानुरधःशशी ।।
करणं विपरीताख्यमभ्यासादेव जायते ।। ४ ।।
काकचंचुवदास्येन शीतलं शीतलं पिबेत् ।।
प्राणं प्राणविधानज्ञो योगी भवति निर्जरः ।।५।।
रसनां तालुविवरे निधायोर्ध्वमुखोऽमृतम् ।।
धयन्निजर्रतां गच्छेदाषण्मासान्न संशयः ।। ६ ।।
ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः ।।
मासार्धेन न संदेहो मृत्युं जयति योगवित् ।। ७ ।।
संपीड्य रसनाग्रेण राजदंतबिलं महत् ।।
ध्यात्वा सुधामयीं देवीं षण्मासेन कविर्भवेत् ।। ८ ।।
अमृतापूर्णदेहस्य योगिनो द्वित्रिवत्सरात् ।।
ऊर्ध्वं प्रवर्तते रेतो ह्यणिमादिगुणोदयम्।। ९ ।।
नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः ।।
तक्षकेणापि दष्टस्य विषं तस्य न सर्पति।।4.1.41.११०।।
आसनेन समायुक्तः प्राणायामेन संयुतः ।।
प्रत्याहारेण संपन्नो धारणामथ चाभ्यसेत् ।। ११ ।।
हृदये पंचभूतानां धारणां यः पृथक्पृथक् ।।
मनसो निश्चलत्वेन धारणा साभिधीयते ।। १२ ।।

महाभत

हरितालनिभां भूमिं स लकारां सवेधसम् ।।
चतुष्कोणां हृदि ध्यायेदेषा स्यात्क्षितिधारणा ।। १३ ।।
कंठेंऽबुतत्त्वमर्धेंदुनिभं विष्णुसमन्वितम् ।।
वकारबीजं कुंदाभं ध्यायन्नंबुजयेदिति ।। १४ ।।
तालुस्थमिंद्रगोपाभं त्रिकोणं रेफसंयुतम् ।।
रुद्रेणाधिष्ठितं तेजो ध्यात्वा वह्निं जयेदिति ।। १५ ।।
वायुतत्त्वं भ्रुवोर्मध्ये वृत्तमंजनसन्निभम् ।।
यंबीजमीशदैवत्यं ध्यायन्वायुं जयेदिति ।। १६ ।।
आकाशं च मरीचिवारिसदृशं यद्ब्रह्मरंध्रस्थितं यन्नाथेन सदाशिवेन सहितं शांतं हकाराक्षरम् ।।
प्राणं तत्र विनीय पंचघटिकं चिंतान्वितं धारयेदेषा मोक्षकपाटपाटनपटुः प्रोक्ता नभोधारणा ।। १७ ।।
स्तंभनीप्लावनीचैव दहनीभ्रामणी तथा ।।
शमनी च भवंत्येता भूतानां पंच धारणाः ।। १८ ।।
ध्यै चिंतायां स्मृतो धातुश्चिंता तत्त्वे सुनिश्चला ।।
एतद्ध्यानमिह प्रोक्तं सगुणं निर्गुणं द्विधा ।। १९ ।।
सगुणं वणर्भेदेन निर्गुणं केवलं मतम् ।।
समंत्रं सगुणं विद्धि निर्गुणं मंत्रवर्जितम् ।। 4.1.41.१२० ।।
अंतश्चेतो बहिश्चक्षुरवस्थाप्य सुखासनम्।।
समत्वं च शरीरस्य ध्यानमुद्रातिसिद्धिदा ।। २१ ।।
नाश्वमेधेन तत्पुण्यं न च वै राजसूयतः ।।
यत्पुण्यमेकध्यानेन लभेद्योगी स्थिरासनः ।। २२ ।।
शब्दादीनां च तन्मात्रा यावत्कर्णादिषु स्थिता ।।
तावदेव स्मृतं ध्यानं स्यात्समाधिरतः परम् ।। २३ ।।
धारणा पंचनाडीका ध्यानं स्यात्षष्टिनाडिकम् ।।
दिनद्वाशकेन स्यात्समाधिरिह भण्यते ।। २४ ।।
जलसैंधवयोः साम्यं यथा भवति योगतः ।।
तथात्ममनसोरैक्यं समाधिरिह भण्यते ।। २५ ।।
यदा संक्षीयते प्राणो मानसं च प्रलीयते ।।
तदा समरसत्वं यत्स समाधिरिहोच्यते ।। २६ ।।
यत्समत्वं द्वयोरत्र जीवात्मपरमात्मनोः ।।
सनष्टसर्वसंकल्पः समाधिरभिधीयते ।। २७ ।।
नात्मानं न परं वेत्ति न शीतं नोष्ममेव च ।।
समाधियुक्तो योगींद्रो न सुखं न सुखेतरत् ।। २८ ।।
काल्यते नैव कालेन लिप्यते नैव कर्मणा ।।
भिद्यते न च शस्त्रास्त्रै योगी युक्तः समाधिना ।। २९ ।।
युक्ताहारविहारश्च युक्तचेष्टो हि कर्मसु ।।
युक्तनिद्रावबोधश्च योगी तत्त्वं प्रपश्यति ।। 4.1.41.१३० ।।
तत्त्वविज्ञानमानंदं ब्रह्म ब्रह्मविदो विदुः ।।
हेतुदृष्टांत रहितं वाङ्मनोभ्यामगोचरम् ।। ३१ ।।
तत्र योगी निरालंबे निरातंके निरामये ।।
षडंगयोगविधिना परेब्रह्मणि लीयते।।३२।।
यथा घृते घृतं क्षिप्तं घृतमेव हि तद्भवेत् ।।
क्षीरेक्षीरं तथा योगी तत्र तन्मयतां व्रजेत् ।। ३३ ।।
अनसंजातपानीयैर्विदध्यादंगमर्दनम् ।।
त्यजेत्कदुष्णं लवणं क्षीरभोजी सदा भवेत् ।। ३४ ।।
ब्रह्मचारी जितक्रोधो जितलोभो विमत्सरः ।।
अब्दमित्थं सदाभ्यासात्स योगीति निगद्यते ।। ३५ ।।
महामुद्रां नभोमुद्रामुड्डीयानं जलंधरम् ।।
मूलबंधं तु यो वेत्ति स योगी योगसिद्धिभाक् ।। ३६ ।।
शोधनं नाडीजालस्य घटनं चंद्रसूर्ययोः ।।
रसानां शोषणं सम्यङ्महामुद्राभिधीयते ।। ३७ ।।
योनिं वामांघ्रिणाऽऽपीड्य कृत्वा वक्षस्थले हनुम् ।।
हस्ताभ्यां प्रसृतं पादं धारयेद्दक्षिणं चिरम् ।। ३८ ।।
प्राणेन कुक्षिमापूर्य चिरं संरेचयेच्छनैः ।।
एषा प्रोक्ता महामुद्रा महाघौघविनाशिनी ।। ३९ ।।
चंद्रांगे तु समभ्यस्य सूर्यांगे पुनरभ्यसेत्।।
यावत्तुल्या भवेत्संख्या ततो मुद्रां विसर्जयेत् ।। 4.1.41.१४० ।।
न हि पथ्यमपथ्यं वा रसाः सर्वेपि नीरसाः ।।
अपि घोरं विषं पीतं पीयूषमिवजीर्यति ।। ४१ ।।
क्षयकुष्ठगुदावर्त गुल्माजीर्णपुरोगमाः ।।
तस्य दोषाः क्षयं यांति महामुद्रां च योभ्यसेत् ।। ४२ ।।
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ।।
भ्रुवोरंतर्गता दृष्टिर्मुद्रा भवति खेचरी ।। ४३ ।।
न पीड्यते शरौघेण न च लिप्येत कर्मणा ।।
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ।। ४४ ।।
चित्तं चरति खे यस्मा जिह्वा चरति खे गता ।।
तेनैषा खेचरी नाम मुद्रा सिद्धैर्निषेविता ।। ४५ ।।
यावद्बिंदुः स्थितो देहे तावन्मुत्युभयं कुतः ।।
यावद्बद्धा नभोमुद्रा तावद्बिंदुर्न गच्छति ।। ४६ ।।
उड्डीनं कुरुते यस्मादहोरात्रं महाखगः ।।
उडीयानं ततः प्रोक्तं तत्र बंधो विधीयते ।। ४७ ।।
जठरे पश्चिमं तानं नाभेरूर्ध्वं च धारयेत् ।।
उङ्डीयानो ह्ययं बंधो मृत्योरपि भयं त्यजेत् ।। ४८ ।।
बध्नाति हि शिराजालमधोगामि नभोजलम् ।।
एष जालंधरो बंधः कंठे दुःखौघनाशनः ।। ४९ ।।
जालंधरे कृते बंधे कंठसकोचलक्षणे ।।
न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ।।4.1.41.१५०।।
पार्ष्णिभागेन संपीड्य योनिमाकुंचयेद्गुदम्।।
अपानमूर्ध्वमाकृष्य मूलबंधो विधीयते।। ५१ ।।
अपानप्राणयोरैक्ये क्षयो मूत्रपुरीषयोः ।।
युवा भवति वृद्धोपि सततं मूलबंधनात् ।। ५२ ।।
प्राणापानवशो जीवः ऊर्द्ध्वाधः परिधावति ।।
वामदक्षिणमार्गेण चंचलो न स्थितिं लभेत् ।। ५३।।
गुणबद्धो यथा पक्षी गतोप्याकृष्यते पुनः ।।
गुणैर्बद्धस्तथा जीवः प्राणायामेन कृष्यते ।। ५४ ।।
अपानः कर्षति प्राणं प्राणोपानं च कर्षति ।।
ऊर्ध्वाधः संस्थितावेतौ संयोजयति योगवित् ।। ५५ ।।
हकारेण बहिर्याति सकारेण विशेत्पुनः।।
हंसहंसेत्यतो मंत्रं जीवो जपति सर्वदा ।। ५६ ।।
षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः ।।
एतत्संख्यान्वितं मंत्रं जीवो जपति सर्वदा ।। ।। ५७ ।।
अजपा नाम गायत्री योगिनां मोक्षदायिनी ।।
अस्याः संकल्पमात्रेण नरः पापैः प्रमुच्यते ।। ५८ ।।
अंतराया भवंतीह योगिनो योगहानिदाः ।।
श्रूयते दूरगा वार्ता दूरस्थं दृश्यते पुरः ।। ५९ ।।
योजनानां शतं यातुं शक्तिःस्यान्निमिषार्धतः।।
अचिंतितानि शास्त्राणि कंठपाठी भवंति हि ।।4.1.41.१६०।।
धारणाश क्तिरत्युग्रा महाभारो लघुर्भवेत् ।।
क्षणं कृशः क्षणं स्थूलः क्षणमल्पः क्षणं महान् ।। ६१ ।।
परकायं प्रविशति तिरश्चां वेत्ति भाषितम् ।।
दिव्यगंधं तनौ धत्ते दिव्यां वाणीं प्रवक्ति च ।। ६२ ।।
प्रार्थ्यते दिव्यकन्याभिर्दिव्यं धारयते वपुः ।।
इत्यादयोंतरायाः स्युर्योगसंसिद्धिसूचकाः ।। ६३ ।।
यद्येभिरंतरायैर्न क्षिप्यतेऽस्येह मानसम् ।।
तदग्रे तत्समाप्नोति पदं ब्रह्मादि दुर्लभम् ।। ६४ ।।
यत्प्राप्य न निवर्तेत यत्प्राप्य न च शोचति ।।
तल्लभ्यते षडंगेन योगेन कलशोद्भव ।। ६५ ।।
एकेन जन्मना योगः कथमित्थं प्रसिध्यति ।।
ऋते च योगसंसिद्धेः कथं मुक्तिरिहाप्यते ।। ६६ ।।
उभे एव हि निर्वाणवर्त्मनी किल कुंभज ।।
किं वा काश्यां तनुत्यागः किं वा योगोयमीदृशः ।।६७।।
चंचलेंद्रियवृत्तित्वात्कलिकल्मषजृंभणात् ।।
अल्पायुषां तथा नृणां क्वेह योग महोदयः ।।६८।।
अतएव हि जंतूनां महोदयपदप्रदः ।।
सदैव स दयावार्धिः काश्यां विश्वेश्वरः स्थितः ।। ६९ ।।
काश्यां सुखेन कैवल्यं यथालभ्येत जंतुभिः ।।
योगयुक्त्याद्युपायैश्च न तथान्यत्र कुत्रचित् ।। 4.1.41.१७० ।।
काश्यां स्वदेहसंयोगः सम्यग्योग उदाहृतः ।।
मुच्यते नेह योगेन क्षिप्रमन्येन केनचित् ।। ७१ ।।
विश्वेश्वरो विशालाक्षी द्युनदीकालभैरवः ।।
श्रीमान्ढुंढिर्दंडपाणिः षडंगो योग एष वै ।। ७२ ।।
एतत्षडंगयो योगं नित्यं काश्यां निषेवते ।।
संप्राप्य योगनिद्रां स दीर्घाममृतमश्नुते ।। ७३ ।।
ओंकारः कृत्तिवासाश्च केदारश्च त्रिविष्टपः ।।
वीरेश्वरोथविश्वेशः षडंगोयमिहापरः ।। ७४ ।।
पादोदकासिसंभेद ज्ञानोदमणिकर्णिकाः ।।
षडंगोयं महायोगो ब्रह्मधर्मह्रदावपि ।। ७५ ।।
षडंगसेवनादस्माद्वाराणस्यां नरोत्तम ।।
न जातु जायते जंतुर्जननी जठरे पुनः ।। ७६ ।।
गंगास्नानं महामुद्रा महापातकनाशनी ।।
एतन्मुद्राकृताभ्यासोप्यमृतत्वमवाप्नुयात् ।।७७।।
काशीवीथिषु संचारो मुद्रा भवति खेचरी।।
खेचरो जायते नूनं खेचर्या मुद्रयानया ।।७८।।
उड्डीय सर्वतो देशाद्यानं वाराणसीं प्रति ।।
उङ्डीयानो महाबंध एष मुक्त्यै प्रकल्पते ।। ७९ ।।
जलस्य धारणं मूर्ध्नि विश्वेश स्नानजन्मनः ।।
एष जालंधरो बंधः समस्तसुरदुर्लभः ।। 4.1.41.१८० ।।
वृतो विघ्नशतेनापि यन्न काशीं त्यजेत्सुधीः ।।
मूलबंधः स्मृतो ह्येष दुःखमूलनिकृंतनः ।। ८१ ।।
इति योगः समाख्यातो मया ते द्विविधो मुने ।।
सषडंगः समुद्रश्च मुक्तये शंभुभाषितः ।। ८२ ।।
यावन्नेंद्रिय वैक्लव्यं यावद्व्याधिर्न बाधते ।।
यावत्कालविलंबोस्ति तावद्योगरतो भवेत् ।। ८३ ।।
उभयोर्योगयोर्मध्ये काशीयोगोयमुत्तमः ।।
काशीयोगं समभ्यस्य प्राप्नुयाद्योगमुत्तमम् ।। ८४ ।।
आधिव्याधिसहायिन्या जरया मृत्युलिंगया ।।
कालं निकटतो ज्ञात्वा काशीनाथं समाश्रयेत ।। ८५ ।।
काशीनाथं समाश्रित्य कुतः कालभयं नृणाम् ।।
क्रुद्धोपि जीवहृत्कालस्तच्च काश्यां सुमंगलम् ।। ८६ ।।
आतिथ्येनेहसियथा प्रतीक्षेतातिथिं कृती ।।
काश्यां कालं तथायांतं भाग्यवान्संप्रतीक्षते ।। ८७ ।।
कलिः कालः कृतंकर्म त्रिकंटकमितीरितम् ।।
एतत्त्रयं न प्रभवेदानंदवनवासिनाम् ।।८८।।
अन्यत्रातर्कितः कालः कलयिष्यत्यसंशयम् ।।
कालादभयमिच्छेच्चेत्ततः काशीं समाश्रयेत् ।। ८९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे योगाख्यानं नामैकचत्वारिंशोऽध्यायः ।।४१ ।।